अमी हि त्वां सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति । स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ।। २१ ।।

अमी हि त्वां सुरसङ्घा विशन्ति

केचिद्भीताः प्राञ्जलयो गृणन्ति ।

स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः

स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ।। २१ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु अमी इति ।। अमी आपरोक्ष्येण निर्दिष्टा मुक्ताः सुरसङ्घास्त्वां विशन्ति । किञ्च ‘त्वां विशन्ति’ इति स्वेच्छया भगवत्प्रवेश उच्यते । स च मुक्तग्रहण एव युक्तः । ‘प्रवेशो निर्गमश्चैव मुक्तानां स्वेच्छया भवेत्’ इति वचनात्, तेन ‘पश्यामि देवांस्तव देव देहे’ इत्यनेन न पौनरुक्त्यम् । तत्रामुक्तानामभिप्रेतत्वात् । प्राञ्जलयः कृतसम्पुटकरयुगलाः त्वां गृणन्ति स्तुवन्ति । ‘स्वस्ति अस्तु जगते’ इत्युक्त्वा महर्षीणां सिद्धानां च सङ्घाः पुष्कलाभिः सम्पूर्णार्थाभिः ।। २१ ।।