त्वमादिदेवः पुरुषः पुराणः त्वमस्य विश्वस्य परं निधानम् । वेत्ताऽसि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप ।।३८।।
त्वमादिदेवः पुरुषः पुराणः त्वमस्य विश्वस्य परं निधानम् ।
वेत्ताऽसि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप ।।३८।।
भावरत्नकोशः
गीताक्षरार्थस्तु किञ्च त्वम्् आदिदेवः देवानामादिः, पुरि शयनात् पुरुषः, पुराणः चिरन्तनः । ‘निधीयतेऽस्मिन्’ इति निधानम् आश्रयः । वेत्ता वेदिता ज्ञाता असि । वेद्यं वेदनकर्म वस्तुजातं च त्वमेव त्वदधीनमेव वेद्यं परमं वेद्यं स्वरूपात्मकं च त्वमेव । वेत्ता ‘विद विचारणे’ इत्यस्माद् अनिट्कात् ‘विचारयिता’ इति वा । परं धाम तेजश्च त्वमेव । अनन्तरूप अनन्तम् कालतोऽन्तहीनं रूपमस्येति अनन्तरूपः, तत्सम्बुद्धिः । ‘नान्तं न मध्यं न पुनस्तवादिं पश्यामि’ इति परिमाणानन्त्यस्योक्तत्वात्, ‘त्वया ततं विश्वम्’ इति पुनरुक्तिः इति चेन्न । ‘नान्तं पश्यामि’ इत्युक्ते नेश्वरस्य परिमाणानन्त्यं सिध्यति, इत्यपि प्रतीतेः तन्निवृत्त्यर्थं ‘न केवलमहं न पश्यामि’, किन्तु ‘त्वया ततं च विश्वम्’ इत्युक्तत्वेन सप्रयोजनत्वाद् न पुनरुक्तिरिति तात्पर्यात् । तथापि ‘पश्यामि त्वां सर्वतोऽनन्तरूपम्’ ‘द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः’ इत्यादि पुनरुक्तिरिति चेन्न । एतद्वाक्यजातस्य विष्णोर्देशतः कालतो गुणतश्चानन्त्ये स्वस्य महातात्पर्यज्ञापनार्थाभ्यासरूपत्वेन सप्रयोजनत्वाद् इत्युत्तरप्रस्थाने व्यक्तम् ।। ३८ ।।