दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता । यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ।। १२ ।।
दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता ।
यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ।। १२ ।।
भाष्यम्
सहस्रशब्दोऽनन्तवाची । तदपि ‘पाकशासनविक्रम’ इत्यादिवत् प्रत्याय-नार्थमेव । तथा हि ऋग्वेदखिलेषु ‘अनन्तशक्तिः परमोऽनन्तवीर्यः सोऽनन्त-तेजाश्च ततस्ततोऽपि’ इति । महातात्पर्याच्च प्राबल्यम् । नच परिमाणोक्त्या किञ्चित् प्रयोजनम् ।। १२ ।।
भावप्रदीपिका
दिविसूर्यसहस्रस्य इति भगवत्तेजसः परिमितत्वमुच्यत इत्यत आह– सहस्रेति । अस्तु वा सहस्रशब्दस्य प्रसिद्धार्थत्वम् । तथाऽपि न विरोध इत्याह– तदपीति । साक्षात्परिमितत्वमेवार्थः किं न स्यात् इत्यत आह– तथा हीति । ननु वचनत्वाविशेषात् केन कस्य बाध इत्यत आह– महातात्पर्येति । कथं परिमाणोक्त्या महातात्पर्यविरोध इत्यत आह– न चेति । मोक्षार्थं प्रवृत्तशास्त्राणां परिपूर्णे ब्रह्मणि परिमाणवाचित्वे किञ्चित्प्रयोजनं नास्ति, किमु मोक्ष इत्यर्थः ।।१२।।
प्रमेयदीपिका
‘दिवि सूर्यसहस्रस्य’ इति विश्वरूपस्य सहस्रसूर्योपम-प्रभत्वमुच्यते । तत्र सहस्रशब्दो दशशतवाचीति प्रतीतिनिरासार्थमाह– सहस्रेति ।। अनन्तसूर्योपमप्रभत्वमपि भगवतो न वास्तवम् । निरुपमत्वात् । किं तर्हीत्यत आह– तदपीति ।। प्रत्यायनार्थं बुद्धिप्रवेशनार्थम् एव उच्यते । यथा भगवतो दाशरथेः पाकशासनोपमपराक्रमत्वमित्यर्थः ।।
सहस्रशब्दस्य प्रसिद्धार्थपरित्यागः कुतः? इत्यत आह– तथा हीति ।। ततस्ततः ‘सूर्यादेरपि विलक्षणः’ इति शेषः । कुतः श्रुत्या गीतावाक्यस्य बाधः? इति चेत् । ‘शतं सहस्रम् इत्यपरिमितनामानि’ इति गीतावाक्यस्य सावकाशत्वेन दौर्बल्यात् । श्रुतेः निरवकाशत्वेन प्राबल्यात् ।
इतश्च श्रुतेः प्राबल्यमित्याह– महातात्पर्याच्चेति ।। समस्तागमानां महाप्रयोजनाय यद्भगवति महातात्पर्यं श्रुतेस्तदानुकूल्याद् गीतावाक्यस्य तत्प्रातिकूल्यादित्यर्थः । कथं गीतावाक्यस्य तत्प्रातिकूल्यम् ? इति चेत् । किं भगवतः परिमितप्रभत्वमेव वस्तुतः? उतापरिमितप्रभस्याऽप्यत्र सहस्रसूर्योपमप्रभत्वमुच्यते ? नाद्यः । सकलश्रुति-स्मृतीतिहासपुराणविरोधात् । द्वितीये त्वपरिमितस्य परिमाणोक्त्या किञ्चिदपि प्रयोजनं न सिद्ध्यति । कुतो महत्? इत्याह– नचेति ।। १२ ।।
भावरत्नकोशः
‘निभ, सङ्काश, नीकाश, प्रतीकाश, उपमादयः’ इत्युक्तेः, उपमशब्दः सदृशार्थः । उपमाशब्दस्य दीर्घान्तस्यापि ‘गोस्त्रियोरुपसर्जनस्य’ इति ह्रस्वत्वे ‘उपमप्रभत्वम्’ इति युक्तम् । तदपि अनन्तसूर्योपमप्रभत्वमपीति भाष्यपदार्थः । ‘बुद्धि-प्रवेशार्थम्’ इत्यत्र बुद्धेः प्रवेशो विषयीकरणलक्षणः । पाकशासनस्य देवेन्द्रस्य विक्रमः पराक्रम इव पराक्रमो यस्येति विग्रहाभिप्रायेणोक्तम्– पाकशासनोपमपराक्रमत्वमिति ।। पाकशासन-पराक्रमोपमपराक्रमत्वमित्यर्थः । भावप्रदीपिकायां तु अस्तु वा सहस्रशब्दस्य प्रसिद्धार्थत्वम् । तथापि न दोष इत्याह ‘तदपीति’ इत्यवतारितं ‘तदपि’ इति भाष्यम् । प्रसिद्धार्थः दशशतानि । ‘सूर्यादितोऽप्यनन्ततेजाः परमः’ इत्युक्ते सावधिकानन्तसूर्योपमतेजस्त्वं न निवारितं स्यात्, इत्यतः प्रमाणे शेषमाह– विलक्षण इति शेष इति ।। भाष्ये ‘इति’शब्दात् परं ‘श्रूयते’ इत्यध्याहृतस्य ‘तथाहि’ इत्यत्रत्य‘हि’शब्देनान्वयो द्रष्टव्यः । एवं च ‘प्रसिद्धार्थ-परित्यागः कुतः’ इति गमनिकाटीका सुघटा भवति । ‘दौर्बल्यात्’ ‘प्राबल्यात्’ इति पञ्चम्यन्तशब्दद्वयस्य ‘श्रुत्या गीतावाक्यस्य बाध’ इत्यन्वयः । महाप्रयोजनाय मोक्षरूपाय तत्प्रातिकूल्यं महातात्पर्यप्रातिकूल्यम् । अत्र गीतायां किञ्चित् अल्पं महत् मोक्षरूपम् ।।
गीताक्षरार्थस्तु विश्वरूपस्य निरुपमस्यापि प्रत्यायनार्थम् अनन्तसूर्योपमत्वमुच्यते– दिवीति ।। दिवि अन्तरिक्षे सूर्याणां सहस्रस्य अनन्तस्य युगपदुत्थितस्य यदि युगपदुत्थिता भाः प्रभा या तर्हि सा महात्मनः विश्वरूपस्य भासः प्रभायाः कथञ्चित्् सदृशी स्यात् । एवमनन्त-सूर्योपमप्रभत्वमपि भगवतो न वास्तवम्, निरुपमत्वात् । किमर्थं तर्ह्येतदुच्यत इति चेत् ‘पाक-शासनविक्रमो दाशरथिः’ इतिवत् प्रत्यायनार्थमेव । परमार्थतस्तु ‘अनन्तशक्तिः परमोऽनन्तवीर्यः सोऽनन्ततेजाश्च ततस्ततोऽपि’ इति शास्त्रात् सूर्यादेरपि विलक्षणो निरुपम एव भगवानिति भावः । ‘एवंविधं रूपं दर्शयामास’ इति पूर्वेणान्वयः ।। १२ ।।
भावदीपिका
।। न सिध्यतीति ।। विशिष्टाधिकारिणामित्यर्थः । कुतो महत् ‘प्रयोजनं सिध्यति’ इति वर्तते ।। १२ ।।