तस्मात् सर्वेषु कालेषु मामनुस्मर युध्य च । मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः ।। ७ ।।
तस्मात् सर्वेषु कालेषु मामनुस्मर युध्य च ।
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः ।। ७ ।।
भाष्यम्
स्मरन् पुरुषः त्यजतीति भिन्नकालीनत्वेऽप्यविरोध इति मन्दमतेः शङ्का मा भूदिति अन्ते इति विशेषणम् । सुमतेः नैव शङ्कावकाशः । स्मरन् त्यजतीत्येककालीनत्वप्रतीतेः ।।
भावप्रदीपिका
ननु ‘त्यजति’ इत्यनेनैवान्तकालसिद्धेः किम् ‘अन्त’पदेन ? इत्यत आह– स्मरन्निति । ‘भुञ्जन्नुत्थितः’ इतिवत् । नन्वेवमर्थप्रतीतेः सुमतेरपि सम्भवात् किं दुर्मतेः ? इत्यत आह– सुमतेरिति ।।
प्रमेयदीपिका
ननु कलेवरत्यागस्यान्ताव्यभिचारात् ‘अन्ते’ इति व्यर्थ-मित्यत आह– स्मरन्निति ।। न ‘अन्ते’ इत्येतत् ‘कलेवरं त्यजति’ इत्यस्य विशेषणम् । येन व्यर्थं स्यात् । किन्तु ‘अन्ते स्मरन्’ इति स्मरणस्यैव । तत्रापि किं प्रयोजनम्? इति चेदुच्यते । ‘लक्षणहेत्वोः क्रियायाः’ इति लक्षणेऽपि शतुर्विधानात् ‘स्मरन् पुरुषः कलेवरं त्यजति’ इति स्मरणकलेवरत्यागयोः भिन्नकालत्वेऽपि न कश्चिच्छब्दविरोध इति मन्दमतेः शङ्का स्यात् । सा मा भूदित्येवमर्थम् ‘अन्ते’ इति स्मरणस्य विशेषणमुपात्तम् । तेनात्र स्मरणकलेवरत्यागयोरेककालत्वसिद्धिरिति ।।
‘मन्दमतेः’ इत्यस्य कृत्यमाह– सुमतेरिति ।। कुतः? इत्यत आह– स्मरन् इति ।। ‘लटः शतृशानचौ’ इति लडादेशत्वेनापि शतुर्विधानमस्ति । स च ‘लट्’ इति वर्तमाने पुनः लड्ग्रहणसामर्थ्यात् क्वचित् प्रथमासामानाधिकरण्येऽपि भवति । लक्षणे विहितत्वाच्च लडादेशो बलीयान् । तत्र क्रियायाम् इत्युपपदसापेक्षत्वात् । अस्यानपेक्षत्वात् । ‘अप्रथमासमानाधि-करणे’ इत्यस्य अतिप्रसक्तिपरिहारमात्रार्थत्वात् । तथाच बलवतो ग्राह्यत्वे ‘स्मरंस्त्यजति’ इत्यस्य स्मरति च त्यजति चेत्यर्थः स्यात् । एवञ्च ‘अन्ते’ इत्यनुक्तेऽपि स्मरणत्यागयोरेक-कालीनत्वप्रतीतेः सुमतेर्नैव शङ्कावकाशः इति भावः ।।
भावबोधः
।। लक्षणेऽपि शतुर्विधानादिति ।। देहत्यागरूपक्रियायाः कर्तुः पुंसः स्मरणरूपलक्षणवत्त्वस्य भिन्नकालीनस्मरणयोगेनापि सम्भवादिति भावः । लडितीति । ‘वर्तमाने लड्’ इति पूर्वसूत्रादित्यर्थः । क्वचिदिति ।। तथा च स्मरन् पुरुषस्त्यजतीति प्रथमासामानाधि-करण्येऽपि न दोषः इति भावः । उक्तं च काशिकायाम् । लडिति वर्तमाने पुनस्तद्ग्रहणम् अधिक-विधानार्थम् । क्वचित् प्रथमासमानाधिकरणेऽपि भवतः । उदाहृतं च तत्रैव । सन् ब्राह्मणोऽधीयानो ब्राह्मण इति ।
केचित्तु ‘तन्वोर्विभाषा’ इत्यतो विभाषाग्रहणमनुवर्त्येममेवार्थमुपपादितवन्तः । अतिप्रसक्तीति । अवश्यं चैतदेवं लक्षणहेत्वोरपि लट एव शतृशानचोर्विधानादप्रथमासमानाधिकरण इत्यस्य सर्वथा पर्युदासत्वाङ्गीकारे जपन् वसतीत्यादौ प्रथमासामानाधिकरण्यसद्भावेन शतृशानचौ न स्याताम् । एवं च लट इति सूत्रविहितशतृशानच्स्थानिभूतलडन्तप्रकृतिप्रतिपादितक्रियायाः क्रियान्तरसमान-कालीनत्वनियमः । लक्षणहेत्वोरिति सूत्रविहितशतृशानच्स्थानिभूतलडन्तप्रकृतिप्रतिपादितक्रियायाः न क्रियान्तरसमानकालीनत्वनियमः भिन्नकालीनक्रियायाः लक्षणहेत्वहेतुत्वयोः सम्भवादित्युक्तं भवति ।
भावदीपः
।। लक्षण इति ।। तृतीयस्य द्वितीयपादे ‘लक्षणहेत्वोः क्रियायाः’ इति सूत्रम् । ‘लटः शतृ शानचावप्रथमासमानाधिकरणे’ इति पूर्वसूत्रात् लटः शतृशानचाविति लक्ष्यते विद्यते लक्ष्यते चिह्न्यते येन लक्षणं तल्लक्षणहेतुः । हेतुजनकलक्षणे हेतौ च वर्तमानाद्धातोः परस्य लटः शतृशानचौ भवतः । तौ चेत् लक्षणहेतुक्रियाविषये भवत इति तस्यार्थमुक्त्वा, ‘तिष्ठन्तोनु-शासति गणकाः, शयाना भुञ्जन्ते यवनाः’ इत्यादेः वृत्तौ उदाहृतत्वात् । यवनानां शयनभोजन-योरिव स्मरणत्यागयोरेककालतैव प्रतीयते । तथाऽपि स्मरणस्य लडादेशशत्रन्तशब्दोक्तत्वेऽपि कृद्योगत्यागे लक्षणे महादुःखान्तकालता न सम्भाविनीति शतृप्रत्ययस्य त्यक्तुः पुंसः स्मरणरूप-लक्षण एव तात्पर्यम्, नत्वेककालत्व इति भावो ध्येयः ।। अन्त इति ।। अन्तकालपदेनेत्यर्थः ।।
ननु तस्मिन् सूत्रे प्रथमान्तपदासमानाधिकरणेसति शतृशानचौ न भवत इत्युक्तेः, इह च ‘स्मरन् यः पुमान्’ इति प्रथमान्तयच्छब्देन सामानाधिकरण्यात् कथं तेन सूत्रेण शतृप्रत्यय इत्यतः अत्र वृत्तिकारोक्तमेवाह– स च इति ।। शतृप्रत्यय इत्यर्थः । ‘वर्तमाने लट्’ इति सूत्रात् लट् इति वर्तमान इत्यर्थः । लडादेश इति ।। लक्षणाद्यर्थहीनलडादेश इत्यर्थः । ननु सोऽपि अप्रथमान्तपद-सामानाधिकरण्यमपेक्षत एव । अतः कथं बलीयान्? इत्यत आह– अप्रथमेति ।। अतिप्रसङ्गेति ।। प्रथमासामानाधिकरण्ये सर्वत्र माभूदित्येतदर्थत्वादित्यर्थः ।।
वाक्यार्थप्रदीपः
लक्षणेति ।। लक्ष्यते अनेनेति लक्षणं चिह्नं जनको हेतुः । लक्षणे हेतौ च वर्तमानाद्धातोः परस्य शतृशानचौ भवतः । तौ चेल्लक्षणहेतूक्तिविषयौ भवतः इति सूत्रार्थः । तथा च लक्षणार्थकधातोः लडादेशत्वेन शतृविधानादित्यर्थः । न कश्चिद्विरोध इति ।। न चास्यापि लडादेशत्वेन वर्तमानार्थकत्वात् न भिन्नकालीनत्वशङ्कावकाश इति वाच्यम् । लक्षणादेः धात्वर्थतयोक्तार्थस्य क्रियालक्षणत्वं तद्धातोः लटः शतृविधानसामर्थ्यात् भिन्नकालीन-स्यापि लक्षणत्वे तदर्थकधातोरपि लटः शत्रादेश सम्भवादित्याशयादिति ध्येयम् । लडादेश-त्वेनापीति । लक्षणाद्यनर्थकात् यत्किञ्चिद्धातोः परस्य लिटः आदेशत्वेनापीत्यर्थः ।।
ननु नात्र लट इति सूत्रविहितलडादेशत्वनिश्चयः सुमतेः । तस्मिन् सूत्रे अप्रथमासमानाधि-करण इत्युक्तत्वात् । अत्र च स्मरंस्त्यजतीति प्रथमासामानाधिकरण्यसत्वात् इत्यत आह– सत्त्वेति ।। लडितीति ।। वर्तमाने लडिति पूर्वसूत्रादित्यर्थः । सामर्थ्यादिति ।। वैय्यर्थ्यान्यथानुपपत्त्या अधिकविधानार्थत्वलाभादित्यर्थः । उक्तं च काशिकायां लडिति वर्तमाने पुनः स्वग्रहणम् अधिक-विधानार्थं क्वचित् प्रथमासामानाधिकरण्येऽपि भवत इति । उदाहृतं चैतत् तत्रैव सन् आत्मनां अधीयानो ब्राह्मण इति । ननु सुमतेरपि न लडादेशत्वनिश्चयः तत्साधकादर्शनात् इत्यतः साधकविषये तदीयन्यायानुसन्धानप्रकारमाह– लक्षणे विहितत्वादिति ।। न च क्रियायाः इत्यस्याः षष्ठीत्वेन तत्रोपपदं सप्तमीस्थमित्युपपदलक्षणाभावात् उपपदत्वोक्तिरयुक्तेति वाच्यम् । उपपदस्या-त्यावश्यकत्ववत् लक्षणहेतुप्रतिलक्ष्यसाध्यसमर्पकतया अवश्यमपेक्षिततया अवश्यमपेक्षितत्वेन उपपदसाम्येन तथा व्यवहारोपपत्तेः । वस्तुतः क्रियायामित्येव मूलपाठः । एवञ्चोपपदत्वोक्तिः स्वरसैवेहेति द्रष्टव्यम् ।
ननु लडादेशत्वेऽपि अप्रथमासमानाधिकरण एव इत्यपर्युदासतया द्वितीयान्तस्यावश्यम-पेक्षितत्वात् उपपदसाम्यमेव । तथाह्ययमर्थः– प्रथमायाऽप्रथमाद्वितीयादिः । तत्प्रत्ययग्रहण-परिभावयति देतविधिः । अप्रथमान्तं द्वितीयाद्यन्त इत्यर्थः । समानं साधारणं अधिकरणमभिधेयं यस्य तत् समानाधिकरणम् । अप्रथमान्तेन समानाधिकरणम् अप्रथमासमानाधिकरणम् । तृतीयेति योगविभागात् समासः । त्रिपादो वा बहुव्रीहिः । अप्रथमान्तेन समानाधिकरणं यस्येति । ततो यस्य च भावेनेति सति सप्तमी । अप्रथमासमानाधिकरणे लटि सतीति । तथासति द्वितीयान्त-सामानाधिकरण्य एव शतृशानचौ भवत इति पर्यवसानेन सापेक्षत्वात् न लडादेशस्य निरपेक्षतया बलीयस्त्वनिश्चय इत्यत आह– अप्रथमेति ।। कुर्वतो अपत्यं , कुर्वतो भक्तिः कुर्वद्भक्तिः कुर्वालभक्तिरित्यादौ द्वितीयाद्यन्तेन पदेन सामानाधिकरण्याभावेऽपि प्रथमासमानाधिकरण्या-भावमात्रेण शतृशानचोः दृष्टत्ववत् न पर्युदासपक्षाश्रयणं युक्तम् । तथा च द्वितीयान्तपद-स्यापेक्षितत्वाभावेनोपपदसाम्याभावयुक्तो निरपेक्षितत्वेन लडादेशस्य बलीस्त्वनिश्चय इति भावः ।
भावरत्नकोशः
।। अव्यभिचारादिति । अन्त्यकालान्यकाले कलेवरत्यागस्या-सम्भवेन व्यभिचाराभावाद् व्यर्थं विशेषणम् । ‘सम्भवव्यभिचाराभ्यां स्याद्विशेषणमर्थवत्’ इति वचनादिति भावः । स्मरणस्यैव विशेषणम् । ‘लक्षणहेत्वोः क्रियायाम्’ इति लक्षणेऽपि शतुर्विधानादिति । लक्ष्यते चिन्ह्यते येन तत् लक्षणं जनको हेतुः, धात्वर्थविशेषणं चैतत् । लक्षणे हेतौ च वर्तमानाद्धातोः परस्य लटः शतृशानचावादेशौ भवतः, तौ चेत् लक्षणहेतू क्रियाविषयौ । ‘शयाना भुञ्जते यवनाः’, ‘तिष्ठन्तोऽनुशासति गणकाः’ । हेतुः फलं कारणं च इति पक्षे ‘अर्जयन् वसति’, ‘हरिं पश्यन् मुच्यते’ इति सूत्रार्थोदाहरणे वृत्त्यादावुक्तेः । अत्र चावस्थानस्यानु-शासनक्रियां प्रति लक्षणत्ववत्, कलेवरत्यागक्रियां प्रति स्मरणस्य लक्षकत्वविवक्षयैव शतृप्रत्ययः, न त्वेककालत्वाभिसन्धिनेति न शब्दकृतविरोध इति भावः । स्पष्टीकरिष्यति तदनुपदमेव ।
यद्यपि ‘लक्षणहेत्वोः क्रियायाः’ इति षष्ठ्यन्तमेव सूत्रं पठित्वा क्रियाया लक्षके परिचायके, हेतौ च वर्तमानाद्धातोः लटः शतृशानचावादेशौ स्त इति सूत्रार्थः शाब्दिकैरुक्तः । तथाऽपि ‘क्रियायाम्’ इत्यपि पाठम्, तस्य ‘क्रियायामुपपदे सति’ इत्यर्थं चाभ्युपेत्येदमुदितम्, इष्टं च । ‘तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्’ इत्यत्र ‘क्रियायाम्’ इत्यस्य ‘क्रियायामुपपदे’ इति व्याख्यातम् । अनुमतं चैतत् सूत्रकारवार्तिककारयोः । ‘सम्बोधने च’, ‘माङि आक्रोशे’ इत्युभय-त्रापि सप्तम्यन्तत्वदर्शनात्, अत्रापि ‘तौ चेत् क्रियाविषयौ’ इति वृत्तिकारवचनाच्च । अत एव ‘क्रियाया इति शेषलक्षणैव षष्ठी’ इति हरदत्तवचनमनादरणीयम् । अनेनैव ‘तस्य क्रियायामित्युप-पदसापेक्षत्वात्’ इति टीकाऽपि समर्थिता ज्ञातव्या । दृश्यते च सूत्रेऽपि पाठभेदः ‘तुन्दिवलिवटेर्भः’ इत्यत्र ‘तुण्डि’ इति पाठाभ्युपगमात् । ऋग्भाष्यटीकायाम् ‘सप्तनोऽण् छन्दसि’, ‘सप्तनोऽञ् छन्दसि’ इति सूत्रपाठद्वयाभ्युपगमाच्च । ऋग्भाष्यटीकायां तु ‘लक्षणहेत्वोः क्रियायाः’ इति षष्ठ्यन्तमेव सूत्रं पठितम् । भिन्नकालत्वेऽपीति । एतच्च ‘दुर्मतेर्दुःखान्न स्मरन्त्यजतीति भविष्यति शङ्का’ इत्युपरितनभाष्यव्याख्याऽवसरे आकार एव स्पष्टीभविष्यति । तेन विशेषणोपादानेन ।
नन्वनुपदमेव ‘स्मरन् पुरुषस्त्यजति इति भिन्नकालत्वेऽप्यविरोधः’ इति भाषितम् । तत्कथ-मत्रैककालत्वप्रतीतिः इति भाष्यत इत्यत आह– लटः शतृशानचावितीति । द्विविधो हि शताऽस्ति । लक्षणे विहितः, केवललडादेशत्वेन विहित इति । तत्र पूर्वभाषितः शता लक्षणे विहितः । अत्र भाष्यमाणस्तु लडादेशतया विहितः । तथा च न पूर्वोत्तरभाषणयोर्भिन्नकालत्व एककालत्वाभ्युपगमपरयोर्विसंवाद इति भावः । ननु तस्मिन् सूत्रे प्रथमान्तपदसामाधिकरण्ये सति शतृशनचौ न भवत इति प्रतिषेधात्, ‘स्मरन् पुरुषः’ इति च प्रथमान्तपदसामानाधिकरण्यात् कथं शतृप्रत्ययः ? इत्यत आह– स चेति । शत्रादेश इत्यर्थः । इति वर्तमान इति । ‘वर्तमाने लट्’ इति सूत्रादनुवृत्तस्य षष्ठ्यन्तत्वेन विपरिणामसम्भवे अत्र पुनः ‘लटः’ इति लड्ग्रहणस्य प्रयोजन-विशेषानिरूपणादिति भावः । प्रथमासामानाधिकरण्येऽपीति । तथा चोदाहरन् ‘सन् ब्राह्मणः’, ‘अस्ति ब्राह्मणः’, ‘विद्यमानो ब्राह्मणः’, विद्यते ब्राह्मणः’ इत्यादि ।
ननूभयोरपि प्राप्तौ कथं निर्णय इत्यत आह– लक्षण इति । लक्षणे वर्तमानाद्धातोः परस्य लट आदेशत्वेन विहितादित्यर्थः । लडादेशः ‘लटः शतृशानचौ’ इति विहितलडादेशः । तस्य लक्षणे विहितस्य शतुः । सापेक्षत्वात् । क्रियायामुपपदे सत्येव भवतीति, अन्यप्रतीतिसापेक्षप्रतीति-कत्वात् । अस्य लडादेशस्य । ननु कथमस्यानपेक्षत्वम् । तत्रापि ‘अप्रथमासामानाधिकरणे’ इत्यन्यसापेक्षप्रतीतिकत्वस्यावभासादित्यत आह– अप्रथमेति । अतिप्रसक्तीति । प्रथमा-सामानाधिकरण्येऽपि सर्वत्र शतृशानचौ भवतश्चेत् ‘पचति देवदत्तः’ इत्यादावपि प्रसक्तिरित्येवम् अतिप्रसक्तिपरिहारमात्रार्थत्वादित्यर्थः, न पुनरुपपदत्वोपस्थापनार्थत्वमपीति मात्रपदार्थः । एवं बलाबलचिन्तायाः फलमाह– तथा चेति । एककालीनत्वेति । ‘ ‘खः सर्वधुरात्’ इति सूत्रे ‘खः’ इति योगविभागः कर्तव्य इष्टसङ्ग्रहार्थः’ इति वृत्तिकारवचनाद् इहैककालशब्दादपि खप्रत्ययः । अत एव ‘दक्षिणधुरीणः’, ‘उत्तरधुरीणः’, ‘शातोदरीखरञ्चरीकलनाधुरीणः’ इत्यादिप्रयोगा उपपद्यन्ते । तथा च अवश्यकर्तव्यत्वेन योगविभागेनैव एककालादिशब्दादपि खप्रत्ययनिष्पादनसम्भवे ‘कालाट्ठञ्’ इति सूत्रे ‘समानकालीनम्’ इत्यादिप्रयोगा अपभ्रंशा एवेति प्रलपन्नाधुनिकः प्रत्यस्तः । तथा च शरणदेवः ‘चिरकालीनादयः ‘खः सर्वधुरात्’ इत्यत्र योगविभागेन’ इति ।।
भावदीपिका
।। तत्रापीति ।। ‘अन्ते’ इत्यस्य स्मरणविशेषणत्वपक्षेऽपीत्यर्थः । ‘स्मरन् पुरुषः’ इत्यादिकम् आदौ योज्यम् । यदाकदाचित् स्मरणवान् पुरुष इत्यर्थः । ननु ‘स्मरन् त्यजति’ इत्युक्तस्मरणकलेवरत्यागयोर्भिन्नकालीनत्वेऽपि ‘स्मरन्’, ‘त्यजति’ इत्यनयोः शब्दयोर्विरोध एव । ‘लटः शतृशानचौ’ इति वर्तमानार्थकलडादेशत्वेन शतुर्विधानात् । ‘स्मरन्’ इत्यस्य च ‘स्मृ चिन्तायाम्’ इत्यस्माल्लटि तस्य परस्मैपदिनि शत्रादेशे शकार-ऋवर्णयोर्लोपे, गुणे, तस्य रपरत्वे, ‘स्मरन् अत्’ इति जाते, ऋकारस्य इत्त्वेन शतृप्रत्ययस्य उगित्त्वाद् ‘उगिदचाम्’ इति सूत्रेण नुमागमे संयोगान्तनकारलोपे च सति निष्पन्नतया शत्रन्तत्वे वर्तमानार्थकत्वात् ‘त्यजति’ इत्युक्तत्यागसमानकालीनत्वप्राप्तेः भिन्नकालीनत्वप्रयुक्त-शब्दविरोधाभावशङ्का कथं स्यात् ? इत्यत उक्तम्– लक्षणहेत्वोः क्रियाया इति लक्षणेऽपि शतुर्विधानादिति ।।
अत्र ‘लटः शतृशानचौ’ इति सूत्रात् ‘शतृशानचौ’ इत्यनुवर्तते । क्रियायाः लक्षणहेत्वोः-क्रियाविषययोर्लक्षणहेत्वोरर्थवत्त्वेन विवक्षितयोः सतोः, धातोः शतृशानचौ प्रत्ययौ स्तः । ‘शयानाः भुञ्जते यवनाः’ । अत्र भोजनक्रियालक्षणत्वेन शयनस्य विवक्षितत्वात्, तस्मिन् लक्षणे विवक्षिते सति, ‘शीङ् स्वप्ने’ इति धातोः शानच्प्रत्यये ‘शयानाः’ इति भवति । तथा ‘अर्जयन् वसति’ । अत्र वासक्रियायाः द्रव्यार्जनस्य हेतुतया विवक्षितत्वात्, तस्मिन् हेतौ विवक्षिते सति ऋजधातोः शतृप्रत्यये ‘अर्जयन्’ इति भवति । ततश्चैवं लक्षणेऽपि शतृप्रत्ययस्य विहितत्वात्, तत्र च कालविशेषानुक्तेः, भिन्नकालीनत्वेऽपि शतुः सम्भवेन, प्रकृते च ‘त्यजति’ इत्युक्तदेहत्याग-रूपक्रियायाः कर्तुः पुंसः स्मरणरूपलक्षणवत्त्वस्य भिन्नकालीनस्मरणयोगेनापि सम्भवात् न कश्चिच्छब्दविर•ध इति भावः । किमनेन प्रयोजनमुक्तं भवति ? इत्यत आह– तेनेति ।। ‘अन्ते’ इति स्मरणविशेषणदानेनेत्यर्थः । एककालत्वेति ।। ‘अन्ते स्मरन्’ इत्यस्य ‘देहत्यागकाले स्मरन्’ इत्यर्थकत्वादिति भावः । कथमेककालीनत्वप्रतीतिः ? इत्यतस्तामुपपादयति– लट इति ।। ‘लट; शतृशानचौ अप्रथमासमानाधिकरणे’ वर्तमानार्थकस्य लटः परस्मैपदिन्यात्मनेपदिनि च क्रमात् शतृशानचावादेशौ स्तः प्रथमाविभक्त्यन्तसामानाधिकरण्याभावे सति सूत्रार्थः । ‘पचन्तं चैत्रं पश्य’, ‘पचमानं चैत्रं पश्य’ इत्याद्युदाहरणम् । अत्र द्वितीयाविभक्तिसामानाधिकरण्यसद्भावेना-प्रथमासमानाधिकरणत्वात् । लडादेशत्वेनापीति ।। वर्तमानार्थकलडादेशत्वेनापीत्यर्थः ।
नन्विदं विरुद्धम् । ‘लटः शतृशानचौ’ इति सूत्रेण ‘स्मरन्’ इत्यत्र लडादेशभूतशतृ-प्राप्त्यनुपपत्तेः । तत्र ‘अप्रथमासमानाधिकरणे’ इत्युक्तत्वाद् अत्र पुनः ‘स्मरन् पुरुषस्त्यजति’ इति प्रथमासामानाधिकरणस्यैव सद्भावादिति चेत्, तत्राह– सचेति ।। वर्तमानार्थकलडादेशत्वेन विहितः शतृप्रत्यय इत्यर्थः । वर्तमान इति ।। अनुवर्तमान इत्यर्थः । अयं भावः । ‘लटः शतृ’ इति सूत्रे ‘लटः’ इति न वक्तव्यम् । ‘वर्तमाने लट्’ इति पूर्वसूत्राद् विभक्तिविपरिणामेन ‘लटः’ इत्यनुवृत्तिसम्भवेन पुनर्लड्ग्रहणस्य व्यर्थत्वात् । तथा च ‘व्यर्थं सत् किञ्चिदिष्टं ज्ञापयति’ इति न्यायसामर्थ्यात् क्वचित् प्रथमासमानाधिकरणेऽपि लडादेशः शतृप्रत्ययः शानच्प्रत्ययश्च भवतीति ज्ञायते । ‘सन् ब्राह्मणः’ ‘अधीयनो ब्राह्मणः’ इत्यादिप्रयोगदर्शनात् । यथोक्तं काशिकायाम् ‘लट्’ इति वर्तमाने पुनर्लड्ग्रहणमधिकविधानार्थम् । तेन क्वचित् प्रथमासमानाधिकरणेऽपि शतृशा-नचौ भवतः । ‘सन् ब्राह्मणः’, ‘अधीयानो ब्राह्मणः’ इति दर्शनात् इति ।। तथा च ‘स्मरन् पुरुषस्त्यजति’ इति प्रथमासामानाधिकरण्येऽपि वर्तमानार्थलडादेशभूतशतृप्रत्ययसम्भवाद् ‘अन्ते’ इत्यनुक्तावपि ‘स्मरंस्त्यजति’ इत्यस्य ‘तदानीं स्मरणवान् देहं त्यजति’ इत्यर्थसम्भवेन स्मरणत्यागयोरेककालीनत्वप्रतीतेर्नैव सुमतेः शङ्कोत्पत्तिरिति ।
ननु लक्षणे विहितलडादेशमादायोक्तरीत्या स्मरणत्यागयोर्भिन्नकालीनत्वेऽपि न कश्चिच्छब्द-विरोध इति मन्दमतेः शङ्कानिरासाय ‘अन्ते’ इत्येतदपेक्षितम्, आहोस्वित् लडादेशत्वेनोक्तं शतृप्रत्ययमादाय एककालीनत्वं स्मरणत्यागयोरङ्गीकृत्य भिन्नकालीनत्वशङ्काया एवाभावेन ‘अन्ते’ इत्येतदपेक्षितं वेति सुमतेरपि सन्देह एव स्यात्, न निश्चय इत्यत आह– लक्षणे विहिताच्चेति ।। लक्षणेऽर्थे विहितात् शतृप्रत्ययादित्यर्थः । लक्षणे विहितः शतृप्रत्ययः शानच्प्रत्ययश्च स्वतन्त्र एव, न तु लडादेशभूतः । अत एव पूर्वं ‘लक्षणेऽपि शतुर्विधानात्’ इत्युक्त्वा, ‘लडादेशत्वेनापि’ इत्युक्तम् । लडादेशः ‘लटः’ इति सूत्रोक्तः शतृप्रत्ययः । कथं बलवत्त्वम् ? इत्यतः लक्षणे विहितस्य शतुर्दौर्बल्यमुपपादयति– तत्रेति ।। ‘लक्षणहेत्वोः’ इति सूत्रे । ‘लक्षणे विहितस्य शतृप्रत्ययस्य’ इति शेषः । यत् सापेक्षं तत् दुर्बलमिति भावः ।
ननु ‘क्रियायाः’ इति षष्ठ्यन्तस्य कथमुपपदत्वम्? ‘तत्रोपपदं सप्तमीस्थम्’ इति सप्तम्यन्त-स्यैवोपपदत्वोक्तेः, ‘कर्मण्यण्’ , ‘सुपि स्थः’ इत्यादौ तादृशस्यैवोपपदत्वदर्शनाच्च, इति चेदुच्यते । ‘तत्रोपपदम्’ इत्युक्तपारिभाषिकोपपदत्वस्य अत्रासम्भवेऽपि, ‘उपसमीपे विद्यमानं पदमुपपदम्’ इति योगेनोपपदत्वसम्भवात् । ‘शयाना भुञ्जते’, ‘अर्जयन् वसति’ इत्यादौ भोजनादिक्रियायाः समीपे सत्त्वात् । यद्वाऽस्तु सप्तम्यन्तस्यैवोपपदत्वनियमः । प्रकृते च ‘तौ चेत् लक्षणहेतू क्रियाविषयौ भवतः’ इति व्याख्यातत्वेन विषयत्वस्य सप्तम्यर्थत्वाद् उपपदत्वं षष्ठ्यन्त-स्यापि विभक्तिविपरिणामेनास्तीति सूत्रेऽभिप्रेतत्वेन न दोष इति द्रष्टव्यम् ।
अस्येति ।। ‘लटः शतृ’ इति सूत्रोक्तलडादेशभूतशतृप्रत्ययस्येत्यर्थः । अनपेक्षत्वादिति ।। उपपदसापेक्षत्वाभावादित्यर्थः । नन्वेतदयुक्तम् । अप्रथमासमानाधिकरणस्य ‘प्रथमासमानाधि-करणभिन्ने उपपदे’ इत्यर्थकत्वेन लडादेशशतुरपि उपपदसापेक्षतया दौर्बल्यमेव ? इत्याशङ्क्याह– अप्रथमेति ।। स्यादप्येषा शङ्का यद्यत्र ‘अप्रथमासमानाधिकरणे’ इत्यस्य पर्युदासत्वमभ्युप-गच्छामः । नचैवम् । किं नाम, प्रथमासमानाधिकरणेऽपि भवनरूपातिप्रसक्तिपरिहाराय ‘प्रथमा-समानधिकरणे लडादेशः शतृप्रत्ययः शानच्प्रत्ययश्च न भवति’ इति प्रसज्य प्रतिषेधार्थकत्वात् । नह्येवं व्याख्यानेऽस्योपपदत्वसम्भावनाऽप्यस्तीति’ ‘परिहार’ इत्युक्त्या प्रसज्य प्रतिषेधोऽयमिति सूचितम् । ‘मात्र’ इत्यनेन नोपपदत्वाभावः सूचित इति ध्येयम् । अत्र ‘प्रथमासमानाधिकरणे न भवति’ इत्येतदप्युत्सर्गरूपमेव । ‘सन् ब्राह्मणः’ इत्यादिप्रयोगदर्शनरूपापवादबलेन, पुनर्लडुक्त्या प्रथमासमानाधिकरणेऽपि लडादेशे शतृप्रत्ययभवनाङ्गीकारात् । ‘अतिप्रसक्तिमात्रपरिहारार्थत्वात्’ इति वचनं तु प्रथमासमानाधिकरणेऽपि भवनरूपातिप्रसक्तिः सर्वथा कुत्रापि नास्तीत्याशयेन नोक्तम्, किन्तु बाहुलिकाभिप्रायेणैवेत्याद्यालोचनीयं सूरिभिरित्युपरम्यते । बलवतः लडादेश-शतृप्रत्ययस्य ।
भावप्रकाशः
।। लक्षणहेत्वोरिति ।। यद्यपि क्रियायाः परिचायके हेतौ चार्थे वर्तमानाद्धातोः लटः शतृशानचौ स्त इति सूत्रार्थः शाब्दिकैरुक्तः । तथापि क्रियायमिति पाठं लक्षणे हेतौ चार्थे धातोः शतृशानचौ स्तः क्रियापदे सतीत्यर्थं चाभिप्रेत्यैवमुक्तम् । उपेयप्रति-पत्त्यर्था उपाया अव्यवस्थित इति न्यायात् । एवं च लक्षणेपि शतुर्विधानात् क्रियायामित्युपपद-सापेक्षत्वादुक्तमुपपन्नमिति बोध्यम् ।। लक्षणेपीति।। लडादेशं विना स्वातन्त्र्येणैव द्विषः अमित्र इतिवत् शतुर्विधानादित्यर्थः ।। ननु स्मरन् पुरुष इति प्रथमासामानाधिकरण्यात् कथं प्रकृते लटः शत्रादेशः ।। लटः शतृशानचावप्रथमासमानाधिकरण इति प्रथमासामानाधिकरण्ये तन्निषेधा-दित्यत आह– लडिति वर्तमान इति।। वर्तमाने लट् इति पूर्वसूत्रादिति शेषः ।। क्वचिदिति ।। सन् ब्राह्मण इत्यत्रेत्यर्थः ।। ननु लडादेशोपि सापेक्ष एव । अप्रथमासमानाधिकरण इत्युक्त-त्वादित्यत आह– अप्रथमेति।. अतिप्रसक्तीति ।। प्रथमासामानाधिकरण्यं यत्र तत्र शतृशानचौ न स्त इत्येवमर्थत्वादित्यर्थः ।।