अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः । अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके ।।२।।
अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः ।
अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके ।।२।।
भाष्यम्
अव्यक्तेऽपि सूक्ष्मरूपेण सन्ति शरीरादौ च भूतानीति अधश्चोर्ध्वं च प्रसृताः । गुणैः सत्त्वादिभिः । प्रतीतिमात्रसुखत्वात् प्रवालाः विषयाः । मूलानि भगवद्रूपादीनि । भगवानपि कर्मानुबन्धेन हि फलं ददाति ।।
भावप्रदीपिका
‘अधश्चोर्ध्वम्’ इत्येतद्व्याचष्टे– अव्यक्तेति । शाखाः पञ्चमहाभूतानि, अधः इति स्वापेक्षया निकृष्टशरीरेषु, ऊर्ध्वम् उत्कृष्टप्रकृतौ प्रसृतानि इत्यर्थः । गुणशब्दस्यानेकार्थत्वात्, विवक्षितार्थमाह– गुणैरिति । विषयानां प्रवालत्वे विवक्षामाह– प्रतीतिमात्रेति । पूर्वं मूलस्यैकवचनेनोक्तत्वान्मूलानीत्यन्यानीति प्रतीतिं पराकरोति– मूलानीति । आदिपदात् प्रकृत्यादीनि । ‘कर्मानुबन्धीनि’ इति श्रवणात् मूलानि जीवा इत्यत आह– भगवानपीति ।।
प्रमेयदीपिका
‘अधश्च’ इत्येतद् घटयति– अव्यक्तेऽपीति ।। अनेन ‘तस्य शाखा भूतानि अधश्च स्वापेक्षयाऽपकृष्टे शरीरादौ कार्ये च ऊर्ध्वं चोत्तमे कारणेऽव्यक्ते च प्रसृताः सूक्ष्मरूपेण सन्तीति व्याख्यातं भवति । ‘प्रसृता इत्य-नेनोच्यन्ते’ इति शेषः । ‘अधः पातालादूर्ध्वं स्वर्गादौ’ इत्यादि व्याख्याने प्रकृत-परित्यागाप्रकृतप्रक्रिये प्रसज्येते । गुणशब्दस्यानेकार्थत्वात् गुणप्रवृद्धाः इत्यत्र विवक्षित-मर्थमाह– गुणैरिति ।। अर्वाचीनमूलैर्हि शाखाः प्रवृद्धा भवन्ति। सत्वादयश्चार्वाचीन-मूलानीति वक्ष्यति। विषयाणां प्रवालत्वं घटयति– प्रतीतिमात्रेति ।। प्रतीतिसमय-मात्रसुखहेतुत्वादित्यर्थः । विमर्दनासहत्वसाम्यादिति भावः । विषयाः प्रवाला इति सम्बन्धः ।।
‘अधश्च मूलानि’ इत्यत्र ‘रागद्वेषादिवासनामूलानि’ इति व्याख्यानमसत् । प्रक्रमविरोधादिति भावेनाऽह– मूलानीति ।। आदिपदेन जडाजडप्रकृत्योः सत्त्वादीनां च ग्रहणम् । तेषामपि ‘ऊर्ध्वमूलम्’ इत्यत्र विवक्षितत्वात् । ननु भगवतः कथं कर्मानुबन्धित्वम्? इत्यत आह– भगवानपीति ।। अत्र कर्मानुबन्धित्वं नाम कर्मानु-सारित्वम् । तच्च कर्मसम्बन्धेन फलदातृत्वाद् भगवतोऽपि युक्तमित्यर्थः । यद्वा, कर्म एवानुबन्धः चरमभाविकारणं कर्मानुबन्धः । तद्वत्त्वं कर्मानुबन्धित्वम् । तदपि कर्मानुबन्धेन फलदातृत्वात् भगवतोपि युज्यत इति ।।
भावबोधः
।। प्रकृतेति ।। ऊर्ध्वाधश्शब्दार्थत्वेनोत्तमनिकृष्टयोरेव प्रकृतत्वा-न्नोर्ध्वाधोलोकयोरित्यर्थः । व्यावर्त्यकथनपूर्वकं मात्रपदाभिप्रायमाह– विमर्दनेति ।। विषयेषु विमर्दनं नाम स्थायित्वशोभनत्वादिविमर्शः । इति सम्बन्ध इति ।। विषयानुद्दिश्य प्रवालत्व-विधानादिति भावः । प्रक्रमविरोधादिति ।। ऊर्ध्वमूलमित्यत्र मूलत्वेन भगवद्रूपादीनामेव प्रक्रमादित्यर्थः । प्रकृतिः समूलमित्यादिप्रमाणानुसारेणादिशब्दार्थमाह– आदिपदेनेति ।। ननूर्ध्वमूलमित्यत्र प्रकृत्यादीनां मूलत्वेनानुक्तत्वात् कथं प्रक्रमविरोध इत्यत आह– तेषा-मपीति ।। चरमभाविकारणमिति ।। कर्मणि कृते प्रयत्नोऽप्यवश्यं भावीति कर्मैव चरमभाविकारणमित्यर्थः ।। २ ।।
भावदीपः
।। तस्येति ।। जगद्वृक्षस्येत्यर्थः । स्वापेक्षयेति ।। स्वशब्देन भूतपरामर्शः ।। प्रकृतेति ।। अव्यक्तभूतादिक्षेत्रस्थितस्वरूपस्यैव प्रकृतत्वात् तत्त्यागोऽप्रकृत-प्रकरणं च प्रसज्यत इत्यर्थः । साम्यादिति ।। प्रवालशब्दितपल्लवसाम्यादित्यर्थः । प्रक्रमेति ।। ऊर्ध्वपदेन ब्रह्मप्रकृत्यादेरेव प्रक्रमात् तद्विरोध इत्यर्थः । तत्कथम् इत्यत आह– तेषामपीति ।। चरमभाविकारणमिति ।। फलभोगादिकार्योत्पत्ताविति योज्यम् ।।
भावरत्नकोशः
।। अधश्चेत्येतद् ‘अधश्चोर्ध्वं च प्रसृताः’ इत्येतत् । भाष्ये सोपस्कारमन्वयं दर्शयंस्तत्तात्पर्यमाह– अनेनेति ।। ‘प्रसृताः’ इति भाष्यं साकाङ्क्षम् इति तत्र शेषमाह– इत्यनेनोच्यत इति शेष इति ।। उच्यते ‘सूक्ष्मरूपेण सन्तीत्ययमर्थः’ इति शेषः । इत्यादिव्याख्यान इति ।। अत्र आदिपदेन ‘अधो मनुष्यादिभ्यो यावत् स्थावरम् अत ऊर्ध्वं च यावद् विश्वसृजो धाम महान् इत्येतदन्तं यथाकर्म यथाश्रुतं ज्ञानकर्मफलानि तस्य वृक्षस्य शाखा इव शाखाः प्रसृताः प्रगताः’ इति शाङ्करीयम्, ‘अधश्चोर्ध्वं च प्रसृताः हिरण्यगर्भादयः कार्योपाधयो जीवाः शाखास्थानीयत्वेनोक्ताः, तेषु च ये दुष्कृतिनः ते अधः पश्वादियोनिषु प्रसृताः, ये च सुकृतिनः ते देवादियोनिषु प्रसृताः’ इति श्रीधरीयं व्याख्यानं ग्राह्यम् । प्रकृतेति ।। ‘ऊर्ध्वमूलमधःशाखम्’ इत्यत्र ऊर्ध्वम् उत्कृष्टं ब्रह्म, तत् मूलं यस्य स ऊर्ध्वमूलः तम्, अधःशाखं महदहङ्कारतन्मात्रादयः शाखा इव अस्य अधो भवन्तीति सोऽयम् अधःशाखः तम्’ इति शङ्करव्याख्याने ऊर्ध्वाधःशब्दाभ्याम् उत्कृष्टापकृष्टयोरेव प्रकृतत्वात् पातालस्वर्गयोः स्थावरपर्यन्तब्रह्मपर्यन्तयोर्वा अप्रकृतत्वात्, श्रीधरीयव्याख्यानेऽपि ‘उर्ध्वः उत्तमः क्षराक्षराभ्या-मुत्कृष्टः पुरुषोत्तमो मूलं यस्य तम्, अधःशाखम् अपकृष्टाः कार्योपाधयो हिरण्यगर्भादयो जीवाः शाखा इव शाखा यस्य तम् इत्यभिमानेन उत्कृष्टापकृष्टयोरेव प्रकृतत्वात् प्रकृतार्थस्य परित्यागः, अप्रकृतपातालस्थावरपर्यन्तत्वब्रह्मपर्यन्तत्वादेश्च प्रक्रिया प्रकरणम्, स्वीकार इति यावत्, ते प्रसज्येते इत्यर्थः ।
गुणानां सत्त्वरजस्तमसां शाखाप्रवृद्धिहेतुत्वं ‘सत्त्वादयोऽर्वाचीनमूलम्’ इत्युक्तिम् अनुरुन्धान उपपादयति– अर्वाचीनमूलैर्हीति ।। वक्ष्यते ‘सत्त्वादयोऽर्वाचीनमूलम् ’ इति भाष्योदा-हरिष्यमाणश्रुतौ । प्रतीतिशब्देन तत्समयः, सुखशब्देन तद्धेतुश्च लक्षणीय इति भावेनाह– प्रतीतिसमयमात्रे सुखहेतुत्वादिति ।। एवमपि प्रवालशब्दः कथं विषयेषु प्रवर्तते इत्यतो भाष्यभावमाह– विमर्दनासहत्वसाम्यादिति ।। विषयेषु विमर्दनं नाम स्थायित्वशोभनत्वादि-रूपः क्षोदः, तदक्षमत्वसाम्याद् गौणोऽयं शब्द इति भावः । भाष्योक्तं प्रवालानां विषयत्वविधानं न गीतानुगुणम् इत्यतः सम्बन्धं दर्शयति– विषया इति ।।
।। इति व्याख्यानमिति ।। तथा च शङ्करः ‘संसारवृक्षस्य परममूलम् उपादानम् ‘ऊर्ध्वं ब्रह्म मूलमस्य’ इतीश्वर एव मुख्यं मूलमित्युक्तम् । अथेदानीं कर्मफलजनितरागद्वेषादिवासना मूलानीव धर्माधर्मप्रवृत्तिकारणानि, अधश्च देवादियोन्यपेक्षया मूलान्यनुसन्ततानि’ इति । प्रक्रमेति ।। ‘ऊर्ध्वमूलम्’ इत्यत्र ब्रह्मण एव मूलत्वेन प्रकृतत्वात् तद्विरोधो रागद्वेषादि-वासनानां मूलत्वाभ्युपगमे इत्यर्थः । ननु पूर्वम् ‘ऊर्ध्वो विष्णुर्मूलम्’ इति भाषितम् । अत्र पुनः विष्णुजडाजडप्रकृतिसत्त्वादीनां मूलत्वाभ्युपगमे प्रक्रमविरोधः स्वपक्षेऽपि कस्मान्न स्यात् इत्यत आह– तेषामपीति ।। कथमिति ।। मूलानि भगवद्रूपादीनि, तत्र च कर्मानुबन्धित्वं विशेषणम् । कर्ममात्रविधुरे भगवति कर्मसम्बन्धो न युक्तः इत्याक्षेपः । ‘फलं ददाति’ इत्यस्य तात्पर्यम्– फलदातृत्वादिति ।। अनुबन्धशब्दस्य सम्बन्धे प्रयोगप्राचुर्याभावात् ‘अनुबन्धादिभ्यः’ इत्यादौ अन्यार्थत्वदर्शनाद् अत्र च तद्ग्रहणं न युक्तम् इत्यतश्च पक्षान्तर-माह– यद्वेति ।। कर्मैव धर्माधर्मलक्षणम् । चरमभावीति ।। फलदाने वैषम्यनैर्घृण्यपरिहाराय अन्ततो भगवताऽपि कर्मणोऽपेक्षणीयत्वात् तस्य चरमभावित्वम् । मनुष्यलोके यत् समार्जितं कर्म तत् स्वर्गनरकलक्षणफलं प्रति चरमभाविकारणमित्यर्थ इति आहुः । अन्ये तु भगवदपेक्षया अविद्यायोग्यतापेक्षया च अधमं कारणं कर्म फलदाने इति ‘चरमभावि’ इत्युक्तम् इत्याहुः । भगवानपि इति भाष्यं ‘कर्मानुबन्धित्वश्रवणात् मूलानि जीवा एव भवेयुः’ इति शङ्कापनोदाय प्रवृत्तमित्युक्तम् भावप्रदीपिकायाम् ।
भावदीपिका
।। तस्य जगद्वृक्षस्य । शरीरादौ कार्य इति ।। ‘व्याप्तं कार्येषु कारणम्’ इति वचनादिति भावः । कारण इति ।। ‘कारणेषु स्थितं कार्यम्’ इति वचनादिति भावः । प्रकृतेति ।। ऊर्ध्वाधःशब्दार्थत्वेन उत्तमनिकृष्टावेव प्रकृतौ नोर्ध्वाधोलोकौ । अतः प्रकृतपरित्यागाप्रकृतप्रक्रिये प्रसज्येत इत्यर्थः । स्यादिदं यदि गुणानाम् अर्वाचीनमूलत्वं स्यात् इत्यत आह– सत्त्वादयश्चेति ।। वक्ष्यतीति ।। उत्तरत्रोदाहरिष्यमाण-भाल्लवेयश्रुतौ ‘सत्त्वादयोऽर्वाचीनमूलम्’ इत्युक्तत्वादिति भावः । अत्र वृक्षसहभूतमूलभूतजड-प्रकृतेरेव गुणत्रयात्मकत्वात् पृथग्ग्रहणमयुक्तम् । तथाऽपि गुणत्रयात्मकमूलप्रकृत्या गुणवैषम्येण सृष्टाः सत्त्वादयोऽत्र ग्राह्य इति द्रष्टव्यम् ।
विमर्दनेति ।। विषयेषु विमर्दनं नाम स्थायित्वशेभनत्वादिविमर्शः । स्थायित्व-शोभनत्वादिविमर्शाक्षमत्वादित्यर्थः । प्रक्रमेति ।। भगवत एव ‘ऊर्ध्वमूलम्’ इत्यत्र मूलत्वेन प्रकृतत्वादित्यर्थः । ‘प्रकृतिः समूलम्’ इति प्रमाणानुसारेणादिपदार्थमाह– आदिपदेनेति ।। नन्वत्र पूर्वं मूलत्वेनोक्तानाम् अधोऽनुसन्ततत्वं कथ्यते । पूर्वं च भगवद्रूपाण्येव ‘ऊर्ध्वमूलम्’ इत्यत्र मूलत्वेनोक्तानि, नेतरे । अतोऽत्र प्रक्रमविरोधः इत्यत आह– तेषामपीति ।। कथमिति ।। तस्य कर्माभावादिति भावः । चरमभावीति ।। वेदाप्रामाण्यहेतुभूतवैषम्यादि-दोषपरिहाराय अन्ततो भगवताऽपेक्षणीयत्वात् कर्मणश्चरमत्वं द्रष्टव्यम् । कर्मणि कृते प्रयत्नोऽप्यवश्यम्भावीति कर्मैव चरमभावि कारणमित्यर्थ इत्यपि आहुः । कर्मानुबन्धेन कर्मलक्षणचरमकारणेन ।
भावप्रकाशः
।। इत्यादि व्याख्यान इति ।। ‘अधो मनुष्यादौ स्थावर-पर्यन्ते ऊर्ध्वं ब्रह्मपर्यन्ते’ इति व्याख्यानमादिपदेन ग्राह्यम् । प्रकृतेति ।। ऊर्ध्वमूलमधःशाख-मित्येतत्परेण व्याख्यातम् ‘ऊर्ध्वं ब्रह्म तन्मूलमस्येत्यूर्ध्वमूलम् । महदहङ्कारतन्मात्रादयः शाखा इवास्याधो भवन्ति इति सोयमधःशाखः, तम् अधःशाखम्’ इति । तथा चोर्ध्वाधः-शब्दार्थत्वेनोत्तमापकृष्टयोरेव प्रकृतत्वादूर्ध्वाधोलोकयोः स्थावरपर्यन्तब्रह्मपर्यन्तयोश्चाप्रकृतत्वादिति भावः । अर्वाचीनेति ।। अर्वागेवार्वाचीनम् । विभाषाञ्चेरदिक् स्त्रियामिति स्वार्थे खः । तस्येनादेशश्चेति भावः । व्यावर्त्यकथनपूर्वकं मात्रपदाभिप्रायमाह– विमर्दनेति ।। विषयेषु विमर्दनं नाम स्थायित्वशोभनत्वादिविमर्शः । ननु विषयानुद्दिश्य प्रवालत्वस्य विधेयत्वात् कथं प्रवाला विषया इति निर्देश इत्यत आह– विषया इति ।। रागद्वेषादीति ।। रागद्वेष-व्यतिरिक्तप्रवृत्त्यवान्तरकारणसङ्ग्रहायादिपदम् ।
प्रक्रमेति ।। ‘ऊर्ध्वमूलम्’ इत्यत्र ऊर्ध्वं ब्रह्म तन्मूलमस्येति परेण व्याख्यातत्वादिति भावः । ननु ‘ऊर्ध्वमूलम्’ इत्यत्र प्रकृत्यादीनां मूलत्वेनानुक्तत्वात् कथमत्र तद्ग्रहणमित्यत आह– तेषामपीति ।। वक्ष्यमाणप्रमाणानुसारादिति भावः । कथं कर्मानुबन्धित्वमिति ।। भगवत्त्वादेव कर्मबन्धरूपं कर्मानुबन्धित्वं न युक्तं इत्यर्थः । ननु कर्मानुबन्धित्वं न कर्म-सम्बन्धित्वम् । अनुपूर्वस्य बन्धधातोः सम्बन्धे प्रयोगबाहुल्याभावादित्यत आह– यद्वेति ।। चरमभावीति ।। कर्मणि कृते प्रयत्नोऽप्यवश्यं भावीति कर्मणश्चरमभावित्वमिति भावः । यद्वा मनुष्यलोके यत्कर्म धर्माधर्मलक्षणं तत्स्वर्गनरकरूपफलं प्रति चरमभाविकारणमिति बोध्यम् ।