नाहं वेदैर्न तपसा न दानेन न चेज्यया । शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ।। ५३ ।।

नाहं वेदैर्न तपसा न दानेन न चेज्यया ।

शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ।। ५३ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु ‘सुदुर्दर्शत्वं न वेदयज्ञाध्ययनैः’ इत्युक्तम् । तद्विविच्यते– नाहमिति ।। मां यथा दृष्टवानसि तथाविधविश्वरूपवान् अहं वेदैः तपआदिभिश्च न द्रष्टुं शक्यः ।। ५३ ।।