प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः । भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ।। ८ ।।
प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः ।
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ।। ८ ।।
भाष्यम्
प्रकृत्यवष्टम्भस्तु यथा कश्चित् समर्थोऽपि पादेन गन्तुं लीलया दण्डमवष्टभ्य गच्छति । ‘सर्वभूतगुणैर्युक्तं नैवं त्वं ज्ञातुमर्हसि’ इति मोक्षधर्मे ।
‘सर्वभूतगुणैर्युक्तं दैवं मां ज्ञातुमर्हसि’ इति च ।
‘विदित्वा सप्त सूक्ष्माणि षडङ्गं च महेश्वरम् ।
प्रधानविनियोगस्थः परं ब्रह्माधिगच्छति’ इति च ।।
‘न कुत्रचिच्छक्तिरनन्तरूपा विहन्यते तस्य महेश्वरस्य ।
तथाऽपि मायामधिरुह्य देवः प्रवर्तते सृष्टिविलापनेषु’
इति ऋग्वेदखिलेषु ।
‘मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे’ इति भागवते ।
‘अथ कस्मादुच्यते परं ब्रह्मेति । बृंहति बृंहयति’ इति च आथर्वणे ।
‘पराऽस्य शक्तिर्विविधैव श्रूयते’ इति च ।
भावप्रदीपिका
ज्ञानं नाम ज्ञेयम् । प्रकृत्यवष्टम्भेन हरिः सृजति चेदस्वतन्त्र इत्यत आह– प्रकृतीति ।। तथा इति शेषः । अस्वातन्त्र्यादेव प्रकृत्यवष्टम्भः किं न स्यात् ? इत्यत आह– सर्वेति ।। सर्वभूतगुणास्तदधीनाः यतोऽतस्तं सर्वभूतविलक्षणं जानीहीत्यर्थः । पञ्चभूततन्मात्राजीवेश्वराख्यानि सप्त सूक्ष्माणि । एवं शुष्वेत्यादौ सकलगुणपूर्णत्वाद् भगवतो नास्वातन्त्र्यमित्यर्थः ।।
प्रमेयदीपिका
तद्विकलस्य भगवतो न सामर्थ्यमिति प्रतीतिनिरासार्थ-माह– प्रकृतीति ।। ‘तथा लीलयैव, न तु केवलस्य सामर्थ्याभावात्’ इति शेषः । कुत एतत्? भगवतः सर्वसामर्थ्यसम्पूर्णत्वस्य प्रमितत्वाद् इत्याह– सर्वेति ।। सर्ववस्तुसामर्थ्यैः । एवं भूतवत् पारतन्त्र्याद्युपेतम् । किन्तु दैवं देवोत्तमम् । पञ्च महाभूतानि महदहङ्कारौ च सप्त सूक्ष्माणि । ‘सर्वज्ञता तृप्तिः’ इत्युक्तप्रकारेण षडङ्गम् । प्रधानस्य मूलप्रकृतेः विनियोगः कार्येषु यो व्यापारः । तत्स्थः तज्ज्ञानी । मायामधिरुह्य प्रकृतिमवष्टभ्य ।।
भावदीपः
‘एवम्’ इत्यनुवादः,‘भूतवत्’ इत्यादि व्याख्या ।। सर्वज्ञता तृप्तिरित्युक्तप्रकारेणेति ।। फलितार्थमाह– तज्ज्ञानीति ।। प्रधानविनियोगज्ञानीत्यर्थः ।।
भावरत्नकोशः
‘प्रकृत्यवष्टम्भस्तु’ इति भाष्यान्वयाय शेषमपेक्षितमनुवर्त-यन्नाह– तथा लीलयैवेति ।। कृतचोद्यं परिहर्तुं न्यायप्राप्तैवकारव्यावर्त्यमाह– न त्विति ।। एतत् ‘लीलयैव प्रकृत्यवष्टम्भः, न तु सामर्थ्याभावेन’ इत्येतत् । सर्वसामर्थ्यसम्पूर्णत्वे नेदं प्रमाणम् ? इत्यतो भूतशब्दो वस्तुमात्रोपलक्षणमिति व्याचष्टे– सर्ववस्तुसामर्थ्यैरिति ।। ‘नैवम्’ इति प्रमाणे ‘एवम्’ इत्यस्यार्थः– भूतवदिति ।। तत्तात्पर्यम्– पारतन्त्र्याद्युपेत-मिति ।। ‘सर्वभूतगुणैर्युक्तं दैवं मां ज्ञातुमर्हसि’ इत्यर्धगतपञ्चादिशब्दान् व्याख्यास्यन् ‘भूतवत् पारतन्त्र्याद्युपेततया ज्ञातुं नार्हसि’ इत्युक्तौ, पुनः कथं ज्ञातव्यः इति पृच्छति– किन्त्विति ।। उत्तरमाह– दैवमिति ।। देवशब्दात् ‘तत्रोत्तमः’ इत्यर्थे ‘शेषे’ इति प्राप्ताण्प्रत्ययापवादेन ‘देवाद् यञञौ’ इत्यञ्प्रत्यये ‘दैवम्’ इति रूपम् । ‘अहं हि पुरुषो ज्ञेयो निष्क्रियः पञ्चविंशकः’ इति पूर्वत्र पुरुषशब्देन भगवतः प्रस्तुतत्वात् ‘सर्वभूतगुुणैः सर्ववस्तुसामथ्यर्ःै युक्तं देवोत्तमं मां ज्ञातुमर्हसि’ इति श्लोकार्थात् तेन सर्वसामर्थ्यसम्पूर्णत्वमावेद्यत इति भावः । ‘इति च’ इति भाष्ये ‘मोक्षधर्मे’ इत्यस्यानुकर्षणार्थश्चकारः । इत्युक्तेति ।।
‘सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः ।
अनन्तशक्तिश्च विभोर्विधिज्ञाः षडाहुरङ्गानि महेश्वरस्य ।।’
इति वचनोक्तप्रकारेण षडङ्गं महेश्वरं च विदित्वेत्यर्थः । तत्स्थः तत्रावस्थितिमान् इत्यस्य तात्पर्यम्– तज्ज्ञानीति ।। प्रमाणे ‘अलुप्तशक्तिः’ इति ‘अनन्तशक्तिः’ इति चोक्तशक्तेः षडङ्गेष्वङ्गत्वेन प्रविष्टतया सर्वसामर्थ्यसम्पूर्तिर्लभ्येति भावः । ‘मायामधिरुह्य प्रवर्तते’ इत्युक्ते मायिकं भगवतः कर्तृत्वमिति प्रतीतिः स्यात् । तां निरस्यन् व्याचष्टे– मायामधिरुह्य प्रकृति-मवष्टभ्येति ।। ‘सृष्टिविलापनेषु’ इत्यत्र प्रतिकल्पं सृष्टिविनाशभावाद् बहुवचनम् । आद्यर्थे वा तदिति भाष्यशेषार्थः । अत्रानन्तशक्तित्वं स्फुटं प्रतीयते । ‘मय्यनन्तगुणे’ इत्यस्य अनन्ताः असङ्ख्याताः गुणाः यस्यासौ अनन्तगुणः, तस्मिन् । ‘गुणतोऽनन्ते’ इति गुणानां प्रत्येकं अनवधिकत्वम् अनन्तावान्तरविशेषवत्त्वं चाभिप्रेयते’ इति सुधातोऽर्थोवगन्तव्यः । अनन्ताः विग्रहाः देहाः यस्यासौ अनन्तविग्रहः, तस्मिन्, इत्यनन्तगुणत्वादेव सकलसामर्थ्य-सम्पूर्णत्वलाभः ।।
भावदीपिका
।। केवलस्य प्रकृत्यवष्टम्भरहितस्य । सर्वज्ञता तृप्ति-रित्युक्तप्रकारेणेति ।। ‘सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमनल्पशक्तिः । अनन्त-शक्तिश्च विभोर्विधिज्ञाः सन्तः षडङ्गानि वदन्ति विष्णोः ।।’ इति प्रमाणोक्तप्रकारेणेत्यर्थः ।
भावप्रकाशः
नन्विदं वाक्यं सर्वभूतगुणयुक्तत्वप्रतिपादकत्वात् कथं सर्व-सामर्थ्यासम्पूर्णत्वे मानमित्यत आह– सर्ववस्तुसामर्थ्यैरिति । सर्वज्ञता तृप्तिरित्युक्तेति ।। ‘सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः । अनन्तशक्तिश्च विभोर्विधिज्ञाः षडाहुरङ्गानि महेश्वरस्य’ इत्युक्तेत्यर्थः ।