आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः । यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ।। ७ ।।

आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः ।

यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ।। ७ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु एवं श्रद्धाभेदः सात्त्विकादिजीवस्वरूपभेदज्ञापक इत्युक्तम् । इदानीम् आहारयज्ञतपोदानभेदोऽपि तद्भेदज्ञापक इत्युच्यते– आहार इत्यादिभिः श्लोकैः । तुशब्दश्चशब्दार्थः । सर्वस्यापि प्राणिसमूहस्य प्रियः इष्ट आहारः अन्नादिः त्रिविधः सात्त्विकादिभेदेन त्रिप्रकारः । तथा यज्ञो दानं तपः च त्रिविधमेव । तेषाम् आहारादीनां भेदं सात्त्विकादि इति भावः । इमं वक्ष्यमाणं शृणु ।। ७ ।।