यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते । सर्वसङ्कल्पसन्न्यासी योगारूढस्तदोच्यते।। ४ ।।
यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते ।
सर्वसङ्कल्पसन्न्यासी योगारूढस्तदोच्यते।। ४ ।।
भाष्यम्
योगारूढस्य लक्षणमाह– यदेति ।। सम्यगननुषङ्गस्तस्यैव भवति । उक्तं च– ‘स्वतो दोषलयो दृष्ट्वा त्वितरेषां प्रयत्नतः’ इति ।। ४ ।।
भावप्रदीपिका
यदि योगारूढतापर्यन्तमवश्यं कर्म कार्यम्, तर्हि सैव कादृशी ? इत्याशङ्क्य, उत्तरत्वेनोत्तरश्लोकमवतारयति– योगेति । ननु विषयाननुषङ्गाख्यलक्षणं जिज्ञासावतिव्याप्तमित्याशङ्क्य, सप्रमाणकं परिहरति– सम्यगिति । तस्यैव योगारूढस्य । स्वतः प्रयत्नं विना ।। ४ ।।
भावप्रकाशिका
योगारूढो नाम योगोपरिभाविकार्यमपरोक्षज्ञानं प्राप्तः, यस्य शमः परमसुखकारणं स कथं ज्ञातव्य इत्यत आह– योगारूढस्येति । कर्मस्वननुषङ्गो नाम स्वानुष्ठीयमानाध्ययनादिकर्मसु ‘अहं करोमि’, ‘ममैतत् फलं स्यात्’ इति कामसङ्कल्पत्यागः । ननु प्रत्याहारादेरपीन्द्रियार्थादिष्वननुषङ्गो भवति । अतोऽतिव्यापकमिदं लक्षणमित्यत आह– सम्यगिति । अपरोक्षज्ञानिन एवेत्यर्थः । तत्र प्रमाणमाह– उक्तं चेति । स्वत इति । प्रयत्नं विना । विषयकर्मानुषङ्गे दोषहानिलक्षणमिति भावः ।। ४ ।।
प्रमेयदीपिका
स्फुटमपि तात्पर्यं मन्दानुजिघृक्षयाऽऽह– योगेति ।। अपरोक्षज्ञानं तु योगारोहस्य कार्यं सति प्रतिबन्धे विलम्बत इति न लक्षणम् । नन्विदं साधकेऽपि विद्यते । वशे हि यस्येन्द्रियाणि (२.६१)इत्यादेः । अतोऽतिव्यापकमित्यत आह– सम्यगिति ।। प्रयत्नं विनेत्यर्थः । तस्यैव योगारूढस्यैव । अत्र प्रमाणमाह– उक्तं चेति ।। ‘परमात्मानं दृष्ट्वा त्तु ‘ आप्यते’ इति शेषः । मुख्य एव चाननुषङ्गोऽत्र विवक्षित इति भावः ।। ४ ।।
भावबोधः
।। सति प्रतिबन्धे विलम्बत इति । तथा चाव्यापकं स्यादिति भावः । प्राप्यते इति शेष इति । ‘स्वतो दोषलयः’ इति सम्बन्धः । तेन दृष्ट्वेत्यस्य समानकर्तृकतेति भावः । अत्रेति । ‘यदा हि नेन्द्रियार्थेषु’ इति गीतावाक्य इत्यर्थः ।। ४ ।।
भावदीपः
योगारूढशब्दितसमाधिसम्पन्नस्यापरोक्षज्ञानमेव लक्षणमस्त्वित्यत आह– अपरोक्षेति ।। नन्विदमित्यनुवादः ।। ‘यदा ते मोह’ इत्युक्तस्य आरुरुक्षोः इति पूर्वार्धेनेति योज्यम् । ‘यदा हि’ इति श्लोकोक्तम्, वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता इति द्वितीयोक्तगीतावचनादित्यर्थः ।। दृष्ट्वा इति क्त्वाश्रुत्युपपत्तये क्रियान्तरमाह– दृष्ट्वा त्वाप्यत इति शेष इति ।। त्वा त्वामित्यर्थः । तावता साधके विद्यत इति शङ्कायाः कः परिहार इत्यत आह– मुख्य एवेति ।। अत्रेति ।। यदा हि इति श्लोके साधकत्वं त्वमुख्यत इति भावः
।। ४ ।।
वाक्यार्थप्रदीपः (पां.टि.)– ।। परमात्मानं दृष्ट्वा आप्यत इति शेष इति ।। ततश्च परमात्मदर्शनदोषलयाप्त्योः जीवकर्तृकत्वेन समानकर्तृकत्वात् समानकर्तृकयोरिति दृष्ट्वेति क्त्वाप्रत्यययोपपत्तिरिति भावः ।।
भावरत्नकोशः
‘योगारूढस्तदोच्यते’ इति स्वयमेवावेदनादाह– स्फुटमपीति ।। समाधियोगाधिकारत्वेनोक्तस्य कर्मण आफलप्राप्ति कर्तव्यत्वे निर्णीते सम्प्रत्यवसरप्राप्तसमाधियोग एव विधेयः । ‘योगारूढः सर्वसङ्कल्पसंन्यासी’ इति किं प्रकृतासङ्गतमुच्यत इति मन्दानामाशङ्का-परिहाराय उत्तरगीतामवतारयन् भाष्यकारो मन्दाननुजिघृक्षतीत्यर्थः । ‘योगारूढस्य’ इत्यपरोक्ष-ज्ञानिनो मुक्तिगतसुखवैचित्र्यकारणं शम इत्युक्तम् । योगारूढ एव केन लक्षणेन प्रतिपत्तव्य इत्याकाङ्क्षायां शब्दादिविषयाननुषङ्गेण लक्षणेन स ज्ञातव्यः । एवंविधेन च महाफलहेतुत्वाद् योगोऽवश्यमनुष्ठेय इति फलतीति नासङ्गतिरिति भावः ।
ननु योगारूढस्यापरोक्षज्ञानवत्त्वमेव कस्माल्लक्षणं नोक्तमित्यत आह– अपरोक्षज्ञानं त्विति ।। अत्र विवेक्तव्यम्, योग्यता लक्षणम् उत फलोपधानम् । नाद्यः । तस्या मुमुक्षुमात्रसाधारणतयाऽति-व्याप्तेः । न द्वितीयः । प्रतिबद्धफले योगारूढे अव्याप्तेरिति भावेनोक्तम् ‘सति प्रतिबन्धे विलम्बते’ इति । इदं विषयाननुषङ्गाख्यं लक्षणम् । साधके मोक्षस्य । ‘वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता’ इति द्वितीये ‘ज्ञानार्थिन इन्द्रियाणां वशीकरणं नाम तेषां विषयानुषङ्गजननशक्तिकुण्ठनम्’ इत्युक्तेः, तस्यापि विषयाननुषङ्गो विद्यत एवेत्यर्थः । अत्र योगारूढस्यैव प्रयत्नं विना विषयानुषङ्ग इत्यत्र । प्रमाणे ‘स्वतः’ इत्यस्य ‘प्रयत्नं विना’ इत्यर्थ उक्तो भावप्रदीपिकायाम् । ‘दृष्ट्वा’ इत्यस्य कर्म पूरयन् क्त्वाप्रत्ययनिर्वाहाय शेषमाह– परमात्मानमित्यादि ।। अनेन ‘परमात्मानं दृष्ट्वा तु प्रयत्नेन विना विषयानुषङ्गलक्षणदोषलयो योगारूढेनाप्यते । तदितरेण स्वप्रयत्नेन दोषलय आप्यते’ इति प्रमाणार्थ उक्तो भवति । लक्षणातिव्यापकत्वशङ्कायाः कः परिहार इत्यत आह– मुख्य एवेति ।। अप्रयत्नसाध्याननुषङ्ग एव, अत्र ‘यदा हि नेन्द्रियार्थेषु’ इति गीतावाक्ये विवक्षतः । साधके तु प्रयत्नसाध्य एवासाविति न तत्रातिव्याप्तिरिति भावः इत्यर्थः ।
अत्र केचित् योगारूढपदेन लक्ष्यत्वेनापरोक्षज्ञानी विवक्षित उत समाधिपरिपाकवान् । नाद्यः । लक्ष्यतावच्छेदकलक्षणयोरुत्सर्गतो भिन्नयोः ऐक्यप्रसङ्गेनापरोक्षज्ञानस्य लक्षणत्वशङ्काया एवायोगेन ‘अपरोक्षज्ञानं तु तल्लक्षणम्’ इति तन्निरासायोगात् । न द्वितीयः । ‘स्वतो दोषलयो दृष्ट्वा’ इति प्रमाणोपन्यासविरोधात्, तत्रायत्नप्रयोज्यदोषलयस्यापरोक्षज्ञानजन्यत्वोक्तेरिति चेन्न । ‘दृष्ट्वा’ इत्यस्य ‘प्रतिबन्धहीनदर्शनसाधनसमाधिपरिपाकं प्राप्य’ इत्यर्थात् । तथा च समाधिपरिपाकवत एव लक्ष्यत्वान्न कोऽपि दोष इत्याहुः ।।
गीताक्षरार्थस्तु - योगारूढलक्षणमुच्यते– यदा हीति ।। यदा हीन्द्रियार्थेषु शब्दादिविषयेषु कर्मसु च प्रयत्नं विनाऽपि नानुषज्जते । ननु कर्माननुषङ्गो नाम यदि कर्मस्वरूपत्यागस्तदा ‘न चाक्रियः’ इत्युक्तविरोधः इत्याशङ्क्य कर्माननुषङ्गो व्याख्यायते सर्वसङ्कल्पसंन्यासीति । नात्र ज्ञानिनः स्वरूपतः कर्माननुषङ्गोऽभिधीयते, किन्तु सर्वकर्मसु सङ्कल्पसंन्यास एव । अतो नोक्तदोषः । ननु च यदि सर्वकर्मसु सङ्कल्पसंन्यासी तथोक्तः तदा कर्मस्वरूपत्याग एव प्राप्नोति, स्वरूपत्यागे सङ्कल्पत्यागायोगादिति चेन्न । सङ्कल्पसंन्यासपदेन सङ्कल्पद्रव्यक्रियादिकं सर्वं भगवदधीनमिति सर्वस्य भगवदधीनताज्ञानस्यैवाभिप्रेतत्वात् । ‘मयि सर्वाणि कर्माणि संन्यस्य’ इत्यत्र संन्यासपदस्य भगवदधीनताज्ञानार्थताया उक्तत्वात् तदा योगारूढ उच्यते । सङ्कल्पादेः भगवदधीनताज्ञानेन कर्मस्वनासक्त्या अप्रयत्नेन शब्दादिविषयेष्वनासक्तत्वं योगारूढस्य लक्षणमिह विवक्षितमिति ।।४।।
भावदीपिका
‘यदा हि’ इति श्लोके ‘योगारूढस्तदोच्यत’ इति लक्षणोक्तेः स्पष्टत्वादाह– स्फुटमपीति ।। भाष्ये ‘योगारूढस्य’ इत्यस्य ‘सम्पूर्णोपायवतः’ इत्यर्थः । नन्वपरोक्षज्ञानरूपकार्यवत्त्वमेव तस्य लक्षणं किं न स्यात्, किं लक्षणान्तरवचनेनेत्यतः सम्पूर्ण-समाधियोगानुष्ठानवति प्रारब्धप्रतिबन्धवशाद् अनुत्पन्नापरोक्षज्ञानिन्यव्याप्तत्वात्, नेदं लक्षणमित्या-शयेनाह– अपरोक्षज्ञानं त्विति ।। योगारोहस्य ध्यानस्य । अत एवोक्तम् ‘ऐहिकमप्रस्तुतप्रतिबन्धे’ इति । इदमिति ।। इन्द्रियविषयेष्वनुषङ्गाभवादिरूपं सम्पूर्णोपायवदपरपर्याययोगारूढलक्षणमित्यर्थः । साधकेऽपीति ।। उपायं साधयितरीत्यर्थः । ‘परमात्मानं दृष्ट्वा दोषलयो भवति’ इत्यध्याहारे दर्शनभवनयोः पुरुषदोषकर्तृकत्वेन समानकर्तृकत्वाभावात् ‘दृष्टा’ इति क्त्वाप्रत्ययायोग इत्यत उक्तम्– आप्यत इति शेष इति ।। ‘दोषलयः’ इति शेषः । तथा च ‘परमात्मानं दृष्ट्वा स्थितेन पुंसा दोषलय आप्यते’ इत्युक्तदर्शन-आप्त्योरुभयोरपि पुरुषकर्तृकत्वेन युक्तं समानकर्तृकत्वमिति द्रष्टव्यम् । ‘परमात्मानं दृष्ट्वा’ इत्यस्य सम्पूर्णोपायवता योगारूढेन पुंसेत्यर्थः । अनतिविप्रकर्षात् तथोक्तिरित्यनुसन्धेयम् ।
ननु प्रयत्नं विना स्वभावसिद्धकामादिदोषलयस्य योगारूढलक्षणत्वेऽपि तदत्र ‘यदा हि’ इति श्लोके विवक्षितमिति कुतः ? येनातिव्याप्तिपरिहार इत्यत आह– मुख्य एवेति ।। प्रयत्नसाध्य-तदसाध्यविषयाननुषङ्गयोर्मध्ये प्रयत्नासाध्याननुषङ्गस्यैव मुख्यत्वात्, मुख्यस्यैव ग्राह्यत्वादित्येतावान् वाक्यशेषः ।। ४ ।।
भावप्रकाशः
समानकर्तृकतासिद्ध्यर्थमाह– आप्यत इति शेष इति ।। नन्वत्र किमपरोक्षज्ञानी लक्ष्य उत समाधिपरिपाकवान् । नाद्यः । लक्ष्यतावच्छेदकलक्षणयोरैक्यप्रसङ्गेना-परोक्षज्ञानस्य लक्षणत्वशङ्काया एवाभावे तन्निराकरणायोगात् । न द्वितीयः । स्वतो दोषलयो दृष्ट्वेति प्रमाणोपन्यासविरोधात् । तत्रायत्नसाध्यदोषलयस्यापरोक्षज्ञानजन्यत्वोक्तेरिति चेन्न । दृष्ट्वेत्यस्य दर्शनसाधनसमाधिपरिपाकं प्राप्येति वा धातूनामनेकार्थत्वेन सम्यक् समाधायेति वाऽर्थोपपत्तेरिति । अत्रेति ।। ‘यदा हि नेन्द्रियार्थेषु’ इति गीतावाक्य इत्यर्थः ।। ४ ।।