एवमेतद्यथाऽऽत्थ त्वमात्मानं परमेश्वर । द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ।। ३ ।।

एवमेतद्यथाऽऽत्थ त्वमात्मानं परमेश्वर ।

द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ।। ३ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु परमेश्वर  यत्् मया ‘भवाप्ययौ हि भूतानाम्’ इत्यादिना श्रुतम्, यथा च आत्मानमात्थ ‘विष्टभ्याहमिदं कृत्स्नम् एकांशेन स्थितो जगत्’ इति ब्रवीषि, एतत् द्वयमपि एवम् एव अवितथम् अर्थाव्यभिचार्येव । एवमभिनन्दता दिदृक्षितं प्रार्थ्यते– द्रष्टुमिच्छामीति ।। हे पुरुषोत्तम  ऐश्वरम् अचिन्त्यशक्तिकं ते रूपं द्रष्टुमिच्छामि ।। ३ ।।