बहिरन्तश्च भूतानामचरं चरमेव च । सूक्ष्मत्वात् तदविज्ञेयं दूरस्थं चान्तिके च तत् ।। १६ ।।

बहिरन्तश्च भूतानामचरं चरमेव च ।

सूक्ष्मत्वात् तदविज्ञेयं दूरस्थं चान्तिके च तत् ।। १६ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु भूतानां नित्यसिद्धानां ब्रह्मादिजीवानाम् । बहिरन्तश्च ‘तिष्ठति’ इत्यनुषज्यते । अन्यथाभावराहित्याद् अचरम् सर्वदेशसञ्चरणवत् चरं च । सूक्ष्मत्वाद्रूपरसादिहीनवस्तुत्वात्तद् ब्रह्म अविज्ञेयं चक्षुरादीन्द्रियाविषयः । सूक्ष्मत्वात् अव्यक्तत्वाद्विशिष्टतया विलक्षणतया च सर्वैः अज्ञेयमिति वा । किञ्च तद् ब्रह्म सर्वगतत्वाद् दूरस्थितमपि अन्तिके च । ‘तिष्ठति’ इत्यनुवर्तते । ‘स्थितम् इति वक्ष्यमाणाकर्षो वा ।।१६।।