शरीरवाङ्मनोभिर्यत् कर्म प्रारभते नरः । न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ।। १५ ।।

शरीरवाङ्मनोभिर्यत् कर्म प्रारभते नरः ।

न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ।। १५ ।।

भाष्यम्

अधिष्ठानं देहादि । कर्ता विष्णुः; ‘स हि सर्वकर्ता’ इत्युक्तम् । जीवस्य चाकर्तृत्वे प्रमाणमुक्तम् । करणम् इन्द्रियादि च । चेष्टाः क्रियाः । हस्तादिक्रियाभिः होमादिकर्माणि जायन्ते ।।

भावप्रदीपिका

अधिष्ठानपदं व्याचष्टे– अधिष्ठानमिति । आदिपदाद् भूम्यादि कर्तृपदेन जीव इति शङ्कानिरासायाह– कर्तेति । कुतो विष्णुपरतेत्यत आह– स हीति । ईश्वरस्यास्तु कर्तृत्वम्, जीवोऽत्र विवक्षित इत्यत आह– जीवस्येति । करणपदं व्याचष्टे– करणमिति । आदिपदेन स्रुगादि । चेष्टापदेन प्राणापानादि-वायुचेष्टेति असदित्याह – चेष्टा इति । ननु चेष्टाया एव पञ्चकारणान्युच्यन्ते, अतः कथं चेष्टा कारणम् इत्यत आह– हस्तादीति ।

प्रमेयदीपिका

अधिष्ठानादि करण एवान्तर्भूतमिति वक्ष्यति । तत्प्रबोधनायाधिष्ठानं निर्दिशति–अधिष्ठानमिति ।। आदिपदेन भूम्यादि । ‘कर्ता जीवः’ इति व्याख्यानमसदिति भावेनाऽह– कर्तेति ।। शरीरवाङ्मनोभिः क्रियमाणानां कर्मणां कर्ता कथं विष्णुः? इत्यत आह– स हीति ।। उक्तम् उपपादितम् । तथाऽपि जीवोऽत्र कर्ता किं न स्यात्? इत्यत आह– जीवस्य चेति।। अपराधीनत्वाभि (कर्तृत्वाभि) प्रायेणेदं निराकरणम् । पराधीनं कर्तृत्वमङ्गीकृत्यान्यत्र जीवो व्याख्यात इत्यविरोधः ।।

भावसाधनताप्रतीतिनिरासार्थमाह– करणमिति ।। आदिपदेन स्रुवादि । भाव-साधनार्थस्य साध्यत्वात् । चेष्टाग्रहणेन च गृहीतत्वाच्च । ‘वायवीयाः प्राणापानाद्याः चेष्टा’ इत्यसत् । द्रव्याभिधाने चेष्टात्वानुपपत्तेः । प्राणनाद्यभिधाने साध्यत्वात् कारकत्वानुपपत्तेरित्याशयवानाऽह– चेष्टा इति ।। क्रियाणां साधकत्वात् कथं कारकत्वम्? इत्यत आह–हस्तादीति ।। सावान्तरव्यापारं हि करणं कारकमुच्यते । तत्राधिष्ठानादिपदैर्व्यापारिणो निर्दिश्यन्ते । क्रियाशब्देन त्ववान्तरा व्यापाराः । कारकाश्रिताभिरवान्तरक्रियाभिः प्रधानक्रियाजननं च प्रसिद्धमेवेत्यर्थः ।।

भावबोधः

।। तत्प्रबोधनायेति ।। अन्तर्भावप्रबोधनाय तद्योग्यमधिष्ठानं निर्दिशतीत्यर्थः । ननु तात्पर्ये ‘त्रिविधः कर्मसङ्ग्रहः’ इति गीतावाक्यव्याख्यानावसरे दैवशब्दो-क्तेश्वरस्य मुख्यकर्तृत्वात् स्वतन्त्रास्वतन्त्रकर्त्रोः कर्तृशब्देनैवोक्तेस्त्रैविध्यमित्युक्तम् । तेन ‘अधिष्ठानं तथा कर्ता’ इति पूर्ववाक्ये दैवशब्देनेश्वरः, कर्तृशब्देन जीव उक्त इति ज्ञायते । तथा च जीवस्याकर्तृत्वे प्रमाणमुक्तमिति जीवस्य कर्तृशब्दार्थत्वनिराकरणेन तद्विरोधः स्यादित्यतोऽभिप्रायमाह– अपराधीनत्वाभिप्रायेणेति ।।

ननु करणशब्दस्य भावसाधनत्वे होमादिक्रिया वा तदर्थम् उत हस्तादिक्रिया वेति विकल्पं मनसि निधाय नाद्य इत्याह– भावसाधनार्थस्येति ।। न द्वितीय इत्याह– चेष्ठाग्रहणेनेति ।। द्रव्याभिधान इति ।। प्राणादिरूपद्रव्यग्रहणे इत्यर्थः । कारकत्वानुपपत्तेरिति ।। हस्तादीन्द्रियाणां करणत्वेन तत्क्रियाणामवान्तरव्यापारत्वेन कारकत्वेऽपि प्राणादीनां कारणत्वा-भावात् प्राणनादिक्रियाणामवान्तरव्यापारत्वेनापि कारकत्वानुपपत्तेरिति भावः ।

भावदीपः

।। तत्प्र(तद्बो)बोधनायेति ।। अन्तर्भावबोधनायेत्यर्थः ।। उक्तमुपपादितमिति ।। सर्वकर्तृत्वोक्त्या ‘वा हि’ इति प्रमाणप्रसिद्ध्युक्त्या वा सर्वान्तःपाति-कर्मकर्तृत्वं कैमुत्यसिद्धमिति भावेनोपपादितमित्यर्थः ।। जीवस्य चेतीति ।। ‘जीवस्याकर्तृत्वे प्रमाणमुक्तम्’ इति भाष्ये नहि प्रतिबिम्बस्य क्रिया इत्यादिना द्वितीये ‘यत्र यत्रैव संयुक्तः’ इत्यादिना पञ्चदशे चोक्तमित्यर्थः ।। अन्यत्रेति ।। ‘स्वतन्त्रास्वतन्त्रकर्त्रोः कर्तृशब्देनोक्तश्च’ इति तात्पर्य इत्यर्थः । ‘कर्ता शास्त्रार्थवत्वात्’ इति सूत्रभाष्ये चेत्यर्थः ।। भावेति ।। करणं निर्माणप्रतीतीत्यर्थः ।। साध्यत्वादिति ।। निष्पाद्यमानस्य अवश्यपूर्ववर्तित्वरूपकारणात्वानु-पपत्तेरिति भावः । हस्तादिक्रियार्थत्वे दोषमाह चेष्टेति ।। द्रव्येति ।। वायुविकारप्राणादि-द्रव्येत्यर्थः ।।

।। अधिष्ठानादीनामिति ।। देहेन्द्रियादृष्टकर्तृहस्तादिक्रियाणामित्यर्थः ।। कर्मादीनां कर्म-कारकादीनामित्यर्थः । भूम्यां तिष्ठति, चैत्रश्चलति इत्यादावभावादिति भावः ।। वक्ष्यतीति ।। सर्वक्रियानुरूपगतिमधिष्ठानादेरिति योज्यम् ।।

वाक्यार्थप्रदीपः

।। भावसाधनतेति ।। क्रियाकारणमिति भाव-साधनस्य करणशब्दस्य क्रियार्थताप्रतीतिनिरासायेत्यर्थः । भावव्युत्पत्त्या करणशब्दक्रिया-वत्वार्थत्वस्य सम्भवे किमथ•न्तरकल्पनया इत्यतो भावसाधनत्वं वदता किं होमादि-क्रियार्थत्वमभिमतम् उत हस्तादिकक्रियार्थत्वमिति विकल्प्य आद्यं दूषयति– भाव-साधनार्थस्येति । द्वितीयं दूषयति– चेष्टाग्रहणेनेति ।।

भावरत्नकोशः

।। तत्प्रबोधनाय अन्तर्भावप्रबोधनाय। भूम्यादि ‘ग्राह्यम्’ इति शेषः । इति व्याख्यानमिति ।। ‘कर्ता उपाधिलक्षणो भोक्ता जीवः’ इति शङ्कर-व्याख्यानमित्यर्थः । कथं विष्णुरिति ।। जीवकर्तृत्वस्यानुभूयमानत्वादिति भावः । उपपादितम् उपपत्तियुक्ततया प्रतिपादितम्, द्वितीयादौ तत्र तत्र । ननु ‘स्वतन्त्रास्वतन्त्रकर्त्रोः कर्तृशब्दे-नैवोक्तेः’ इति जीवस्यास्वातन्त्र्यकर्तृशब्दार्थेन तात्पर्यनिर्णये व्याख्यातत्वाद् अत्र ‘कर्ता विष्णुः’, ‘जीवस्याकर्तृत्वे प्रमाणमुक्तम्’ इति कथम् । परस्परविरोधात् इत्यतस्तात्पर्यनिर्णयवाक्य-भावमाह– अपराधीनकर्तृत्वाभिप्रायेणेति ।। इदं भाष्यस्थम् । अन्यत्र तात्पर्यनिर्णये । भावसाधनतेति ।। भावः धात्वर्थः निर्माणम्, ससाधनम् शब्दनिष्पत्तौ निमित्तं यस्य स भावसाधनः करणशब्दः, तत्ताप्रतीतिः निर्माणप्रतिपादकत्वप्रतीतिः, तन्निरासार्थमित्यर्थः । ‘स्रुवादि’ इत्यादिपदेन स्वधित्यादि, ‘ग्राह्यम्’ इति शेषः ।

करणशब्दो भावसाधनः किं न स्यात् इति चेत्, तदत्र वक्तव्यम् किं भावशब्देन होमादिक्रिया विवक्षिता, हस्तादिक्रिया वा इति विकल्पं मनसि निधाय, आद्ये दोषमाह– भावसाधनार्थस्येति ।। धात्वर्थप्रतिपादको यः शब्दः तदर्थस्येत्यर्थः । साध्यत्वादिति ।। कृञ्धात्वर्थतया विवक्षितहोमादिक्रियायाः साध्यत्वेन निष्पाद्यत्वेन ‘पञ्चैतानि महाबाहो कारणानि निबोध मे’ इति कारणशब्दार्थपूर्वभावित्वानुपपत्तेरिति भावः । अन्ते दोषमाह– चेष्टाग्रहणेनेति ।। तथा च भावसाधनताप्रतीतिः अनुचितेति भावः । ‘वायवीयाः’ इत्यादि शङ्करभाष्याक्षरानुवादः । वायवीयाः वायुविकाराः । प्राणादिशब्देन प्राणापानादिद्रव्यं विवक्षितम् उत प्राणादिनिष्ठक्रिया प्राणनादिरूपा विवक्षिता इति विकल्पं हृदि निधाय, आद्ये दोषमाह– द्रव्याभिधान इति ।। द्वितीय आह– प्राणनादीति ।। साध्यत्वात् प्राणनादीनां पश्चाद्भावि-त्वात्, ‘कारणानि निबोध’ इत्युक्तकारणशब्दितपूर्वभावित्वानुपपत्तेरित्यर्थः । क्रियाणां चेष्टा-शब्दार्थानां साध्यत्वात् ‘कारणानि’ इत्युक्तकारकत्वं कथमित्यर्थः ।

नन्वेवं करणव्यापारसङ्ग्रहेऽपि नाधिष्ठानादिक्रियासङ्ग्रहः । सति चैवं क्रियां प्रति करणमात्र-सङ्ग्रहोक्तिर्न स्यात् इत्यत आह– सावान्तरेति ।। अधिष्ठानादिपदैः अधिष्ठानकर्तृकरणादिपदैः क्रियाशब्देन ‘चेष्टाः क्रियाः’ इत्यत्रत्यक्रियाशब्देन कारकाश्रिताभिः दण्डादिकारकाश्रिताभिः अवान्तरक्रियाभिः चक्रभ्रमिप्रभृतिभिः प्रधानक्रियाजननं घटनिर्माणलक्षणं क्रियानिष्पादनम् ।

भावदीपिका

।। तत्प्रबोधनायेति ।। अधिष्ठानस्य करणेऽन्तर्भावस्य सुज्ञानाय अन्तर्भावयोग्यमधिष्ठानं निर्दिशतीत्यर्थः । ननु तात्पर्ये ‘त्रिविधः कर्मसङ्ग्रहः’ इति गीतावाक्यव्याख्यानावसरे ‘दैवशब्दोक्तेश्वरस्य मुख्यकर्तृत्वात् स्वतन्त्रास्वतन्त्रकर्त्रोः कर्तृशब्दे-नैवोक्तेस्त्रैविध्यम्’ इत्युक्तम् । तेन च ‘अधिष्ठानं तथा कर्ता’ इति पूर्ववाक्ये दैवशब्देनेश्वरः, कर्तृशब्देन जीव उक्त इति ज्ञायते । तथा च जीवस्याकर्तृत्वे प्रमाणमुक्तमिति जीवस्य कर्तृशब्दार्थत्वनिराकरणे तद्विरोधः स्यात् इत्यतोऽभिप्रायमाह– अपराधीनत्वाभिप्रायेणेति ।। भावसाधनतेति ।। भावः धात्वर्थः क्रियारूपः, तत्प्रतिपादकतेत्यर्थः । स्रुवादीति ।। ‘स्रुवेण जुहोति’ इत्यादेस्तेषामपि करणत्वावगमादिति भावः । करणशब्दस्य भावसाधनत्वे होमादिक्रिया तदर्थ उत हस्तादिक्रिया । नाद्य इत्याह– भावसाधनार्थस्येति ।। भावप्रतिपादकशब्दार्थ-स्येत्यर्थः । कृञ्धात्वर्थभूतहोमादिक्रियायाः साध्यतयाऽभिप्रेतत्वेन तत्कारणमध्ये परिगणनमयुक्त-मिति भावः । न द्वितीय इत्याह– चेष्टेति ।। तथा च पुनरुक्तिरिति भावः । पुनरुक्ति-र्नास्तीत्याशङ्कते – वायवीया इति ।। द्रव्येति ।। प्राणादिरूपद्रव्यग्रहण इत्यर्थः । कार-कत्वेति ।। क्रियाजनकत्वेत्यर्थः । हस्तादीन्द्रियाणां करणत्वेन तत्क्रियाणाम् अवान्तर-व्यापारत्वेन कारकत्ववत्, प्राणादीनां करणत्वाभावात् प्राणनादिक्रियाणाम् अवान्तरव्यापर-त्वेनापि क्रियाजनकत्वाभावेन कारकत्वानुपपत्तेरिति भावः । कारकत्वं क्रियाजनकत्वम् । आत्माश्रयादिति भावः । ननु क्रियाणां कथमवान्तरव्यापारत्वम् । तज्जनकत्वाभावात् इत्यत आह– कारकाश्रिताभिरित्यादिना ।।

भावप्रकाशः

शरीरवाङ्मनोजन्यकर्ममात्राधिष्ठानस्य प्रकृतत्वादाह– भूम्या-दीति ।। आदिपदात् होमाद्यधिकरणाग्न्यादिसङ्ग्रहः । ननु द्वितीयाध्याये‘ न हि प्रतिबिम्बस्य क्रिया’ इत्यादिना जीवस्वातन्त्र्यनिषेधेन अर्थादीश्वरस्य कर्तृत्वं प्राप्तम् । न चार्थिकस्योक्तत्वम् । यः स्वार्थादर्थो न स चोदनार्थ इत्युक्तेरित्यत आह– उपपादितमिति ।। नन्वेवं सति स्वतन्त्रास्वतन्त्रकर्त्रोः कर्तृशब्देनोक्तेरिति तात्पर्यनिर्णयविरोध इत्यत आह– साध्यत्वादिति ।। अन्त्ये ।। चेष्टाग्रहणेनेति ।। किं प्राणादिशब्देन प्रसिद्धिबलात् प्राणादिद्रव्यमुच्यते । उत व्याख्येयचेष्टाशब्दबलात् प्राणादिनिष्ठक्रियेति विकल्प्याद्ये आह– द्रव्येति ।। अन्त्ये आह– प्राणनादीति ।। कारकत्वेति ।। प्राणादीनामकरणत्वेन तत्क्रियाणां हस्तादिक्रियावद् व्यापारत्वेनापि कारकत्वायोगादित्यर्थः । नन्वेवं करणव्यापारसङ्ग्रहेऽपि नाधिष्ठानादिक्रियासङ्ग्रहः । तथा च नेयं क्रिया प्रतिकारणमात्रोक्तिः स्यादित्यत आह– सावान्तरेति ।

Load More