आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद । विज्ञातुमिच्छामि भवन्तमाद्यं नहि प्रजानामि तव प्रवृत्तिम् ।। ३१ ।।
आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद ।
विज्ञातुमिच्छामि भवन्तमाद्यं नहि प्रजानामि तव प्रवृत्तिम्
।। ३१ ।।
भाष्यम्
धर्मान्तरज्ञानार्थमेव को भवानिति पृच्छति– आख्याहीति ।। यथा कश्चित् कञ्चित् नामादिकम् । जानन्नपि जातिज्ञानार्थं पृच्छति ‘कस्त्वम्’ इति । यदि तमेव न जानाति तर्हि ‘विष्णो’ इत्येवं सम्बोधनं न स्यात् । ‘त्वमक्षरम्’ इत्यादि च ।। ३१ ।।
भावप्रदीपिका
अतिभयङ्करत्वान्नायं विष्णुरित्यभिप्रेत्य पृच्छतीत्यन्यथा-प्रतीतिनिरासाय प्रश्नार्थमाह– धर्मान्तरेति । धर्मज्ञानार्थं कीदृश इति विहाय क इति प्रश्नः कुत्र दृष्ट इत्यत आह– यथेति । स्वरूपमेव पृच्छत इति किं न स्यात् ? इत्यत आह– यदीति ।। ३१ ।।
प्रमेयदीपिका
स्वरूपमेवाज्ञात्वा तद्धर्मान् वाऽयं पृच्छतीत्यन्यथा-प्रतीतिनिरासार्थम् आह– धर्मान्तरेति ।। तर्हि ‘किंधर्मान्तरो भवान्’ इति प्रश्नेन भाव्यम् । ‘को भवान्’ इति तु न युज्यत इत्यत आह– यथेति ।। अन्येषां व्यवहारात् नाम प्रत्यक्षेण रूपादिकं जानन्नपि जातिज्ञानार्थं यथा कश्चित् कञ्चित् कस्त्वमित्येव पृच्छति । तथाऽर्जुनो भगवन्तं तद्धर्मांश्च जानन्नपि धर्मान्तरज्ञानार्थं को भवानित्येव पृच्छतीत्यर्थः । प्रश्नव्याख्यानस्य वर्तमानत्वाद्वर्तमाननिर्देशः । उग्रं रूपं दृष्ट्वा रुद्रो वा यमो वाऽयमिति स्वरूप एव सन्दिहानस्य प्रश्नः किं न स्यादित्यत आह– यदीति ।। तत्स्वरूपमेवेत्यर्थः । ‘भासस्तवोग्राः प्रतपन्ति विष्णो’ इति । तर्हि धर्मविषयोऽयं प्रश्नोऽस्तु । ततश्चान्तरशब्दो न युक्त इत्यत आह– त्वमिति ।। यदि भगवद्धर्मान्न जानीयात् तर्हि ‘त्वमक्षरं परमम्’ इत्यादि वर्णनं न स्यात् । अतो भगवन्तं तद्धर्मांश्चाक्षरत्वादीन् ज्ञात्वा तदन्यधर्मज्ञानार्थमेव प्रश्न इत्येवमुक्तमित्यर्थः
।। ३१ ।।
भावबोधः
।। कैश्चिदेवेति ।। दृष्टमित्यर्थः । त्रिलोकेष्विति ।। उदाहृत-तात्पर्यानुरोधात्तृतीयाप्रयोगः । नन्वर्जुनप्रश्नस्य भाष्यसमानकालीनत्वाभावात् पृच्छतीति कथं वर्तमाननिर्देश इत्यत आह– प्रश्नव्याख्यानस्येति ।। ३१ ।।
भावदीपः
नाम्ना ज्ञानोपायमाह– अन्येषां व्यवहारान्नामेति ।। ‘जानन्’ इत्यन्वयः ।। ‘अप्राक्षीत्’ इति भूतनिर्देशे कार्ये कथं ‘पृच्छति’ इति भाष्योक्तिः इत्यत आह– प्रश्नव्याख्यानस्येति ।। ३१ ।।
वाक्यार्थप्रदीपः
ननु प्रारब्धापरिसमाप्तक्रियोपलक्षिते काले वाच्य एव वर्तमाने लडिति लट्विधेः प्रश्नस्य चातीतत्वात् अपृच्छदिति वक्तव्यम् । पृच्छतीति कथमित्यत आह– प्रश्नव्याख्यानस्येति ।।
भावरत्नकोशः
।। स्वरूपमेवेति ।। ‘स्वरूपाज्ञानेन स्वरूपमेव पृच्छति’, ‘धर्मसामान्याज्ञानेन धर्मान् वा पृच्छति’ इत्यन्यथाप्रतीतीत्यर्थः । ‘कथञ्चित्’ इत्यस्यार्थः ‘अन्येषां व्यवहारात्’ इति ‘प्रत्यक्षेण’ इति च ।। ‘नामादिकम्’ इत्यत्रादिपदार्थोक्तिः– रूपादिकमिति ।। धर्मान्तरज्ञानार्थं स्वाज्ञातधर्मविशेषज्ञानार्थम् । भावप्रदीपिकायां तु ‘यत एवमुग्रस्वभावः अतः’ इति शङ्करभाष्यं हृदि निधायातिभयङ्करत्वाद् ‘नायं विष्णुः’ इत्यभिप्रेत्य पृच्छतीत्यन्यथाप्रतीतिनिरासाय प्रश्नार्थमाह– धर्मान्तरेति ।। धर्मज्ञानार्थं ‘कीदृशः’ इति विहाय ‘कः’ इति प्रश्नः क्व दृष्टः इत्यत आह– यथेति इति भाष्यवाक्यद्वयमवतारितम् । ‘पप्रच्छ’ इति भाषणीये ‘पृच्छति’ इति कथं भाषणम् ? इत्यत आह– प्रश्नव्याख्यानस्येति ।। व्याख्यान-गतं वर्तमानत्वं व्याख्येये उपचर्यत इति भावः । ‘तमेव’ इति भाष्यपदं कृतचोद्यपरिहाराय व्याचष्टे– तत्स्वरूपमेवेति ।। ‘विष्णो इति सम्बोधनम्’ इति भाष्ये सम्बोधनस्थलप्रदर्शना-योक्तम्– भास इति ।। तर्हि यदि स्वरूपप्रश्नो न युक्तः, तर्हि धर्मविषयः धर्मसामान्यविषयः, अन्तरशब्दः ‘धर्मान्तरज्ञानार्थम्’ इति भाष्यगतोऽन्तरशब्द इत्यर्थः ।।
गीताक्षरार्थस्तु ज्ञातभगवत्स्वरूपेण परिज्ञाततदीयगुणकर्मणा चार्जुनेन स्वाज्ञातगुणकर्म-विषयप्रश्नः क्रियते– आख्याहि मे क इति ।। अन्यथाप्रश्नगमनिका भाष्यटीकादौ पराकृता । एवम् उग्ररूपो भवान् कः किंधर्मकः । आद्यम् आदौ भवं भवन्तं विज्ञातुं विशेषाकारेण ज्ञातुम् इच्छामि । यतः तव प्रवृत्तिं व्यापारं न प्रजानामि सामान्यतो जानन्नपि प्रकर्षेण न जानामीति
।। ३१ ।।
भावदीपिका
।। स्वरूपमेवेत्यादिना ।। भगवत्स्वरूपमज्ञात्वा तत्स्वरूपमेव पृच्छति, स्वरूपज्ञानेऽपि तद्धर्माज्ञानात् तद्धर्मान् वा पृच्छतीत्यर्थः । नाम ज्ञानोपायकथनम् । अन्येषां व्यवहारादिति ।। आदिपदार्थमाह– रूपादिकमिति ।। रूपम् शरीरम् । ननु भाष्ये ‘पृच्छति’ इत्यनुपपन्नम् ? अर्जुनप्रश्नस्य भाष्यसमानकालीनत्वाभावात्, ‘अपृच्छत्’ इति वक्तव्यत्वात्, इत्यत आह– प्रश्नेति ।। ‘विष्णो’ इति सम्बोधनं कुत्रास्ति ? इत्यतस्तद्दर्शयति– भास इति ।। प्रश्नोऽस्त्विति ।। सर्वथा धर्मानज्ञात्वैव धर्मविषयः प्रश्नोऽस्त्वित्यर्थः । वर्णनम् अक्षरत्वादिधर्मसंयुक्ततया प्रतिपादनम् । इत्येवमुक्तमिति ।। तथा च ‘धर्मान्तरं पृच्छति’ इत्यत्रान्तरशब्दो युक्त इत्याशयः ।। ३१ ।।
भावप्रकाशः
।। किंधर्मान्तर इति ।। कानि धर्मान्तराणि यस्येति बहुव्रीहिः । नामज्ञाने कारणमाह– व्यवहारादिति ।। रूपादिज्ञाने तदाह– प्रत्यक्षेणेति ।। ननु पृच्छतीति भाष्यकृत्प्रयोगकालेऽर्जुनप्रश्नस्याभावात् कथं वर्तमाननिर्देश इत्यत आह– प्रश्नेति ।। तथा च व्याख्यानगतं वर्तमानत्वं व्याख्येये उपचर्यवर्तमाननिर्देश इत्यर्थः ।। ३१ ।।