अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव । मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि ।। १० ।।

अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव ।

मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि ।। १० ।।

भावरत्नकोशः

गीताक्षरार्थस्तु– अभ्यासे शास्त्रश्रवणमननावृत्तौ अप्य-समर्थोऽसि चेत् मत्कर्मपरमः मत्पूजात्मकानि कर्माणि परमाणि उत्तमानि यस्य सः भव । मत्प्रीत्युद्देश्यककर्मानुष्ठानतत्परो भव । ततः किं सिद्ध्येत् इत्यत उच्यते– मदर्थमिति ।। कर्माणि कुर्वन्नपि सिद्धिम् ‘कर्मणा ज्ञानमातनोति’, ‘ज्ञानेनामृतीभवति’ इति शास्त्रात् ज्ञानं मोक्षं वा ।। १० ।।