रसोऽहमप्सु कौन्तेय प्रभाऽस्मि शशिसूर्ययोः । प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ।। ८ ।।

रसोऽहमप्सु कौन्तेय प्रभाऽस्मि शशिसूर्ययोः ।

प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ।। ८ ।।

भाष्यम्

इदं ज्ञानम् । रसोऽहम् इत्यादि विज्ञानम् । अबादयोऽपि तत एव ।।

भावप्रदीपिका

ज्ञानप्रतिपादकप्रघट्टकं समाप्तमित्याह– इदमिति ।। ७ ।।

उत्तरप्रघट्टकप्रतिपाद्यमाह– रसोऽहमिति । नन्वनादिसत्ताप्रतीतिभोक्तृत्वं भगवतोऽस्त्येव । अतः किमर्थं रसादीनां भगवत्कृतत्वादिविशेषेणोच्यते ? इत्यत आह– अबादयोऽपीति । यद्यप्यबादयोऽपि भगवत्सृष्टास्तद्भोग्याश्च । तथाऽपि रसादीनां विशिष्याभिधानं युक्तम् । यदबादिकर्तृत्वादिकं तन्नान्तरीयकतया रसादीनामबादिस्वभावानाम्, अबादिगुणेषु सारभूतानां नियामको भगवानिति शङ्कानिवर्त्यव्यातिविशेषतोऽपि तेषां रसादित्वे, अबादिगुणमध्ये सारत्वे, अबादिस्वभावत्वे नियामक इति ज्ञापनार्थत्वादित्यर्थः ।।

भावप्रकाशिका

‘ज्ञानं तेऽहं प्रवक्ष्यामि’ इति प्रतिज्ञायैवं पारापर्यस्योक्तत्वा-देतद्विषयमेव ज्ञानम्, एतद्विरोधि सर्वं मिथ्याज्ञानमिति भावेनाह– इदमिति ।। नन्वेवमन-न्तैश्वर्यविषयमपि ज्ञानं चेत्, विज्ञानं कीदृशमित्याकाङ्क्षोत्तरत्वेनोत्तरं श्लोकसन्दर्भमवतारयति– रस इति । ननु ‘अहं कृत्स्नस्य’ इत्यादिनैवाबादीनां सर्वेषां सत्ताप्रतीत्यादेर्भगवदधीनत्वस्य, तेषां भगवद्भोग्यत्वस्य चोक्तत्वात्, किमिति पुनस्तेषु रसादीनां तदुभयमुच्यते ? इत्यत आह– अबादयोऽपीति । भवतु ‘अहं कृत्स्नस्य’ इत्यादिनैवाबादिसत्ताप्रतीत्यादेर्भगवदधीनत्वम् । न त्वबादीनां रसादिस्वभावत्वम्, अबादिगुणेषु रसादीनां सारत्वम्, रसादित्वं च विशेषतः पृथक् भगवन्नियम्य् । किन्त्वबादीनामबादित्वकारणेनैव तेषां सिद्धिरित्याशङ्कां परिहर्तुं ‘रसोऽहम्’ इत्याद्यारभ्यत इति भावः ।।

प्रमेयदीपिका

‘भूमिः’ इत्यादिना इत्यत्रावधेरनुक्तेः ‘रसोऽहम्’ इत्याद्यपि ज्ञानप्रकरणमिति प्रतीतिः स्यात् । तन्निरासाय तत्समाप्तिमाह– इदमिति ।। एतावता ग्रन्थेन ज्ञानं निरूपितमित्यर्थः ।। कुतोऽत्र ज्ञानप्रकरणस्य समाप्तिः? इत्यत आह– रसोऽहमिति ।। इतिशब्दाद्यभावेऽपि प्रकरणान्तरारम्भ एव समाप्तिं गमयिष्यति । अलौकिकमाहात्म्य-प्रतिपादनादस्य विज्ञानप्रकरणत्वं ज्ञायत इति भावः । प्रभवादेः इत्युक्तन्यायेनैव ‘रसोऽहम्’ इत्यादेरपि व्याख्यानं सिद्धम् । ‘रसादीनां सत्तादिकारणत्वाद्भोक्तृत्वाच्च भगवान् रसादिः’ इति ।।

नन्वबादयोऽपि धर्मिणो भगवदधीनाः तद्भोग्याश्चेत्यङ्गीक्रियते न वा । नेति पक्षे ‘अहं कृत्स्नस्य’ इत्युक्तिविरोधः । आद्ये तु ‘अप्सु रसः’ इत्यादेर्धर्मिभ्यो निष्कृष्य धर्माणां ग्रहण-स्यानुपपत्तिरित्यतः प्रथमं पक्षं तावदङ्गीकरोति– अबादयोऽपीति ।। धर्मिणोऽपि तदधीना एव तद्भोग्याश्चैव ।।

भावदीपः

।। अवधेरनुक्तेरिति प्रतिज्ञातं ज्ञानमाह भूमिरित्यादिना इति भाष्य इत्यर्थः । व्याख्यानं सिद्धमित्येतद्व्यनक्ति– रसादीनामिति ।। चशब्देन भोक्तृत्वादिति ग्राह्यम् ।।

भावरत्नकोशः

।। इत्यादिनेत्यत्रेति । ‘प्रतिज्ञातं ज्ञानमाह– भूमिरित्यादिना’ इति पूर्वभाष्य इत्यर्थः ।। ‘इदम्’ इत्यस्य अव्यवहितपरामर्शित्वभ्रमनिरासाय तात्पर्यम् एतावतेति । ज्ञानम् ज्ञातव्यम्, ‘निरूपितम्’ इति शेषोक्तिः । इतिशब्दाद्यभावेऽपीति । अत्रादिशब्देन ‘एषा तेऽभिहिता साङ्ख्ये’ इत्यादिवत् समाप्तिज्ञापकवाक्यं गृह्यते । प्रकरणान्तरारम्भत्वं स्फोरयति– अलौकिकेति ।। इत्यादेरपि रसादीनां सत्तादिकारणत्वाच्च भगवान् रसादिरिति व्याख्यानं सिद्धमित्यन्वयः । चशब्दो भोक्तृत्वसमुच्चयार्थः । क्वचित् ‘भोक्तृत्वाच्च’ इति पाठः । प्रथमं पक्षं तावदिति । तत्रोक्तदोषश्च परिहरिष्यत इति ‘तावत्’ शब्दः । तत एव भगवत एव इत्यस्य तात्पर्यं तदधीना एव, ‘तद्भोग्याश्चैव’ इति शेषः ।

भावदीपिका

।। अवधेरनुक्तेरिति ।। अपिपदग्राह्यतावच्छेदकधर्मानुक्तेरित्यर्थः ।। कुत इति ।। प्रकारणसमाप्तिद्योतकेतिशब्दादेरभावादिति भावः । अनुपपत्तिरिति ।। धर्मिणस्तदधीनत्वे धर्माणामपि तदधीनत्वस्य प्राप्तेः, प्रयोजनान्तराभावादिति भावः । कारणत्व इति ।। रसादीनां सत्तादिकारणत्वाद् भगवान् रसादिरिति व्याख्यान इत्यर्थः । तावदिति ।। भोगपक्षे ‘अप्सु रसः’ इत्यादिविशेेषशब्दोपादाने प्रयोजनं चोत्तरत्र वक्ष्यत इत्याशयः ।

भावप्रकाशः

किमनेन समाप्तिज्ञापकमुक्तमित्यत आह– इति शब्दाद्यभावेऽपीति ।। ‘एषा तेऽभिहिता साङ्ख्ये’ इतिवत् प्रकरणसमाप्तिज्ञापकं वाक्यमादिशब्देन ग्राह्यम् । ननु ‘रसोह’मित्यादेः विज्ञानप्रकरणत्वे सिद्धे पूर्वस्य ज्ञानप्रकरणत्वं स्यात् । तदेव कुत इत्यत आह– अलौकिकेति ।। प्रथमपक्षं तावदिति ।। तत्रोक्तदोषपरिहारश्च करिष्यत इति सूचयितुं तावदित्युक्तम् । षष्ठीतत्पुरुषे कृते रसादीनां ये स्वभावाः तेषां स्वभावत्वमीश्वराधीनमिति सिद्ध्ध्यति ।

Load More