किरीटिनं गदिनं चक्रहस्तम् इच्छामि त्वां द्रष्टुमहं तथैव । तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते ।। ४६ ।।

किरीटिनं गदिनं चक्रहस्तम् इच्छामि त्वां द्रष्टुमहं तथैव ।

तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते  ।। ४६ ।।

भावरत्नकोशः

किं तद्रूपम् ? उच्यते– किरीटिनमिति ।। गदिनं शिखादित्वाद्् इनिः, गदावन्तम् । यस्मादेवं तस्मात् तेनैव रूपेण भव । ‘अनन्तरूपगोपनेन तदेव प्रकाशय’ इति तात्पर्यम् । सहस्रबाहो अनन्तबाहो विश्वमूर्ते पूर्णविग्रहेति ।। ४६ ।।