समः शत्रौ च मित्रे च तथा मानापमानयोः । शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ।। १८ ।।

समः शत्रौ च मित्रे च तथा मानापमानयोः ।

शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ।। १८ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु– समः प्रियाप्रियलाभे उत्सेकानुत्सेकहीनः, सङ्गवर्जितः फलस्नेहरहितः ।। १८ ।।