पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः । नानाविधानि दिव्यानि नानावर्णाकृतीनि च ।। ५ ।।

श्रीभगवानुवाच–

पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः ।

नानाविधानि दिव्यानि नानावर्णाकृतीनि च ।। ५ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु एवं कौतूहलवता पार्थेन प्रार्थितेन भगवता ‘विश्वरूपदर्शनं कुरु’ इति विधीयते– भगवानुवाच पश्य मे पार्थेत्यादिना ।। शतशः सहस्रशः इत्यत्र ‘सङ्ख्यैकवचनाच्च वीप्सायाम्’ इति शस्प्रत्ययः । शतंशतं सहस्रंसहस्रमिति तदर्थः । एकस्यैवाभिन्नानन्तरूपात्मकत्वाद् ‘रूपाणि’ इति विशेषबलाद् बहुवचनम् । दिव्यानि अलौकिकानि वर्णाः शुक्लपीतादयः आकृतयः अवयवसंनिवेशविशेषाः । नानाविधा वर्णाकृतयो येषां तानि तथोक्तानि ।। ५ ।।