यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् । सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम्।। ३२ ।।

यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् ।

सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम्।। ३२ ।।

भावरत्नकोशः

किञ्च महति श्रेयसि स्वयमेवोपनते तत्र विकम्पोऽनुचित इत्युच्यते– यदृच्छयेति ।। भगवदिच्छया उपपन्नं प्राप्तम् अपावृतम् अपगतावरणं स्वर्गद्वारम् उद्घाटितपारलौकिकसुखद्वारम् ईदृशं धर्म्यम् युद्धं ये लभन्ते ते क्षत्रियाः सुखिनः । अतिशायिनि क इनिः । अतिशयित-सुखशालिनः । एतेन ‘स्वजनं हि कथं हत्वा सुखिनः स्याम’ इति यदुक्तं तन्निरस्तम् ।।३२।।