बन्धुरात्माऽऽत्मनस्तस्य येनाऽत्मैवाऽत्मना जितः । अनात्मनस्तु शत्रुत्वे वर्तेताऽत्मैव शत्रुवत् ।। ६ ।।

बन्धुरात्माऽऽत्मनस्तस्य येनाऽत्मैवाऽत्मना जितः ।

अनात्मनस्तु शत्रुत्वे वर्तेताऽत्मैव शत्रुवत् ।। ६ ।।

भाष्यम्

कस्य बन्धुरात्मेति? आह– बन्धुरात्मेति ।। आत्मा मनः । आत्मनः जीवस्य । आत्मना मनसा । आत्मानं जीवम् ।।

भावप्रदीपिका

आत्मैवात्मनो बन्धू रिपुश्चेत्युक्तम् । तदुभयमेकत्र विरुद्धम् । अतः कस्य बन्धुः ? कस्य रिपुः ? इत्याशङ्क्य, उत्तरत्वेनोत्तरश्लोकमवतारयति– कस्येति । ‘बन्धुरात्माऽऽत्मनः’ इत्यात्मशब्दौ व्याचष्टे– आत्मेति । ‘उद्धरेदात्मनाऽऽत्मानं नात्मानम्’ इत्यात्मशब्दत्रयार्थमाह– आत्मनेति । ‘येनात्मैवात्मना जितः’ इत्यस्यात्मशब्दद्वय-स्यार्थमाह– आत्मैवेति ।।

प्रमेयदीपिका

आत्मैव हि इत्युक्तमेवोत्तरश्लोके किमिति कथ्यत इति मन्दाशङ्कानिरासार्थमाह– कस्येति ।। ‘किं विशेषणश्च’ इत्यपि ग्राह्यम् । तस्यैव तमेव प्रति बन्धुत्वं रिपुत्वं च विरुद्धम् । तद् विशेषणभेदेन व्यवस्थाप्यम् । तथाच किंविशेषणस्यात्मनः किंविशेषणो वाऽत्मा बन्धू रिपुश्चेत्यर्थः । ‘इति पृच्छायाम्’ इति शेषः । आत्मा,आत्मनः इति पदद्वयम् ।

आत्मशब्दस्यानेकार्थत्वाद्व्याचष्टे– आत्मेति ।। नन्वाद्यश्लोके स्वपर्याय एवात्मशब्दः प्रकृतः । तदुपपादके द्वितीये कथमन्योऽर्थ इत्यत आह– आत्मनेति ।। अनयैव रीत्याऽद्य-श्लोकोत्तरार्धगतात्मशब्दव्याख्यानं द्रष्टव्यम् ।।

भावबोधः

।। किंविशेषणश्चेति । ‘येनात्मैवात्मना जित’ इति मनसोऽपि विशेषितत्वादिति भावः । इति पृच्छायामिति । अन्यथेत्यत आहेति स्यादिति भावः । अनयैवेति । ‘आत्मा मन आत्मनो जीवस्येत्युक्तरीत्येत्यर्थः ।।

भावदीपः

।। अनयैवेति ।। पूर्वार्धगताऽत्मपदद्वयव्याख्यानरीत्यैव जीवमनः-परत्वेन व्याख्यानं द्रष्टव्यमित्यर्थः ।।

भावरत्नकोशः

ननु ‘येनात्मैवात्मना जितः’ इति विशिष्टस्यैव तत्र बन्धुत्वा-द्युक्तेर्नोक्तमेवोच्यत इत्यत आह– मन्देति ।। बन्धुत्वेनोक्तस्यात्मनो रिपुत्वं घटयितुमाह– किं-विशेषणश्चेत्यपि ग्राह्यमिति ।। किं विशेषणं यस्यात्मन इति बहुव्रीहिणा पुंस्त्वम् । ‘आत्मनो बन्धुः’ इति प्रतिसम्बन्धिन उक्तत्वात् कथमेवमाकाङ्क्षेत्यत आह– तस्यैवेति ।। उक्ताशङ्काऽ-पनोदाय– कस्येति । भाष्यार्थमाह– किंविशेषणस्येति ।। ‘येनात्मैवात्मना जितः’ इति गीतायां ‘जीवेन बुद्ध्या हि यदा मनो जितम्’ इत्युदाहरिष्यमाणप्रमाणे च वैशिष्ट्यस्यैव मनसो बन्धुत्वाव-गमादाह– किंविशेषणो वेति ।। ‘बन्धू रिपुः’ इत्यत्र ‘ढ्रलोपे पूर्वस्य दीर्घोऽणः’ इति दीर्घः । प्रश्नोत्तररूपत्वे ‘इत्यत आह’ इति विन्यासः स्यादित्यतः ‘इति’ इत्यनूद्य शेषमाह– इति पृच्छायामिति ।।

आत्माऽर्कचन्द्रवाताग्निजीवेषु परमात्मनि ।

 देहे यत्ने धृतौ कीर्तौ बुद्धौ मनसि च श्रुतः ।।

इति अभिधानादाह– अनेकार्थत्वादिति ।।

आद्यश्लोके ‘उद्धरेत्’ इत्याद्यश्लोके । उपपाद्योपपादकभावेनैकार्थ्याद् आद्यत्वद्वितीयत्वविवक्षा ज्ञेया । स्वपर्याय एवेति । अन्यस्योद्धारविधिगोचरतायां अवसादनप्रसक्तेश्चाभावेन तस्मिन्निषेध-विषयतायाश्चायोगेन स्वशब्दपर्यायो जीववाचक एव वक्तव्यः । तथा च सङ्करः ‘न ह्यन्यः स्वस्य कश्चिद्बन्धुः संसारनिमग्नस्य भवति’ इत्यभाषतेति भावः । अन्यार्थः मनोऽर्थकः ।। आत्मनेतीति । तथा च पूर्वश्लोकेऽपि मनसः प्रकृतत्वात् नोक्तानुपपत्तिरिति भाष्यभाव इति हृदयम् । उद्धारादौ हेतूक्तिपरे ‘आत्मैव ह्यात्मनः’ इत्याद्यश्लोकोत्तरार्धे जीव एवोच्यत इति कथमेवमुक्तिरित्यत आह– अनयैवेति ।। पूर्वार्धगतात्मशब्दद्वयव्याख्यानरीत्यैवेत्यर्थः । वक्ष्यति चात्मशब्दस्य मनोऽर्थत्वे मानमिति भावः ।

भावदीपिका

।। उत्तरश्लोके ‘बन्धुरात्मा’ इति श्लोके । ‘आत्मैव हि’ इत्यत्रात्मन आत्मानं प्रति बन्धुत्वाद्युक्तौ ‘कीदृशस्यात्मन आत्मा बन्धू रिपुश्च’ इत्याकाङ्क्षायाम् ‘बन्धुरात्मा’ इत्युत्तरश्लोकः प्रवृत्त इति स्पष्टमेव । तत्र ‘येनात्मैवात्मना जितः’ इत्याद्युक्तेः । अतो ‘मन्दाशङ्का’ इत्युक्तम् ।। कस्येति ।। किंविशेषणवत इत्यर्थः । किंविशेषणश्चेति ।। ‘येनात्मै-वात्मना जितः’ इति मनसोऽपि विशेषितत्वादिति भावः ।। इति पृच्छायामिति ।। अन्यथा इत्यत आहेति स्यात्, नतु इत्याहेतीति भावः । आद्यश्लोक इति ।। ‘उद्धरेदात्मनाऽऽत्मानम्’ इति श्लोक इत्यर्थः । स्वपर्याय इति ।। स्वशब्दपर्याय इत्यर्थः । तथाच पूर्वश्लोके जीवपर्याय एवात्मशब्दः प्रकृतः, अतः ‘आत्मा मनः’ इति व्याख्यानमयुक्तमिति भावः । आहेति ।। तत्रापि तृतीयान्तात्म-शब्देन मन एव प्रकृतमस्तीत्याहेत्यर्थः ।

भावप्रकाशः

उत्तरश्लोके विशिष्टस्यैव मनसो बन्धुत्वाद्युक्तेर्नोक्तमेवोच्यत इत्यत उक्तं– मन्दाशङ्केति ।। येनात्मैवात्मना जित इति मनोविशेषणव्यावर्त्यां शङ्कामाह– किंविशेषण-श्चेत्यपीति ।। आत्मनो बन्धुरिति सम्बन्धिन उक्तेः तदाकाङ्क्षेत्यत आह– तस्यैवेति ।। किं विशेषणस्येति ।। जीवेन बुद्ध्या हीत्युदाहरिष्यमाणप्रमाणे बुद्ध्यादिबलविशिष्टस्यैव जितमनो-बन्धुरित्यवगमादेवमुक्तमित्यवधेयम् ।

Load More