सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत । ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ।। ९ ।।

सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत ।

ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ।। ९ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु  यदुक्तं सत्त्वस्य सुखसङ्गेन, रजसः कर्म-सङ्गेन, तमसः प्रमादादिसङ्गेन बन्धकत्वम् तदेव ‘सत्त्वम्’ इत्यादित्रिश्लोक्या उक्तं दृढीक्रियते– सत्त्वं सुख इति ।। सत्त्वं सत्त्वगुणः सुखे सुखविषये सञ्जयति ‘षञ्ज सङ्गे’ सङ्गवन्तं करोति । रजः रजोगुणः कर्मणि सञ्जयति स्वर्गादिसाधनकर्मसङ्गवन्तं करोति । तमस्तु ज्ञानमनसस्तत्त्व-ज्ञानजननशक्तिम् आवृत्य प्रतिबध्य प्रमादे अधर्मे धर्मबुद्ध्यादिरूपेण बध्यते । उतशब्दोऽपेरर्थे निपातः । आलस्यादावपि सञ्जयति ।। ९ ।।