समं कायशिरोग्रीवं धारयन्नचलं स्थिरः । सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ।। १३ ।।

समं कायशिरोग्रीवं धारयन्नचलं स्थिरः ।

सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ।। १३ ।।

भावरत्नकोशः

कायो मध्यदेहश्च शिरश्च ग्रीवा च प्राण्यङ्गद्वन्द्वत्वात् एक-वद्भावः । समम् अचलं समत्वेनाचलत्वेन च धारयन् स्थिरः अवहितप्रयत्नो भूत्वा स्वं स्वक•यं नासिकाग्रं सम्प्रेक्ष्य दिशोऽनवलोकयंश्च ।। १३ ।।