न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् । जोषयेत् सर्वकर्माणि विद्वान् युक्तस्समाचरन् ।। २६ ।।

न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ।

जोषयेत् सर्वकर्माणि विद्वान् युक्तस्समाचरन् ।। २६ ।।

गीताक्षरार्थस्तु– सम्यग्ज्ञानायोग्यानां कर्मण्यभिनिवेशं जनयितुमपि ज्ञानिना कर्म कार्यमित्युच्यते न बुद्धिभेदमिति । अज्ञानां भगवत्स्वरूपज्ञानायोग्यानां अत एव कर्मण्या-सङ्गवतां बुद्धिभेदं बुद्धेः कर्तव्यमेव कर्म, भोक्तव्यं च तत्फलमिति निश्चयरूपायाः भेदः भेदनं चालनं तत् न जनयेत् । विद्वान् कर्माण्यकुर्वन् ज्ञानमात्रनिष्ठश्चेद् अज्ञानामपि ज्ञानमात्राश्रय प्रसङ्गः । ‘यद्यदाचरति’ (३.२१) इत्युक्तेः । तेषां तत्र प्रवेशनं शास्त्रनिषिद्धम् । ततो विद्वान् युक्तः भगवदर्पणादिरूपयोगसम्पन्नः सन् कर्माणि जोषयेत् सेवयेत् । अज्ञैः कर्माणि कारयेदिति

।। २६ ।।