पश्याऽदित्यान् वसून् रुद्रानश्विनौ मरुतस्तथा । बहून्यदृष्टपूर्वाणि पश्याऽश्चर्याणि भारत ।। ६ ।।

पश्याऽदित्यान् वसून् रुद्रानश्विनौ मरुतस्तथा ।

बहून्यदृष्टपूर्वाणि पश्याऽश्चर्याणि भारत ।। ६ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु- किञ्च ममैवैकस्मिन् रूपे पश्यादित्यान् वसून् अष्टौ रुद्रान् एकादश । अदृष्टपूर्वाणि लोके शास्त्रे वा इतः पूर्वमदृष्टानि । ‘भूतपूर्वः’ इतिवत् समासः । बहूनि आश्चर्याणि अद्भुतानि च पश्य ।। ६ ।।