इदं ते नातपस्काय नाभक्ताय कदाचन । न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ।। ६७ ।।

इदं ते नातपस्काय नाभक्ताय कदाचन ।

न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ।। ६७ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु- गीताशास्त्रेऽनधिकारिनिरासेन अधिकारी लक्ष्यते– इदमिति ।। इदं गीताशास्त्रार्थतत्त्वम् अतपस्काय न विद्यते तपः ब्रह्मचर्यादिः यस्य सोऽतपस्कः, तस्मै त्वया त्वदुपलक्षितसज्जनेन न वाच्यम् । अशुश्रूषवे परिचर्यामकुर्वते पुनश्च न वाच्यम् इति अतपस्कादपि अशुश्रूषोः दोषाधिक्यं दर्शयितुं चशब्दः । एवम् अशुश्रूषोरपि अतिशयेन अभक्ताय न वाच्यम् इत्यर्थद्योतनाय ‘कदाचन’ इत्युक्तम् । अभक्तादपि अतिशयेन न वाच्यं यो मामभ्यसूयति तस्मै । ‘समुच्चये तथाऽधिक्ये न्यूनत्वे चः प्रयुज्यते’ इति वचनात् चकारस्य अतिशयाख्याधिक्यार्थत्वम् । अनेन तपःप्रभृतिधर्मयुक्तोऽत्राधिकारीति विभावितं भवति

।। ६७ ।।