बृहत्साम तथा साम्नां गायत्री छन्दसामहम् । मासानां मार्गशीर्षोऽहम् ऋतूनां कुसुमाकरः ।। ३५ ।।

बृहत्साम तथा साम्नां गायत्री छन्दसामहम् ।

मासानां मार्गशीर्षोऽहम् ऋतूनां कुसुमाकरः ।। ३५ ।।

भावरत्नकोशः

साम्नां रथन्तर, वैरूप, वैराज, शाक्वर, रैवतनामकानां मध्ये बृहत् नामकं सामाहम् । छन्दसाम् उष्टिग्, अनुष्टुप्, बृहत्यादीनां गायत्रीनामकं छन्दोऽहम् । मासानां चैत्रादिमासानां कुसुमाकरः वसन्तः ।। ३५ ।।