तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः । कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ।। ४६ ।।

तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः ।

कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन  ।। ४६ ।।

भावरत्नकोशः

योगः स्तूयते– तपस्विभ्य इति ।। कृच्छ्रादिचारिभ्यः, ज्ञानिभ्यः योगज्ञानिभ्योऽपि, कर्मिभ्यः यज्ञादिकारिभ्योऽपि योगी ध्यानमनुतिष्ठन् अधिकः उत्तमः । तस्मात् एवं योगस्य तपआदिभ्य उत्तमत्वात् ।। ४६ ।।