सह यज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः । अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ।। १० ।।

सह यज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ।

अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ।। १० ।।

गीताक्षरार्थः– ‘सहयज्ञाः’ इत्यादिचतुःश्लोक्यक्षरार्थस्तु— यज्ञैः सह वर्तन्त इति सहयज्ञाः । यज्ञसाहित्यं च प्रजानां ब्राह्मणक्षत्रियवैश्यानां ‘स एष यज्ञः पञ्चविधोऽग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यानि पशुः सोमः’ इत्यादिश्रुतिप्राप्ताग्निहोत्राद्यनुष्ठातृत्वमेव । इष्टकामान् प्रसविष्यध्वम् । प्रपूर्वात् ‘षूङ् = प्राणिगर्भविमोचने’ इत्यतो ऌटि स्यप्रत्यये, ध्वमिडागमयोः, ‘टित आत्मने-पदानाम्’ इति प्राप्तैत्त्वस्य छान्दसत्त्वेनाभावे च, रूपम् । सम्पादयिष्यथेत्यर्थः । लोट्यपि स्यप्रत्ययेत्यस्य व्यत्ययो वा । ‘इष्टकामधुक्’ इत्यत्र काम्यन्त इति कामा भोगाः ।। १० ।।