यान्ति देवव्रता देवान् पितॄन् यान्ति पितृव्रताः । भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ।।२५।।
यान्ति देवव्रता देवान् पितॄन् यान्ति पितृव्रताः ।
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ।।२५।।
भाष्यम्
फलं विविच्याऽह– यान्तीति ।। २५ ।।
भावप्रदीपिका
सर्वेषां त्वद्याजित्वेन त्वत्प्राप्तिमतां कथं फलभेद इत्याशङ्कानिरासाय श्लोकमवतारयति– फलमिति ।। २५ ।।
प्रमेयदीपिका
‘ते पुण्यमासाद्य’ इति ‘योगक्षेमं वहाम्यहम्’ इति च फलभेदस्योक्तत्वात् किं यान्ति इत्यादिना? इत्यत आह– फलमिति ।। तस्यैवायं प्रपञ्च इति भावः ।। २५ ।।
भावरत्नकोशः
।। फलभेदस्य स्वर्गापवर्गलक्षणफलभेदस्य । कृतचोद्यं परिहर्तुमाह– तस्यैवेति ।। २५ ।।
गीताक्षराप्थस्तु त्रैविद्यभागवतयोः, ‘ते पुण्यमासाद्य’ इति ‘योगक्षेमं वहाम्यहम्’ इति च यः फलभेद उक्तः स प्रपञ्च्यते– यान्तीति ।। देवेषु व्रतं नियमो भक्तिर्येषां ते देवव्रताः । भूतेषु सप्तमातृ, यक्ष, रक्षः, पिशाचादिषु इज्या ‘व्रजयजोर्भावे क्यप्’ पूजा येषां ते भूतेज्याः । मां यष्टुं शीलं येषां ते मद्याजिनः । अपिशब्दस्तुशब्दार्थः ।। २५ ।।