रजस्तमश्चाभिभूय सत्त्वं भवति भारत । रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ।। १० ।।

रजस्तमश्चाभिभूय सत्त्वं भवति भारत ।

रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ।। १० ।।

भावरत्नकोशः

गीताक्षरार्थस्तु– ननु त्रयाणां गुणानां समतया बन्धकत्वाद् कथं कदाचित् कस्यचिदेव गुणस्य कार्यं दृश्यते उत्कटत्वअनुत्कटत्वाभ्यां तत्तत्कार्योपलम्भ-अनुपलम्भाविति भावेनोच्यते– रज इति ।। अभिभूय उपमृद्य सत्त्वं भवति उत्कटम् इति शेषः । तदा सुखलक्षणं ज्ञानलक्षणं च कार्यं दृश्यते । यदा रजः गुणः सत्त्वतमसी अभिभूय उल्बणं भवति, तदा कर्मसङ्गलक्षणं कार्यम् । तमः तु यदा सत्त्वरजसी अभिभूय तथा स्वयं प्रकटं भवति, तदा प्रमादादिकार्यं दृश्यत इति युक्तं कादाचित्कत्वं कार्यदर्शनस्येति ।। १० ।।