काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः । क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ।। १२ ।।

काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ।

क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ।। १२ ।।

भाष्यम्

कुतो मम वर्त्मानुवर्तन्ते– क्षिप्रं हि ।। अत एव हि फलप्राप्तिः। ‘तस्मात्ते धनसनयः’ (छां.१.३.९) इति श्रुतिः ।। १२ ।।

भावप्रदीपिका

ननु सर्वकर्तृत्वाद्भोक्तृत्वाच्च ‘मम वर्त्मानुवर्तन्ते, इत्युक्तम् । तत्कुतो ज्ञायते ? इत्याशङ्कोत्तरत्वेनोत्तरश्लोकं व्याचष्टे– कुत इति । यतो भगवानेव भोक्ता, तत एव हि फलप्राप्तिः । नान्यथा सा स्यात् । अतः फलप्राप्तिदर्शनादहमेव भोक्तेति ज्ञायत इत्यर्थः । ननु राजादिभ्योऽपि सेवितेभ्यः फलं लभ्यते । अतः कथं भगवत एव फलदातृत्वमित्यत आह– तस्मादिति ।। १२ ।।

भावप्रकाशिका

नन्वस्तु सर्वदेवतानामवाच्यत्वं विष्णोः, तथाऽपि भागवत-कर्तृकेष्वेव यागेषु सर्वदेवतानामभिः भगवानीड्यः स्यात् । त्रैविद्यकर्तृकेष्विन्द्रादय एव किं न स्युः ? इति भावेनाशङ्क्य, तदुत्तरत्वेनोत्तरमवतार्य व्याचष्टे– कुत इति ।। नहि देवतादिवत् मनुष्यजनिश्चिरकालेन फलं साधयति । यदि कस्मिञ्चिद्यागे न गृह्णीयाद्धविर्भगवान् तर्हि तस्य फलं न स्यात् । न हि भगवद्भजनं विना फलमिति भावः ।।

ननु वीणागानादिवत् यागादितुष्टा इन्द्रादय एव फलदाः स्युः, किं तत्र भगवता ? इत्यत आह– तस्मादिति । वीणायामपि राजाद्यन्तःस्थितंं हरिमेव गायन्ति । अत एव ततो धनं लभन्ते, नान्यथा । तद्वत् इन्द्रादिनामभिरिष्टाद् भगवत एव यथायोग्यं फलं लभन्ते, त्रैविद्या भागवताश्चेति भावः ।। १२ ।।

प्रमेयदीपिका

साधकं तु प्रमाणं पृच्छति– कुत इति ।। ‘मम वर्त्मानुवर्तन्ते’ (४.११) इति यत् सर्वयज्ञादिभोक्तृत्वं भगवत उक्तं तत् कुतः प्रमाणाज्ज्ञायत इत्यर्थः । सर्वकर्तृत्वं तु जीवाना-मस्वातन्त्र्यदर्शनात् सिद्धम् । ‘इत्यत आह’ इति शेषः । हि इत्यतः परमितिशब्दश्च । किमनेन प्रमाणमुक्तमित्यत आह– अत एव हीति ।। कर्मजा सिद्धिः फलप्राप्तिस्तावत् क्षिप्रं प्रत्यक्षोपलभ्याऽस्ति । सा च अत एव कर्मणां भगवता भुक्तत्वादेव हि युज्यते । नान्यथे-त्यर्थः । इन्द्रादिभ्योऽपि फलप्राप्त्युपपत्तेरुपक्षीणाऽर्थापत्तिरित्यत आह– अत एव हीति ।। भगवत एव । अत्र ‘हि’ इति सूचितं प्रमाणमाह– तस्मादिति ।। धनसनयः धनलाभवन्तः ।।

भावदीपः

।। इति यदिति ।। इत्यनेन यत्सर्वयज्ञादिभोक्तृत्वमुक्तमित्यर्थः

।। १२ ।।

भावरत्नकोशः

इति अत्र वाक्ये यत् सर्वयज्ञादिभोक्तृत्वं ‘मम वर्त्म’ इत्य-नेनोक्तमित्यर्थः । भगवतः सर्वकर्मकर्तृत्वं सर्वयज्ञभोक्तृत्वं च मम वर्त्मेति विवक्षितम् । तत्र सर्वयज्ञभोक्तृत्वे प्रमाणप्रश्नवत् सर्वकर्मकर्तृत्वे कुतो न प्रमाणप्रश्न इत्यत आह– सर्वकर्तृत्वं चेति ।। ‘भगवतः’ इति शेषः । कुत इत्यनन्तरं शेषमाह– इत्यत इति ।। इतिशब्दश्च शेषः । ‘फलप्राप्तिः’ इति भाष्यं कस्यार्थ इत्यतः सिद्धिशब्दार्थ इति वक्तुमाह – कर्मजेति ।। ‘अत एव’ इत्यनूद्यार्थमाह– सा चात एवेति ।। नान्यथेति ।। तथा चार्थापत्तिः प्रमाणमिति भावः । उपक्षीणा अन्यथोपपन्ना । भगवत एव न त्विन्द्रादिभ्य इति पञ्चमी । अत्र भगवत एव फलप्राप्तिरित्यत्र । हीति सूचितं ‘क्षिप्रं हि’ इति गीतायां हिशब्देन सङ्क्षिप्योक्तम् । धनेति । धनस्य सनिर्येषामिति व्यधिकरणो बहुव्रीहिः । यद्वा ‘षण सम्भक्तौ’ इत्यस्य भावे रूपं ‘सनः’ इति । ततो मत्वर्थीय इकारस्तद्धितः । विचित्रा हि तद्धितगतिः धनशब्दश्च प्रत्यक्षोपलभ्यफलमात्रोपलक्षणार्थ इति भावः । तथा च प्राचीनटीका । ‘वन्दिगानादितुष्टाद् राजादेर्यथा वन्दी धनं लभते तथा यागादि-तुष्टादिन्द्रादेरेव यजमानः फलं लभताम्, किं भगवता इत्याशङ्क्याह-तस्मादिति । वीणायामपि राजाद्यन्तःस्थं हरिमेव गायन्ति । अत एव ततो धनं लभन्ते । नान्यथा । तद्वत् इन्द्रादि-नामभिरिष्टाद्भगवत एव फलं लभन्ते’ इति ।।

गीताक्षरार्थस्तु - तत्राप्यस्ति विशेष इत्युच्यते काङ्क्षन्त इति ।। अहमेव सर्वयज्ञानां भोक्ता च प्रेरकश्च । तदेतज्ज्ञात्वा भागवता निष्कामा मामेव यजन्ते । त्रैविद्यास्त्वेतत् तत्त्वतोऽजानानाः कर्मणां सिद्धिं फलप्राप्तिं काङ्क्षन्तः अपेक्षमाणाः अन्यदेवता यजन्ते । अन्ते भगवदर्पणं च कुर्वन्ति । एवं सेवायां विशेषसद्भावाद् युक्तं फलतारतम्यमिति ।

इदमत्र विवेक्तव्यम् । भागवतानां भगवद्वर्त्मानुवर्तनं सर्वकर्मकर्तृत्व-प्रेरकत्व-सर्वयज्ञभोक्तृत्वा-द्यनुसन्धानपूर्वकं कर्माद्यनुष्ठानं, त्रैविद्यानां तु नोक्तानुसन्धानेन यजनं, किन्तु फलाकाङ्क्षावशाद् अन्यदेवतायजनम् अन्ते भगवदर्पणमात्रम् । इदमेव तेषां भगवद्वर्त्मानुवर्तनम् । अतो भागवतानां मोक्षः, इतरेषां स्वर्गाद्येवेति । तथा चोत्तरप्रस्थाने अन्यदेवतायाजिनामप्यन्ते भगवत्समर्पणेन वैष्णवमार्गानुवर्तनेनैव सम्यक् फलं भवति ।

अन्यदेवतापूजाऽपि यस्मिन्नन्ते समर्पिता ।

 स्वर्गादिफलहेतुः स्यान्नान्यथा तं हरिं भजेत् ।।’ इति ।

ननु ‘मम वर्त्म’ इति भगवतः सर्वकर्मकर्तृत्वं सर्वयज्ञादिभोक्तृत्वं चोक्तम् । तत्र सर्वकर्मकर्तृत्वं जीवानामस्वातन्त्र्यदर्शनाद् भगवत एव सिद्धम् । सर्वयज्ञभोक्तृत्वं कुतः प्रमाणाज्ज्ञेयमित्यत उक्तम् – क्षिप्रं हीति ।। कर्मजा सिद्धिः कर्मजफलप्राप्तिस्तावत् क्षिप्रं प्रत्यक्षोपलभ्याऽस्ति । सा च कर्मणां भगवता भुक्तत्वादेव हि युज्यते, नान्यथा । इन्द्रादिभ्योऽपि प्राप्यमाणफलसिद्धिरन्ततो भगवद-धीनैवेत्यर्थापत्तिरुक्तेऽर्थे प्रमाणमिति ।। १२ ।।

भावदीपिका

ननु भगवतः सर्वकर्मकर्तृत्व-सर्वयज्ञभोक्तृत्वयोरुभयोः प्रकृतत्वात्, तत्र सर्वकर्तृत्वं भगवतः कुतः प्रमाणाज्ज्ञायत इत्यपृष्ट्वा, सर्वभोक्तृत्व एव प्रमाणप्रश्नः कुत? इत्यतो भगवतः सर्वकर्तृत्वं सिद्धमस्तीति तत्र न प्रमाणं पृच्छ्यत इत्याशयेन कथं तत्सिद्धमस्तीत्यत-स्तदुपपादयति– सर्वकर्तृत्वमिति ।। सिद्धं ‘भगवत’ इति शेषः ।। नान्यथेत्यर्थ इति ।। तथाच भगवतः सर्वयज्ञादिभोक्तृत्वे फलप्राप्त्यन्यथाऽनुपपत्तिरेव प्रमाणं ‘क्षिप्रं हि’ इत्यनेनोक्तमित्याशयः । अर्थापत्तेरन्यथाऽप्युपपत्तिमाशङ्कते– इन्द्रादिभ्योऽपीति ।। उपक्षीणेति ।। अर्थापत्तिफलं सर्वयज्ञभोक्तृत्वम् इन्द्रादावुपक्षीणमिति भावः । प्रमाणम् छन्दोगोपनिषदम् । तस्मादितीति ।। ‘तद्य इमे वीणायां गायन्ति एतं ते गायन्ति, तस्मात्ते धनसनयः’ इति श्रुतेरयमर्थः । ये इमे गायका वीणायां तद् राजादिकमुद्दिश्य गायन्ति ते एतं तदन्तर्गतं भगवन्तमुद्दिश्यैव गायन्ति । कुतः? यस्मात्ते धनसनयो धनलाभवन्तस्तावद्भवन्ति । ‘षण लाभे’ इति धातोः । ‘फलप्रदो वासुदेवोऽ-खिलस्य’ इति वचनात् । तथा च भगवतो यज्ञभोक्तृत्वाभावे भगवता फलप्राप्त्यनुपपत्तेरिति ।।१२।।

भावप्रकाशः

सर्वयज्ञादिभोक्तृत्ववत्सर्वकर्तृत्वे कुतो न प्रमाणप्रश्न इत्यत आह– सर्वकर्तृत्वं त्विति ।। उपक्षीणेति ।। अन्यथोपपन्नेत्यर्थः ।। १२ ।।