द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् । जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ।। ३६ ।।

द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् ।

जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ।। ३६ ।।

भावरत्नकोशः

द्यूतमिति ।। छलयतां छद्म कुर्वताम् । अक्षदेवनादिलक्षणं द्यूतम् । तेजस्विनां तेजोऽहम् । जयः जेतॄणाम् । व्यवसायोऽस्मि व्यवसायिनाम् । सत्त्ववतां सत्त्वं सत्त्वलक्षणसारभूतधर्मोऽस्मीत्यर्थः ।। ३६ ।।