वेदाहं समतीतानि वर्तमानानि चार्जुन । भविष्याणि च भूतानि मां तु वेद न कश्चन ।। २६ ।।
वेदाहं समतीतानि वर्तमानानि चार्जुन ।
भविष्याणि च भूतानि मां तु वेद न कश्चन ।। २६ ।।
भाष्यम्
न च मां माया बध्नातीत्याह– वेदेति ।। न कश्चन अतिसमर्थोऽपि स्वसामर्थ्यात्
।। २६ ।।
भावप्रदीपिका
ननु यदि मायावरणेन त्वां न जानन्ति, तर्हि तवाप्यज्ञानं स्यात्, यवनिकोभयभागगतवत् इत्याशङ्कोत्तरत्वेनोत्तरश्लोकमवतारयति– न चेति । ननु भगवज्ज्ञानाभावे मोक्षाभावापत्तेः कथमुच्यते ‘मां तु वेद न कश्चन’ इति ? इत्यत आह– न कश्चनेति ।। २६ ।।
भावप्रकाशिका
ननु यदीशस्य स्वमायासमावृतत्वान्न तमन्ये पश्यन्ति, तर्हि तेनैव हेतुना सोऽप्यन्यान् न पश्यत्वित्याशङ्क्य, तां परिहर्तुमत्तरं पादोनं श्लोकमवतारयति– न चेति । न च भगवानिवान्यः कश्चिदतिसमर्थोऽप्यबद्धोऽस्तीत्यभिप्रायेणान्त्यपदं व्याचष्टे– नेति ।। २६ ।।
प्रमेयदीपिका
अकस्मात् स्वस्य सार्वज्ञं किमित्युच्यते? इत्यत आह– नेति ।। ‘यवनिकाद्युभयभागवर्तिनोः परस्पराज्ञानवत्तवापि भूतविषये ज्ञानं न स्यादिति शङ्का-निरासार्थम्’ इति शेषः । तथाऽपि ‘मां तु वेद न कश्चन’ इति पुनरुक्तमित्यत आह– न कश्चनेति ।। असमर्थो लोको न जानातु । अतिसमर्थस्तु ब्रह्मादिर्ज्ञास्यतीति शङ्का-निरासार्थमेतदुक्तम् । ‘कश्चन’ इति विशेषणादिति भावः । तर्हि ‘ज्ञानी च भरतर्षभ’ (७१६) इत्यादिविरोध इत्यत उक्तम्– स्वेति ।। २६ ।।
भावबोधः
।। यवनिकेति । जीवं प्रतीश्वरावरकमायायां तदुभयमध्यवर्तित्वेन यवनिकासाम्यमिति भावः ।। २६ ।।
भावदीपः
।। यवनिकादीति ।। द्वयोः मध्यगतविवृतप्रसारितपटाद्यावरणं यव-निका । आदिपदेन कुड्यादिग्रहः ।। इत्यादिविरोध इति ।। ‘ज्ञानी च मां भजते’, ‘तेषां ज्ञानी नित्ययुक्तः’, प्रियो हि ज्ञानिनः’ इत्यादिपूर्वतनग्रन्थविरोधः । ‘न कश्चन वेद’ इत्युक्त्या ज्ञानिन एव दुर्लभत्वादिति भावः ।। २६ ।।
भावरत्नकोशः
एवमपि सर्वज्ञानोक्तेः कथं सङ्गतिरित्यत उक्तम्– यवनिकेति ।। तिरस्करिणीत्यर्थः । जीवं प्रति मायाया ईश्वरकर्मकज्ञानावरणत्वेन तस्या जीवेश्वरमध्यवर्तितया यवनिकासाम्यम् । यवनिका हि पुरुषद्वयमध्यवर्तिनी परस्परज्ञानाच्छादिका दृश्यते । तद्वन्मायाऽपि भगवतो भूतविषयाज्ञानमापादयति किमिति शङ्कानिरासार्थमिति शेषोक्तौ सङ्गतिर्लभ्यत इति भावः । तथाऽपि सङ्गतिलाभेऽपि, ‘मूढो लोको मां नाभिजानाति’ इत्यव्यवहितश्लोक एवास्यार्थस्योक्तत्वात् पुनरभिधानं व्यर्थमिति भावः । तत्सार्थक्यमाह– इति शङ्कानिरासार्थमिति ।। तर्हि ‘कोऽपि न वेद’ इत्युक्तौ, ‘ज्ञानी च भरतर्षभ भजते’ ‘ज्ञानी त्वात्मैव’ ‘स च मम प्रियः’ इत्यादौ भगव-ज्ज्ञानिन उक्तत्वात् तद्विरोध इत्यर्थः । स्वेतीति । स्वसामर्थ्यात् कोऽपि जानाति । जानन् कश्चनापि मदनुग्रहेणैव मां जानातीति तात्पर्यान्नोक्तविरोध इति भाष्यभाव इति हृदयम् ।।
यवनिकोभयभागवर्तिनोः परस्पराज्ञानवत् तवापि भूतविषयेऽपि अज्ञानं स्यात् ? इत्याशङ्का-निरासार्थम्, तिरस्करिण्यपि माया न मां बध्नातीत्युच्यते वेदाहमिति । भविष्याणि भविष्यन्ति । ‘लृटः सद्वा इत्यत्र अकारोऽप्यत्र प्रश्लिष्य व्याख्यायते’ इति ऋग्भाष्यटीकारीत्याऽकारान्तत्वं निर्वोढव्यम् । भूतानि वेद जानामि । मायाया मदधीनत्वात् सा मम यथा बन्धिका, तथाकरणे सामर्थ्यसत्त्वाद् भूतविषयकाज्ञानजननी न भवितुमर्हतीति भावः । मया मूढो लोकस्तु न मां वेद । असमर्थो लोको न जानातु, अतिसमर्थस्तु ब्रह्मादिर्ज्ञास्यतीति शङ्कापनोदायोक्तम् कश्चन इति । अतिसमर्थो ब्रह्मादिरपि भगवत्प्रसादमन्तरा स्वसामर्थ्येन न वेद, साकल्येन च न वेद । यदाहुः
‘यथाऽऽत्मानं हरिर्वेत्ति तथाऽन्ये नैव तं विदुः ।
जानन्ति किञ्चित् क्रमशो रमाद्यास्तत्प्रसादतः ।।’ इति ।। २६ ।।
भावदीपिका
।। यवनिकेति ।। जीवं प्रति परमाच्छादकमायया जीवेश्वरोभय-मध्यवर्तित्वेन यवनिकासाम्यमिति भावः । तर्हीति ।। यदि ‘कश्चन’ इति विशेषणसामर्थ्यादति-समर्थोऽपि ब्रह्मादिर्न मां वेदेत्युक्तौ ‘ज्ञानी च’ (७.१६) इत्याद्युक्तविरोधः स्यादित्यर्थः ।।२६।।
भावप्रकाशः
कथमनेन सङ्गतिलाभ इत्यत आह– यवनिकेति ।। जीवं प्रति ईश्वरावरकमायायाः तदुभयमध्यवर्तित्वेन यवनिकासाम्यं बोध्यम् ।। २६ ।।