जितात्मनः प्रशान्तस्य परमात्मा समाहितः । शीतोष्णसुखदुःखेषु तथा मानापमानयोः ।। ७ ।। ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः । युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ।। ८ ।।

जितात्मनः प्रशान्तस्य परमात्मा समाहितः ।

शीतोष्णसुखदुःखेषु तथा मानापमानयोः ।। ७ ।।

ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः ।

युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ।। ८ ।।

भाष्यम्

जितात्मनः फलमाह– जितात्मन इति ।। जितात्मा हि प्रशान्तो भवति । न तस्य मनः प्रायो विषयेषु गच्छति । तदा च परमात्मा सम्यगाहितः । हृदि सन्निहितो भवति । स अपरोक्षज्ञानी भवतीत्यर्थः ।।

भावप्रदीपिका

नन्वेवं जितं मनो यदि बन्धुः, तर्ह्यपि किं फलम् ? इत्या-शङ्क्य, उत्तरत्वेनोत्तरार्धमवतारयति– जितात्मन इति । जितात्मत्वेन कथं ज्ञानम् ? इत्यत आह– जितात्मेति । तदा चेति प्रशान्तत्वे । हृदये परमात्मनः स्थितिः सर्वसमेत्यत उक्तम्–सम्यगिति । तदेव विवृणोति– अपरोक्षेति ।

भावप्रकाशिका

मनो जित्वा तेन स्वात्मानमुद्धरेदित्युक्तम् । तत्रात्मोद्धारः कः ? इत्याकाङ्क्षायां प्रकृतयोगारोह एवेति भावेनोत्तरार्धमवतार्य व्याचष्टे– जितात्मनः फलमिति । पदद्वयं हेतुहेतुमद्भावेन योजयति– जितात्मा हीति । ‘प्रशान्त’शब्दो विषयो-परतिमाचष्ट इत्याह– न तस्येति । विषयोपरते च मनसि किम् ? इत्याकाङ्क्षायामाह– तदा चेति । सदा सन्निहितत्वात् तदा को विशेष इत्यत आह– अपरोक्षेति ।।

प्रमेयदीपिका

योगो विहितः । तत्किं जितात्मनः इत्यनेनोच्यते? आह– जितात्मन इति ।। ‘उपकारी हि बन्धुरुच्यते । तत्र जितं मनः कमुपकारं करोति । येन बन्धुः स्यात्? आत्मोद्धारं करोतीति चेत् । ‘स एव च क इत्याशङ्क्य’ इति शेषः । जितात्मनः फले वक्तव्ये प्रशान्तस्य इत्यनुवादः किमर्थः ? इत्यत आह– जितात्मा हीति ।। वाक्यभेदेनेदमेव फलकथनमिति भावः ।।

ननु जितात्मत्वमेव प्रशान्तत्वम् । तत् कथं तत्फलं स्यादित्यत आह– नेति ।। तस्य जितात्मनः । ‘स्वत एव’ इति शेषः । तर्हि निराकाङ्क्षत्वादुत्तरं वाक्यं व्यर्थमित्यतः परमफलं दर्शयितुं तदिति भावेन न्यूनमध्याहारेण पूरयन् व्याचष्टे– तदा चेति ।। प्रशान्तत्वे सति परमात्मा सर्वेषां हृदि सन्निहित एव । तत्कुतः प्रशान्तस्य विशेषः? इत्यतः ‘सम्यक्’-पदसूचितार्थं विवृणोति– अपरोक्षेति ।। योगारूढ इत्यर्थः ।।

भावदीपः

।। योगो विहित इति ।। वशीकृतमनस्कत्वं हि समाधिरूप-योगोपायत्वात् योगः इत्युच्यते। स च ‘उद्धरेत्’ इत्यादिना विहित इत्यर्थः ।। वाक्यभेदेनेति ।। जितात्मनः प्रशान्तिः, प्रशान्तस्य परमात्मा इत्येवमिति भावः । योगारोहः प्रयत्नेन कर्तव्य इत्यादि सम्बन्धः ।।

भावरत्नकोशः

।। योगो विहित इति । ज्ञानान्तरङ्गसमाधियोगः ‘उद्धरेत्’ इत्यादिना कर्तव्यत्वेनोक्त इत्यर्थः । नायं ‘प्रशान्तस्य’ इत्यनुवादः, किन्तु जितात्मनः फलाभिधान-रूपमेव । न चैवं षष्ठ््यनुपपत्तिः इत्याशङ्क्याह– वाक्यभेदेनेति ।। उक्तरीत्या जितात्मा हि प्रशान्तः विषयोपरतिमान् भवति । प्रशान्तस्य च परमात्मा समाहित इति वाक्यभेदेन युक्तं फलकथनरूपत्वमस्य वाक्यस्येति भावेन ‘जितात्मा हि प्रशान्तो भवति’ इत्यभाषतेत्यर्थः । तत् प्रशान्तत्वम् । तत्फलम् जितात्मत्वफलम् । फलफलिभावस्य भेदगर्भत्वादिति भावः । ‘जितात्मनः’ इत्यत्र मनसो जयो नाम वशीकरणम् । वशीकृतं च मनः स्वत एव प्रायो विषयेषु न गच्छतीति मनोजयस्य विषयालग्नत्वरूपविषयोपरतिं प्रति हेतुत्वमत्राभिप्रेतमिति युक्त एव फलफलिभाव इति भावः । उत्तरं वाक्यं ‘परमात्मा समाहितः’ इति पादः । अध्याहारेण ‘हृदि’ इत्यन्वयप्रतियोगिसमर्पकपदस्य ।।

दा’प्रत्ययस्य काले अनुशासनेन ‘प्रशान्तिकाले’ इति वक्तव्ये तत्फलितप्रदर्शनमिदम् प्रशान्तत्वे सतीति ।। यथाश्रुतार्थग्रहणे योगारूढप्रकरणविरोधः, ‘योगसम्पूर्ण उच्यते’ इत्युपरितन-भाष्यविरोधश्च इत्यतो व्याचष्टे– योगारूढ इति ।। सम्पूर्णयोगसिद्धिमान् भवतीत्यर्थः ।

भावदीपिका

।। योग इति ।। समाधियोग इत्यर्थः । स एव क इति ।। आत्मोद्धार एव कीदृश इत्यर्थः ।। वाक्यभेदेनेति ।। ‘जितात्मनः प्रशान्तिर्भवति’ इत्येकं वाक्यम्, ‘जितात्मनः प्रशान्तस्य’ इत्याद्यपरं वाक्यमिति वाक्यभेदेनेत्यर्थः ।। तत्फलमिति ।। मनोजयफल-मित्यर्थः । एतादृशप्रशान्तत्वस्य साधकेऽपि सत्त्वादाह– स्वत एवेति शेष इति ।। अनायासेनेत्यर्थः । अनेन ‘प्रसादो नाम स्वतोऽपि प्रायो विषयागतिः’ इति प्राचीनव्याख्यान-विसंवादोऽपि परिहृत इति ध्येयम् । निराकाङ्क्षत्वादिति ।। ‘जितात्मा प्रशान्तो भवति’ इति वाक्येनैवाकाङ्क्षायाः पूर्णत्वात्, ‘जितात्मनः प्रशान्तस्य’ इत्यादि उत्तरं वाक्यं द्वितीयं वाक्यं व्यर्थमित्यर्थः । परमफलमिति ।। जितात्मनः प्रशान्तिव्यतिरिक्तं ध्यानपाकापरपर्याययोगारोहरूपं परमफलमित्यर्थः ।। न्यूनमिति ।। ‘कुत्राहितः’ इत्याकाङ्क्षापूरकस्याधिकरणवाचिनः पदस्याभावेन न्यूनत्वादित्यर्थः । पूरयन्निति ।। अधिकरणवाचि ‘हृदि’ इति पदं पूरयन्नित्यर्थः ।। योगारूढ इति ।। अनेनैव न्यायेन ‘अपरोक्षज्ञानिनो लक्षणं स्पष्टयति’ इत्यत्रापि ‘योगारूढस्य लक्षणं स्पष्टयति’ इत्येवार्थो वर्णनीयः । अत्रापरोक्षसमाध्योरनतिविप्रकषा•त्, तथोक्तिरिति पूर्वोक्तमनु-सन्धेयम् ।।

भावप्रकाशः

।। वाक्यभेदेनेति ।। जितात्मा हि प्रशान्तो भवतीति वाक्य-भेदेनेत्यर्थः । अध्याहरेणेति । हृदीत्यध्याहारेणेत्यर्थः ।। प्रसिद्धार्थग्रहणे योगारूढप्रकरणविरोध इत्यत आह– योगारूढ इत्यर्थ इति ।।

Load More