ओ३म् इत्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन् । यः प्रयाति त्यजन् देहं स याति परमां गतिम् ।। १३ ।।

ओ३म् इत्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन् ।

यः प्रयाति त्यजन् देहं स याति परमां गतिम्  ।। १३ ।।

भाष्यम्

ब्रह्मनाडीं विना यद्यन्यत्र गच्छति तर्हि विना मोक्षं स्थानान्तरं प्राप्नोतीति सर्वद्वाराणि संयम्य । ‘निर्गच्छन् चक्षुषा सूर्यं दिशः श्रोत्रेण चैव हि’ इत्यादि वचनात् व्यासयोगे, मोक्षधर्मे च ।।

भावप्रदीपिका

ननु सर्वद्वारसंयमनं किमर्थमुच्यते इत्याशङ्कां सप्रमाणकं परिहरति– ब्रह्मेति ।

प्रमेयदीपिका

ननु ‘मनो निरुध्य’ इत्यनेनैव सर्वेन्द्रियसंयमनं लब्धम् । तत् किं पुनरुच्यते? मैवम् । वायुसञ्चरणद्वाराणां नाडीनामत्र ग्रहणात् । तन्नियमनं किमर्थम् ? इत्यत आह– ब्रह्मेति ।। इति हेतौ । ‘इत्युक्तम्’ इति शेषः । अत्र प्रमाणमाह– निर्गच्छ-न्निति ।। सूर्यं गच्छति । मोक्षधर्मे च ‘अयमेवार्थ उक्तः’ इति शेषः ।।

भावदीपः

‘संयम्य’ इत्यनन्तरमुत्तरं शेषमाह– इत्युक्तमिति ।। ‘सूर्यम्’ इत्यनूद्य ‘गच्छति’ इति शेषोक्तिः ।।

भावरत्नकोशः

।। पुनरुच्यते ‘सर्वद्वाराणि संयम्य’ इत्यनेन । नाडीनामिति । अन्यथा ‘सर्वेन्द्रियाणि संयम्य’ इत्येवावक्ष्यदिति भावः । तन्नियमनं वायुसञ्चरणद्वाराणां नाडीनां नियमनम् । इतिशब्दः ‘प्राप्नोति’ इत्यतःपरं श्रूयमाणः । ‘इति शेषः’ इत्यत्र ‘संयम्येत्यनन्तरम्’ इति शेषः । ‘चक्षुषा निर्गच्छन् सूर्यम्’ इत्यत्र शेषमाह– गच्छतीति । अयमर्थः चक्षुरादिना निर्गच्छन् सूर्यादिं गच्छति, न तु मोक्षमित्ययमर्थः । व्यासयोगवचनस्यैव मोक्षधर्मेऽपि पाठात् पृथगनुदाहरणमिति भावप्रदीपिकायाम् ।। १२ ।।

भावदीपिका

।। लब्धमिति ।। सर्वेन्द्रियनियमनस्य मनोनियमनाधीनत्वा-दित्यर्थः । पुनरुच्यत इति ।। ‘सर्वद्वाराणि संयम्य’ इति पुनः किमुच्यत इत्यर्थः । तन्नियमनं नाडीनियमनम् । हेताविति ।। इति हेतोः ‘सर्वद्वाराणि संयम्य’ इत्युक्तमित्यर्थः ।

 

 

Load More