अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम् । नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप ।। १६ ।।
अनेकबाहूदरवक्त्रनेत्रं
पश्यामि त्वां सर्वतोऽनन्तरूपम् ।
नान्तं न मध्यं न पुनस्तवादिं
पश्यामि विश्वेश्वर विश्वरूप ।। १६ ।।
भाष्यम्
अनेकशब्दोऽनन्तवाची । ‘अनन्तबाहुम्’ इति च स्वयं वक्ष्यति । ‘सर्वतः पाणिपादं तत्’ इत्यादि च । ‘विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो बाहुरुत विश्वतस्पात् । सं बाहुभ्यां धमति सं पतत्रैर्द्यावाभूमी जनयन् देव एकः’ इति ऋग्वेदे । ‘विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो हस्त उत विश्वतस्पात् ।सं बाहुभ्यां नमति सं पतत्रैर्द्यावाभूमी जनयन्देव एकः’इति यजुर्वेदे च ।
भावप्रदीपिका
अनेकवक्त्रनयनम् इत्यत्र अनेकशब्दो न द्व्याद्यर्थ इति सप्रमाणकमाह– अनेकेति ।
प्रमेयदीपिका
‘अनेकबाहूदरवक्त्रनेत्रम्’ इत्यत्रानेकशब्दस्य द्व्यादौ पर्यवसानाद् विवक्षितमर्थमाह– अनेकेति ।। अनेन ‘अनेकवक्त्रनयनम्’ इत्यपि व्याख्यातम् । कुत एतत्? इत्यत आह– अनन्तेति ।। ‘सर्वतः’ इत्यस्यार्थः तात्पर्य-निर्णयेऽवगन्तव्यः । इत्यादि च वक्ष्यति । बाहुभ्यां प्रधानाभ्यां पतत्रैः पतत्रसदृशैरितर-बाहुभिः सं धमति अग्न्यादिभूतानि संयोजयतीति प्रत्येकमन्वयः । सं नमति इत्यस्याप्ययमेवार्थः ।।
भावबोधः
।। तात्पर्यनिर्णय इति ।।
‘सर्वतः पाणिपादादिर्यतः पाण्यादिशक्तिमान् ।
केशादिष्वपि सर्वत्र कृष्णकेशो हि यादवः ।
अणोरणुतरै रूपैः पाणिपादादिसंयुतैः ।
सर्वत्र संस्थितत्वाद्वा सर्वतः पाणिपादवान्’
इत्यत्रेत्यर्थः । ध्माऽग्निसंयोग इति धातुव्याख्यानमभिप्रेत्याह– अग्न्यादिभूतानीति ।। अनेन द्यावाभूमी जनयन् सन् तदर्थं त्रिवृत्करणं करोतीत्यर्थ उक्तो भवति ।। प्रत्येकमन्वय इति ।। बाहुभ्यां संधमति पतत्रैः संधमतीति प्रत्येकमित्यर्थः । अयमेवार्थ इति ।। धातूनामनेकार्थत्वात्समित्युपसर्गयोगाच्चेति भावः ।
भावदीपः
।। तात्पर्यनिर्णय इति ।।
‘सर्वतः पाणिपादादिः यतः पाण्यादिशक्तिमान् ।
केशादिष्वपि सर्वत्र कृष्णकेशो हि यादवः ।।
अणोरणुतरै रूपैः पाणिपादादिसंयुतैः ।
सर्वत्र संस्थितत्वाद्वा सर्वतः पाणिपादवान्’
इत्यनेन त्रयोदशोक्तादवगन्तव्य इत्यर्थः । ‘इत्यादि च’ इति भाष्ये ‘वक्ष्यति’ इत्यनु-षङ्गमाह– इत्यादि च वक्ष्यतीति ।। प्रत्येकमिति ।। ‘बाहुभ्यां संधमति’‘पतत्रैः संधमति’ इति प्रत्येकमित्यर्थः ।।
भावरत्नकोशः
।। एतत् अनन्तवाचित्वम् । सर्वतः पाणिपादत्वं प्रकृतानुपयुक्तं किमित्युच्यते ? इत्यत प्राह– सर्वत इत्यस्यार्थ इति ।। ‘सर्वतः पाणिपादादिर्यतः पाण्यादिशक्तिमान्् । केशादिष्वपि सर्वत्र कृष्णकेशो हि यादव ।। ’इति श्लोके केशादिसर्वावयवेषु पाणिपादादिशक्तिमत्त्वस्य कृष्णकेशावतारे कृष्णे दृष्टत्वात् ‘सर्वतः पाणिपादाद्यवयवं ब्रह्म’ इत्येकमर्थमुक्त्वा,
‘अणोरणुतरै रूपैः पाणिपादादिसंयुतैः ।
सर्वत्र संस्थितत्वाद्वा सर्वतः पाणिपादवान् ।।’
इति श्लोके पाणिपादादिसकलावयवयुक्तैः परमाणुरूपैः सर्वत्र स्थितत्वात् ‘सर्वपाणिपादादि-मद् ब्रह्म’ इत्यर्थान्तरमुक्तम् । तत्र द्वितीयेऽर्थे अणूनामपि रूपाणां पाणिपादादियुक्तानां सर्वत्रावस्थानोक्त्या अवयवानामप्यानन्त्यम् अर्थसिद्धमिति भगवतः पाणिपादाद्यनन्तावयवसद्भावे वचनमिदं प्रमाणीकृतमिति भावः । ‘सर्वतः पाणिपादम्’ इत्यादेः ‘अनन्तपाणिपादम्’ इत्यर्थः, ‘सर्वं समस्तं विश्वं च अनन्तं पूर्णमेव च’ इति वक्ष्यमाणाभिधानादवगन्तव्य’ इत्यनुक्तिस्तु, ‘विश्वतश्चक्षुः’ इत्येतत् समानन्यायेन शिष्यैरेवोहनीयत्वाभिप्रायेण ।
भाष्यपदमनूद्य अनुवर्तयितव्यं पदं दर्शयति– इत्यादि च वक्ष्यतीति ।। चशब्दः ‘वक्ष्यति’ इत्यस्य अनुकर्षणार्थ इति भावेनैवमुक्तमित्यपि आहुः । ‘प्रधानाभ्याम्’ इति शेषपूणम् । ‘परत्र पतत्रशब्दः प्रयुज्यमानः सादृश्यं गमयति’ इति भावेनोक्तम्– पतत्त्र-सदृशैरिति ।। पतत्त्रशब्देन च पक्षिपक्ष उच्यते । छन्दसि व्यवहितानामप्युपसर्गत्वादाह– सन्धमतीति ।। ‘ध्मा शब्दाग्निसंयोगयोः’ इति धातोराह– अग्न्यादिभूतानीति ।। द्यावा-भूम्यादिजननार्थम् अग्न्यादीनां त्रिवृद्भावमापादयतीति भावः । ‘छन्दसि परेऽपि’ इति ‘सम्’ इत्यस्य उपसर्गत्वे आवृत्त्यैव उपसर्गस्य क्रियावृत्तिर्भविष्यतीति भावेनोक्तम्– प्रत्येकमन्वय इति ।। ‘बाहुभ्यां सन्धमति’, ‘पतत्त्रैः सन्धमति’ इति प्रत्येकमुपसर्गाभ्यां क्रियापदान्वय इत्यर्थः । अयमेवार्थ इति ।। अग्न्यादिभूतानि संनतानि करोति एकीभावयतीत्यर्थः ।
भावदीपिका
।। द्व्यादौ द्वित्र्यादिसङ्ख्यायाम् । ननु ‘सर्वतः पाणिपादं तत्’ इत्यादौ अनन्तबाह्वाद्यप्रतिपादनात् कथमुदाहरणम् ? इत्यत आह– सर्वत इत्यस्येति ।।
सर्वतः पाणिपादादिर्यतः पाण्यादिशक्तिमान् ।
केशादिष्वपि सर्वत्र कृष्णकेशो हि यादवः ।
अणोरणुतरै रूपैः पाणिपादादिसंयुतैः ।
सर्वत्र संस्थितत्वाद्वा सर्वतः पाणिपादवान् ।।
इति तात्पर्यनिर्णयेऽवगन्तव्यः । इतरेति ।। अप्रधानेत्यर्थः । ‘ध्मा शब्दाग्निसंयोगयोः’ इति धातुव्याख्यानमभिप्रेत्याह– अग्न्यादीति ।। अनेन ‘द्यावाभूमी जनयन् सन् तदर्थं त्रिवृत्करणं करोति’ इत्यर्थ उक्तो भवति । प्रत्येकमिति ।। ‘बाहुभ्यां सन्धमति’, ‘पतत्त्रैः सन्धमति’ इति प्रत्येकमित्यर्थः । ‘सम्’ इत्युपसर्गद्वयसद्भावादिति भावः । अयमेवेति ।। ‘सन्धमति’ इत्यस्य योऽर्थ उक्त अयमेवार्थः । धातूनामनेकार्थत्वात्, ‘सम्’ इत्युपसर्गबलाच्च । उपसर्गाणां क्वचित् धात्वर्थबाधकत्वात् । ‘धात्वर्थं बाधते कश्चित्’ इति वचनादिति भावः ।
गीताक्षरार्थस्तु अनेकेति ।। अनेकानि अनन्तानि बाहवः उदराणि वक्त्राणि नेत्राणि यस्य तम् । दृष्टविश्वरूपानुवादत्वाद् अस्य ‘अनेकवक्त्रनयनम्’ इत्यनेन न पुनरुक्तिः । सर्वतः देशतोऽनन्तानि असङ्ख्यातानि रूपाणि यस्य तम् अनन्तरूपम् । हे विश्वरूप पूर्णरूप ते अन्तम् अवसानं न पश्यामि, न मध्यं पश्यामि, न पुनरादिं च पश्यामि, इति प्रत्येकं क्रियाऽ-न्वयाभिप्रायेण नञ् त्रिरुक्तः । आद्यन्तसापेक्षत्वात् मध्यस्य तदभावोक्त्यैव तदभावसिद्धावपि ‘नान्तं न पुनस्तवादिं पश्यामि’ इत्याद्यन्ताभावोक्तेरुपचरितत्वपरिहाराय ‘न मध्यम्’ इत्युक्तम्
।। १६ ।।
भावदीपिका
।। प्रथमार्थ इति ।। तथा च ‘विश्वमनन्तं चक्षुर्यस्यासौ विश्वतश्चक्षुः’ इत्यादिरर्थो द्रष्टव्यः । अन्यथा परममहत्परिमाणाभावे । तदयोगात् अनन्त-बाह्वादित्वायोगात् । तत् परममहत्परिमाणम् । अवच्छेदकेति ।। ‘मेरुहिमवदादिमहत्त्ववत् महत्त्वम्’ इति इयत्तारूपावच्छेदकस्य अत्राश्रवणेन अवान्तरमहत्त्वग्रहणासम्भवादित्यर्थः । तत्रेति ।। ‘अनादिमत्परम्’ इत्यादौ ‘सर्वमावृत्य तिष्ठति’ इति परममहत्त्वस्य, सर्वशब्द-स्यानन्तार्थत्वेन ‘सर्वतः पाणिपादं तत्’ इत्यनन्तावयवत्वस्य चोक्तेरित्यर्थः ।
भावप्रकाशः
।। तात्पर्यनिर्णय इति ।।
सर्वतः पाणिपादादिर्यतः पाण्यादिशक्तिमान् ।
केशादिष्वपि सर्वत्र कृष्णकेशो हि यादवः ।
अणोरणुतरेै रूपैः पाणिपादादिसंयुतैः ।
सर्वत्र संस्थितत्वाद्वा सर्वतः पाणिपादवानित्यत्रेत्यर्थः ।
ध्माशब्दाग्निसंयोगयोरित्युक्तेः धात्वर्थान्तर्गताग्निपदमुपलक्षकम् । अन्तर्भावितण्यर्थश्च धातुरिति भावेन व्याचष्टे– अग्न्यादीति ।। अनेन भूम्यादिजननार्थं त्रिवृत्करणं करोतीत्युक्तं भवति । समित्युपसर्गद्वयश्रवणात् तदनुरोधेनाह– प्रत्येकमिति ।। बाहुभ्यां सन्धमति पतत्रैः सन्धमतीति प्रत्येकमित्यर्थः । आवृत्त्यैवोपसर्गस्य क्रियावृत्तिर्भविष्यतीत्युक्तेरिति भावः । एवमेवार्थ इति ।। धातूनामनेकार्थत्वादिति भावः ।।