शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते । एकया यात्यनावृत्तिमन्ययाऽऽवर्तते पुनः ।। २६ ।।

शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते ।

एकया यात्यनावृत्तिमन्ययाऽऽवर्तते पुनः ।। २६ ।।

भावरत्नकोशः

निरयमार्गं प्राप्तस्यापि कालभेदेन स्वर्गमार्गगमनमिव धूमादिमार्गं गतस्यापि कदाचिदर्चिरादिमार्गगमनमपि व्यत्यस्यास्ति किम् ? इति शङ्कां परिहर्तुं मुक्तौ मार्गौ निगमनेन व्यवस्थाप्येते शुक्लकृष्ण इति । शुक्ला च कृष्णा च त एव ह्रस्वत्वेन शुक्लकृष्णे, ज्ञानलक्षणप्रकाशसाध्यत्वाद् अर्चिरादिः शुक्ला गतिः, तदभावात् कर्मसाध्यत्वाच्च धूमादिगतिः कृष्णा । जगतः ज्ञानकर्मिलोकस्य शाश्वते शाश्वत्यौ सदैकप्रकारे, न तु कदाऽपि व्यत्यस्ते । तत्र एकया शुक्लगत्या अर्चिरादिमार्गेण, अन्यया कृष्णगत्या धूमादिमार्गेण ।। २६ ।।