यया धर्ममधर्मं च कार्यं चाकार्यमेव च । अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ।। ३१ ।।
यया धर्ममधर्मं च कार्यं चाकार्यमेव च ।
अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ।। ३१ ।।
भाष्यम्
यथार्थत्वनियमाभावेे राजस्याः । अन्यथा तामस्याः भेदाभावात् ।।३१।।
भावप्रदीपिका
अयथावत् प्रजानाति इत्यत्र न विपरीततयेत्यर्थ इत्याह– यथार्थत्वेति । किमित्येवम् इत्यत आह– अन्यथेति ।।
प्रमेयदीपिका
यया धर्ममधर्मं च इति राजस्याः बुद्धेः धर्मादिविषयाया अयथार्थज्ञानहेतुत्वमुच्यते’ इत्यन्यथाप्रतीतिनिरासार्थमाह– यथार्थत्वेति ।। अयथावत् प्रजानाति इत्यस्य यथार्थज्ञानजनननियमाभावे तात्पर्यमित्यर्थः । प्रतीत एवार्थः किं न स्यात्? इत्यत आह– अन्यथेति ।। राजस्याः इति षष्ठ्यन्तमनुवर्तते । तामस्याः इति पञ्चमी । भेदाभावात् भेदाभावप्रसङ्गात् ।। ३१ ।।
भावरत्नकोशः
‘बुद्धिः अन्तःकरणम्’ इति हृदि निधायाऽह– यथार्थज्ञान-जननेति ।। षष्ठ्यन्तं ‘पदम् इति शेषः । हेतोरसिद्धिदोषो यथा न स्यात् तथा व्याचष्टे– भेदाभावप्रसङ्गादिति ।। ३१ ।।
गीताक्षरार्थस्तु ययेति ।। पुमान् यया बुद्ध्या धर्मम् अधर्मं कार्यं च अकार्यं च कर्तव्यं चाकर्तव्यं च अयथावत् प्रतिजानाति इत्यस्य यथार्थज्ञानजनननियमाभावे तात्पर्यम् । प्रतीतार्थ एव किं न स्यादिति चेन्न । तथात्वे राजस्या बुद्धेः तामसबुद्धितो भेदाभावप्रसङ्गाद् इत्याकरे स्फुटम् ।। ३१ ।।