कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति । अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ।। ३८ ।।

कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति ।

अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ।। ३८ ।।

भावरत्नकोशः

उभयविभ्रष्टः ऐहिकामुष्मिकफलभोगविभ्रष्टः, स्वर्गाद्युपायात् ध्यानयोगाच्च विभ्रष्ट इति वा, अप्रतिष्ठः निराश्रयः ब्रह्मणः पथि ब्रह्मप्राप्त्युपाये विमूढः छिन्नाभ्रमिव वात्यया शकलीकृतमेघखण्ड इव नश्यति कच्चित् । दृष्टप्रश्ने ‘कच्चित्’ इत्यव्ययम् । ‘कच्चित् कामप्रवेदने’ इत्यमरोक्तेः ।। ३८ ।।