युञ्जन्नेवं (एवं युञ्जन्)सदाऽऽत्मानं योगी नियतमानसः । शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ।। १५ ।।
युञ्जन्नेवं (एवं युञ्जन्)सदाऽऽत्मानं योगी नियतमानसः ।
शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ।। १५ ।।
भाष्यम्
निर्वाणपरमां शरीरत्यागोत्तरकालीनाम् ।। १५ ।।
भावप्रदीपिका
निर्वाणपरमाम् इत्यत्र मोक्षोत्तमामित्यन्यथाप्रतीतिं वारयति– आत्मनेति ।। १५ ।।
भावप्रकाशिका
निर्वाणं बाणाभावः शरीरत्यागः, तत्परमात् तदुत्तरकालीना-दुत्तरकालतया वा । शान्तिर्मुक्तिः, साऽपि भगवत्संस्था । भगवदाश्रयतामाप्नोतीत्यर्थः ।।१५।।
प्रमेयदीपिका
ननु ‘शान्तिः निर्वाणम्’ इति मोक्षपर्यायौ । तत्कथं शान्ते-र्निर्वाणपरमत्वम्? इत्यत आह– निर्वाणेति ।। उपशान्तेर्योगकारणत्वाद्योगफलत्वमनुपपन्नम्
।। १५ ।।
भावदीपः
नन्वत्र शान्तिपदस्य विषयेषु मनसोप्रवृत्तिरूपशान्तिरर्थः कुतो नेत्यत आह – उपशान्तेरिति ।। १५ ।।
भावरत्नकोशः
‘शान्तिर्मोक्षोऽथ निर्वाणम्’ इत्युक्तेराह मोक्षपर्यायाविति । भाष्ये प्राचीनटीकारीत्या निर्वाणशब्दस्य देहाभावः = शरीरत्यागोऽर्थः । ‘कायो बाणं शरीरं च’ इति द्वितीय अभिधानाद्, निरो निषेधार्थत्वाद् बवयोरभेदाश्रयणाद् । तस्मात् परमा उत्तरकालीना ताम्, शान्तिं गच्छतीति विशेषणमहिम्ना परमुक्तिरत्र शान्तिपदेन ग्राह्या, न पुनर्मुक्तिशब्दगौणार्थो जीवन्मुक्तिमात्रमिति भावेनाह न जीवन्मुक्तिमात्रमितीति । अर्थः तात्पर्यार्थः । ‘निर्वाणपरमां मोक्षकाष्ठां शान्तिम् उपरतिम्’ इति सङ्कररीत्याऽत्र शान्तिशब्द उपशान्त्यर्थकः कस्मान्न स्यादित्यत आह– उपशान्तेरिति ।। उपरतिशब्दितायाः स्वतोऽपि प्रायो विषयागतेरित्यर्थः । ‘प्रशान्तस्य परमात्मा समाहितः’ इत्यत्र तयोः कार्यकारणभावाभिधानादाह– योगकारणत्वादिति ।।
उक्तप्रकारेणानुष्ठितस्य फलमुच्यते युञ्जन्नेवमिति । ‘एवम्’ इत्यस्य किञ्चिद्विवरणम् नियत-मानस इति । नियतमानसत्वादिप्रकारेण सदा आत्मानं मनो भगवति युञ्जन् युञ्जानः, आत्मानं भगवन्तं युञ्जन् ध्यायन्निति वा, योगी निर्वाणपरमां शरीरत्यागोत्तरकालीनां मत्संस्थां मयि स्थितिरूपां शान्तिम् अधिगच्छति प्राप्नोति ।। १५ ।।
भावदीपिका
भाष्ये निर्वाणशब्दतात्पर्यम्– शरीरत्यागेति ।। ‘परे उत्तरकालेे मीयते’ इति निर्वचनमभिप्रेत्य परमशब्दतात्पर्यम् ‘उत्तरकालीनम्’ इतीति द्रष्टव्यम् ।। न जीव-न्मुक्तीति ।। ‘शान्तिमधिगच्छति’ इत्युक्ते जीवन्मुक्तेरपि मोक्षपर्यायशान्तिशब्देन प्राप्त्या, ‘तामधिगच्छति’ इत्युक्तं स्यात्, तदर्थमिदं विशेषणमिति भावः । जीवन्मुक्तौ तु शरीरस्य सत्त्वेन तस्याः निर्वाणपरमत्वाभावादिति द्रष्टव्यम् । ननु शान्तिशब्देनेन्द्रियोपशान्तिर्गृह्यते, न मोक्षः, येन जीवन्मुक्तिनिरासाय ‘निर्वाणपरमाम्’ इति विशेषेणं युक्तं स्यादित्यत आह– उपशान्तेरिति ।। विषयेभ्य इन्द्रियाणामुपशान्तेरित्यर्थः । अतो न शान्तिशब्देन तद्ग्रहणं युक्तमिति भावः ।। १५ ।।
भावप्रकाशः
।। मोक्षपर्यायाविति ।। शान्तिर्मोक्षोऽथ निर्वाणमित्युक्तेरिति भावः । ननु निर्वाणपरमामिति विशेषणं व्यर्थमित्याशङ्क्य आह– न जीवन्मुक्तीति ।। न जीवन्मुक्तिमात्रं प्राप्नोतीति ज्ञापयितुमेतद्विशेषणमित्यर्थः । एतच्च विशेषणोपादानसामर्थ्यादेव लभ्यत इति ज्ञातव्यम् । ननु शान्तिपदेनोपशान्तिरेवोच्यतामित्यत आह– उपशान्तेरिति ।। स्वत एव प्रायो मनसो विषयागतेरित्यर्थः । योगकारणत्वादिति ।। प्रशान्तस्य परमात्मा समाहित इति तयोः कार्यकारणभावोक्तरिति भावः ।। १५ ।।