अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति । नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ।। ४० ।।

अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ।

नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ।। ४० ।।

भावरत्नकोशः

ज्ञानाभावे विपरीतज्ञानादौ च सति अनिष्टमुच्यते– अज्ञश्चेति ।। अज्ञो ज्ञानहीनो विपरीतज्ञानश्च अश्रद्धधानः आस्तिक्यबुद्धिशून्यः । संशयात्मा तत्त्वविषये संशययुक्तमानसः । विनश्यति नरकं प्रतिपद्यते । विपरीतज्ञानी चेत्, तमः प्राप्नोतीति स्वरूपनाश एव व्याख्येयः । अज्ञाश्रद्धधानयोर्नरकप्राप्तिरेव । संशयात्मनस्तु अयं लोकः मानुषो लोकः न परः स्वर्गादिर्वा नास्ति, किं बहुना सुखमेव नास्ति ।। ४० ।।