सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ।। २९ ।।
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ।। २९ ।।
भाष्यम्
ध्येयमाह– सर्वभूतस्थमिति ।। सर्वभूतस्थमात्मानं परमेश्वरम् । सर्वभूतानि च आत्मनि परमेश्वरे । तं च परमेश्वरं ब्रह्मतृणादावैश्वर्यादिना साम्येन पश्यति । तच्चोक्तम्–
‘आत्मानं सर्वभूतेषु भगवन्तमवस्थितम् ।
अपश्यत् सर्वभूतानि भगवत्यपि चाऽत्मनि ।।’ (भाग.३.२५-४७) इति
‘समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्’ इति च ।। २९ ।।
भावप्रदीपिका
पूर्वश्लोके ‘प्रशान्तमनसम्’ इति ध्यानस्य ध्येयसापेक्षत्वात्, तत्प्रदर्शनपरतयोत्तरश्लोकमवतार्य व्याचष्टे– ध्येयमिति । अत्रोच्यमान आत्मा जीवः किं न स्यात् ? इत्यत आह– तच्चेति ।। २९ ।।
भावप्रकाशिका
भवत्वयं समाधियोगप्रकारः सफलः । अत्र किं ध्येयम् ? इत्याकाङ्क्षोत्तरत्वेनोत्तरं श्लोकमवतार्य व्याचष्टे– ध्येयमिति । यं सर्वभूतानामन्तर्यामिणं यस्मि-न्नितराणि ब्रह्मादिस्थावरान्तानि भूतान्याश्रितानि योगयुक्तात्मानः पश्यन्ति, स परमात्मैवेत्यत्र प्रमाणमाह– तच्चेति । सर्वान्तर्यामित्वेन सर्वगुणपूर्णत्वेन सर्वत्र साम्यं च परमेश्वरस्यैवेति गीतास्वेव सिद्धमित्याह– सममिति । एवमात्मशब्दस्य परममुख्यार्थपरमात्मपरत्वे सम्भवति, न वृथा सर्वभूतस्थं स्वमात्मानमिति मुख्यमात्रजीवपरत्वं कल्पनीयम् । न हि जीवस्य युगपत् सर्वभूतस्तथा । तस्योत्क्रान्त्यादिभिरणुत्वस्य साधितत्वात् । न च तदणुत्वस्यौपाधिकत्वे प्रमाणमस्ति । अत एवासौ न सर्वभूताश्रयः । सर्वभूतानि चात्मन्येकत्वं गतानीत्यश्रुतकल्पनं च तत्पक्षं इत्यलं विस्तरेण ।। २९ ।।
प्रमेयदीपिका
‘एवं युञ्जन्’ इति योगप्रकरणस्य फलकथनेनोपसंहृतत्वात् किमुत्तरेण ? इत्यत आह– ध्येयमिति ।। ननु ‘मच्चित्तो युक्तः’ इत्यादिना ध्येयमुक्तमेव । सत्यम् । तथाऽप्युत्तमाधिकारिणां ध्येयमनेनोच्यत इत्यदोषः । ‘आत्मानं स्वात्मानम्’ इत्यादि प्रतीतिपराकरणार्थमाह– सर्वेति ।। कुतोऽयमर्थ इत्यतः पुराणसमाख्यानादित्याह– तच्चेति ।। सर्वत्र समदर्शनः इत्यस्योक्तार्थतां गीतासम्मत्य• उपपादयति– सममिति ।।
भावरत्नकोशः
।। फलकथनेन ‘अत्यन्तं सुखमश्नुते’ इत्युत्तमसुखानुभवकथनेन । मच्चित्त इति । ‘मनः संयम्य मच्चित्तो युक्त आसीत’ इत्यत्र मद्विषयकध्यानवान् योगसम्पन्न आसीतेति भगवानेव ध्येय इत्युक्तमेवेत्यर्थः । ‘इत्यादि’ इत्यत्र ‘स्वात्मनि सर्वभूतानि’ इति प्रतीतिः, ‘सर्वत्र स्थावरादिब्रह्मान्तेषु समं निर्विशेषं ब्रह्मात्मैकत्वविषयं दर्शनं यस्य स सर्वत्र समदर्शनः’ इति प्रतीतिश्चादिशब्देन ग्राह्या ।।
‘योगी युञ्जीत’ इत्यादिना ‘अत्यन्तं सुखमश्नुते’ इत्यन्तेन ग्रन्थेन फलकथनेन योगप्रकरणं समापितम् । अथ ध्येयमुच्यते सर्वभूतस्थमिति । ‘भोक्तारम्’ इति पञ्चमे, ‘मच्चितो युक्त आसीत’ इत्यत्र ध्येयोक्तावपि, अत्राप्युत्तमाधिकारिणा मनोध्येयमुच्यत इति विवेकः । तिष्ठतेः ‘सुपि स्थः’ इति कप्रत्ययः । सर्वेषु भूतेषु स्थितम् आत्मानं परमेश्वरम् सर्वभूतानि चात्मनि परमेश्वरे योगयुक्त आत्मा मनो यस्य स तथा, सर्वत्र तृणादिब्रह्मान्तेषु वस्तुषु विद्यमानेषु समम् ऐश्वर्यादिना साम्यावगाहि दर्शनं यस्य स सर्वत्र समदर्शनः सन् ईक्षते पश्यति ।। २९ ।।
भावदीपिका
।। तथाऽप्युत्तमेति ।। तत्र त्ववतारोपासकानामधिकारिणां मनुष्योत्तमानामेव ध्येयमुक्तम् । ‘मच्चित्तः’ इत्यवतारोपास्तिकथनादिति भावः । उक्तार्थतां ‘ब्रह्म-तृणादौ’ इत्यादिनोक्तार्थताम् ।। २९ ।।