अध्येष्यते च य इमं धर्म्यं संवादमावयोः । ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ।। ७० ।।

अध्येष्यते च य इमं धर्म्यं संवादमावयोः ।

ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ।। ७० ।।

भावरत्नकोशः

गीताक्षरार्थस्तु- पठतः फलमुच्यते– अध्येष्यत इति ।। य आवयोरिमं धर्म्यं धारकत्वाद्धर्मो भगवान्, तद्विषयो धर्म्यः तम् धर्मादनपेतं वा संवादं प्रश्नोत्तररूपं ग्रन्थम् अध्येष्यते पठिष्यति, तेन पुरुषेण तेन सर्वयज्ञेषु श्रेष्ठतया प्रसिद्धेन ज्ञानयज्ञेन अहमिष्टः पूजितः स्याम् इति मे मतिः निश्चयः ।। ७० ।।