सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् । सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ।। ४८ ।।

सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् ।

सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ।। ४८ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु वैगुण्यशङ्कया स्वविहितकर्मत्यागो न शङ्कनीयः । वैगुण्यस्य सर्वथाऽवर्जनीयत्वादित्युच्यते– सहजमिति ।। सहजं स्वभावनियतं कर्म सदोषं किञ्चिद्वैगुण्यादिदोषसहितमपि न त्यजेत् । हि यस्मात् सर्वारम्भाः सर्वाण्यपि कर्माणि दोषेण केनचिद् आवृता व्याप्ता एव, धूमेन सहजेन अग्निरिव ।। ४८ ।।