सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ । अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ।। ३६ ।।

सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ ।

अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति  ।। ३६ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु- प्रतिज्ञार्थकं गुणतः सुखस्य त्रैविध्यमुच्यते– सुखमित्यादिना ।। हे भरतर्षभ मे मम सकाशात् शृणु । यत्र यस्मिन् अभ्यासात् चिरकाले परिचयात् रमते निरतिशयां रतिं प्रतिपद्यते, यस्मिन् रममाणश्च दुःखस्य अन्तं नाशं निगच्छति नितरां गच्छति ।। ३६ ।।