नभःस्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम् । दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो ।। २४ ।।

नभःस्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम् ।

दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च

विष्णो ।। २४ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु तत्र कारणम्– नभःस्पृशमिति ।। त्वा त्वां दृष्ट्वा हि इति स्वानुभवसिद्धतोच्यते । प्रव्यथितः अन्तरात्मा मनो यस्यासौ तथोक्तः । धृतिं न विन्दामि धैर्यं न लभे शमम् उपशमं मनस्तुष्टिं च । विष्णुशब्दार्थो दशम उक्तः ।। २४ ।।