यो मामजमनादिं च वेत्ति लोकमहेश्वरम् । असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ।। ३ ।।
यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ।
असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ।। ३ ।।
भाष्यम्
अनश्चेष्टयिता आदिश्च सर्वस्येत्यनादिः । अजत्वेन सिद्धेरितरस्य ।।
भावप्रदीपिका अजशब्दात् अनादिशब्दस्यार्थभेदमाह– अन इति ।। तर्हि ब्रह्मण आदिराहित्यं नोक्तं स्यादित्यत आह– अजत्वेनेति ।। ३ ।।
प्रमेयदीपिका
अजशब्दागतार्थतया अनादिशब्दं व्याचष्टे– अन इति ।। ‘सर्वस्य’ इत्युभयशेषः । अन्तर्णीतण्यर्थादनतेः पचाद्यच् । ‘न विद्यते आदिः कारणमस्येत्यनादिः’ इत्यन्ये । तदसत् । आर्थिकपुनरुक्तेरपरिहारादित्याह– अजत्वे-नेति ।। इतरस्य कारणराहित्यस्य । अजत्वे हेतुरयमुच्यत इति चेत् । मैवम् । तज्ज्ञापकविभक्त्याद्यभावात् । गत्यन्तराभावे हि गमनिकैषा । चेष्टकत्वं प्रागनुक्तं कथमनूद्यते?इति चेन्न । प्रभावे सर्वस्यान्तर्भावात् ।।
भावबोधः
ननु हेतुत्वज्ञापकपञ्चमीविभक्तिहिशब्दाद्याभावेऽपि हेत्वर्थगर्भ-विशेषणत्वेन तद्घटत इत्यत आह– गत्यन्तराभावे हीति ।। ३ ।।
भावदीपः
।। उभयशेष इति ।। चेष्टयिता’ इत्यत्र, ‘आदिः’ इत्यत्राप्यन्वेतीत्यर्थः ।। ३ ।।
भावरत्नकोशः
।। उभयशेष इति ।। ‘सर्वस्य चेष्टयिता’, ‘सर्वस्यादिः’ इत्युभयत्र ‘सर्वस्य’ इति पदं काकाक्षिन्यायेन योजनीयमित्यर्थः । अनितेः ‘नन्दिग्रहिपचादिभ्यो ल्युणिनि अचः’ इति कर्तरि अच्प्रत्यये कृते चेष्टाकृत्त्वलाभेऽपि, चेष्टाकारयितृत्वालाभात् ‘चेष्टयिता’ इति व्याख्यानायोगः इत्यत उक्तम्– अन्तर्णीतण्यर्थादिति ।। अन्ये शङ्करश्रीधर-प्रभृतयः । आर्थिकेति ।। अजत्वोक्तौ अर्थात् कारणराहित्यस्यापि लाभादिति भावः । ‘अनादित्वमजत्वे हेतुः’ इति शङ्करभाष्यमनुवदति– अजत्व इति ।। अयम् अनादि-शब्दाभिप्रेतः । तज्ज्ञापकेति ।। ‘साधनत्वख्यापकविभक्त्यन्तं लिङ्गवचनं हेतुः’ इति । परीक्षकलक्षितहेतुज्ञापकविभक्त्यभावादित्यर्थः । आदिशब्देन ‘अनादित्वहेतुना’ इत्यादिवचन-परिग्रहः । हेत्वर्थगर्भम् अनादिपदं किन्न स्यात् इत्यत आह– गत्यन्तरेति ।। गमनिका अवतारिका । प्रभावे प्रभवशब्दगीते सामर्थ्ये सर्वस्य सर्वचेष्टयितृत्वादेः ।।
एवं देवाद्यज्ञेयमहिमत्वम् उत्पत्तिराहित्यं चोक्त्वा स्वस्याजत्वादिज्ञानिनो मोक्षाख्यमहिमाऽ-त्रोच्ते– यो मामिति ।। अजम् उत्पत्तिहीनम् अनादिम् अन्तर्णीतण्यर्थादनितेः पचाद्यचि, अनः चेष्टयिता चासौ आदिः कारणं च सर्वस्येति अनादिः । बहुलग्रहणाद् विशेषणयोरपि समासः । तच्चेष्टकत्वं प्रागनुक्तं कथमनूद्यत इति चेन्न । प्रभावे सर्वस्यान्तर्भावात् । लोकमहेश्वरं लोकानां महास्वामिनं च । असम्मूढः असम्भ्रान्तः सन् यो वेत्ति जानाति, स मर्त्येषु सर्वपापैः प्रमुच्यते प्रमोक्ष्यते ।। ३ ।।
भावदीपिका
।। उभयशेष इति ।। तथा च ‘अनश्चेष्टयिता’ इत्यत्रापि ‘सर्वस्य’ इत्येतत् सम्बध्यत इति भावः । पचाद्यजिति ।। तथा च ‘अन चेष्टायाम्’ इत्यस्माद्धातोः ‘नन्दिग्रहिपचादिभ्यो ल्यु णिनि अचः’ इति सूत्रेण कर्तरि पचादिगणस्थत्वाद् अच्प्रत्यये, चकारलोपे, ‘अनः’ इति रूपं द्रष्टव्यम् । हेतुरिति ।। उत्पत्त्यभावे कारणराहित्यं हेतुरनादिशब्देनोच्यत इत्यर्थः । विभक्तीति ।। हेतुत्वज्ञापकपञ्चमीतृतीयाविभक्तिशब्दादेर-भावादित्यर्थः । गत्यन्तराभावाद् हेत्वर्थगर्भत्वमङ्गीकृत्यैवं व्याक्रियत इतिचेत्, तत्राह– गत्यन्तरेति ।। गमनिका व्याख्या । ‘अनश्चेष्टयिता’ इत्युक्तरीत्या गत्यन्तरं त्वस्तीत्याशयः । अनूद्यत इति ।। ‘अनादिम्’ इत्यत्र अनशब्देनेत्यर्थः । प्रभाव इति ।। चेष्टकत्वस्यापि प्रभावत्वेन प्रागुक्ततया नानुक्तत्वमित्यर्थः ।। ३ ।।
भावप्रकाशः
अनितेः पचाद्यचि कृते चेष्टाकर्तृत्वलाभेऽपि कारयितृत्वा-लाभाच्चेष्टयितेति व्याख्यानायोग इत्यत उक्तम्– अन्तर्णीतेति ।। विभक्त्याद्यभावादिति ।। आदिपदेन यतस्ततो हीत्यादेः सङ्ग्रहः । ननु हेत्वर्थगर्भविशेषणमेतदिति नोक्तदोष इत्यत आह– गत्यन्तराभाव इति ।। ३ ।।