आयुः सत्त्वबलारोग्यसुखप्रीतिविवर्धनाः । रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ।। ८ ।।
आयुः सत्त्वबलारोग्यसुखप्रीतिविवर्धनाः ।
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ।। ८ ।।
भाष्यम्
प्रीतिः आनन्तरिका । हृद्यत्वं दर्शने । स्थिराश्च न तदैव पक्वा भवन्ति । तथा ह्याज्यादयः ।। ८ ।।
भावप्रदीपिका
प्रीतिविवर्धनाः हृद्याः इत्यनयोरर्थभेदमाह– प्रीतिरिति । अन्नानां स्थैर्यं नाम किम् इत्यत आह– स्थिराश्चेति ।। ८ ।।
प्रमेयदीपिका
‘प्रीतिविवर्द्धनाः’ ‘हृद्याः’ इत्येतयोरर्थभेदमाह– प्रीतिरिति ।। आनन्तरिकेति ठन् प्रत्ययान्तम् । सेवाव्यवहितकाल इत्यर्थः । ‘प्रियं तत्कालसौख्यदम्’ इति वचनात् । दर्शनेऽनुभवे सति पश्चादपि यन्मनोहारित्वं तत् हृद्यत्वम् । ‘हृद्यं पश्चात् मनोहारि’ इति वचनादित्यर्थः । आहाराणां क्षणिकानामभावात् कथं ‘स्थिराः’ इति विशेषणम्? इत्यत आह– स्थिराश्चेति ।। चस्त्वर्थः प्रसिद्धं स्थैर्यं व्यावर्तयति । तदैव अचिरकाल एव । पक्वाः निवृत्तपाकाः, चिरकालं देहे गुणप्रदा इत्यर्थः । असम्भवपरिहाराय तानुदाहरति– तथा हीति ।। ८ ।।
भावदीपः
ननु ठक्प्रत्ययान्तत्वे ‘टिड्ढाणञ्’ इत्यादिना ङीप्प्रत्यये सति आनन्तरिका इति भाव्यमित्यतो नायं ठगन्तः, अपितु ‘तद्धिताः’ इति बहुवचननिर्देशादन्य एवेत्याह– ठन्प्रत्ययान्तमिति ।। तथाच टाबन्तः साधुरिति भावः ।। इति वचनादिति ।। ‘हृद्यं पश्चान्मनोहारि प्रियं तत्कालसौख्यदम््’इति तात्पर्यवचनादित्यर्थः ।। निवृत्तेति ।। निष्फला इत्यर्थः ।। ८ ।।
वाक्यार्थप्रदीपः
ननु अनन्तशब्दात् भवार्थे ठकि तस्य ठस्येक इति इकादेशे कित्त्वात् किति च इत्यादिवृद्धौ टिड्ढाणञ् इति ङीपि यस्येति च इति अकारलोपे आनन्तरिकी इति भवितव्यम् । आनन्तरिकेति तु कथमित्यत आह– आनन्तरिकेति ठक्प्रत्ययान्त इति ।। तथाचानन्तरिकशब्दस्य ठक्प्रत्ययान्तत्वेपि ढक्प्रत्ययान्तत्वाभावात् न टिड्ढाणञ् इति ङीबित्यर्थः । नच ठगाश्रयणेपि कित्वादादिवृद्ध्यनुपपत्तिरिति वाच्यम् । अनन्तरमेवानन्तरमिति स्वार्थे अणि णित्वादादिवृद्धौ आनन्तरशब्दनिष्पत्तौ आनन्तरं भवेति भवार्थे ढप्रत्ययव्युत्पादने तात्पर्यादित्याहुः । मन ज्ञान इत्यतः इकारप्रत्ययः । उपधाया उकारश्चेति । मनेरुच्च इत्यौणादिकसूत्रेण मनेरिन्प्रत्यस्य उपधाकारस्य चोकारादेशविधानात् मुनिरिति रूपं सिद्ध्यतीत्यर्थः ।।
भावरत्नकोशः
आनन्तरिक इति शब्दस्य ठक्प्रत्ययान्तत्वे ठञ्प्रत्ययान्तत्वे वा ‘टिड्ढाणञ्...’ इत्यादिना ङीपि, ‘आनन्तरिकी’ इति भाष्ये निर्देशः स्यात् इत्यतः तस्य रूपं निर्धारयति– आनन्तरिकेति ठन्प्रत्ययान्तमिति ।। न विद्यते अन्तरं व्यवधानं यस्य तद् अनन्तरम् । ‘पौरुषम्’ इत्यादाविव भावेऽण्प्रत्यये अनन्तरस्य भावः आनन्तरम् । ततः ‘तदस्यास्ति’ इत्यर्थे ‘अत इनिठनौ’ इति ठन्, ‘ठस्येकः’ ‘यस्येति च’ इति अकारलोपः, ततः स्त्रियाम् टाप् । सति चैवम् ‘आनन्तरिका’ इति सुप्् निष्पत्तिरिति भावः । ‘आनन्तरि-केति इक्प्रत्ययान्तम्’ इति पाठे अनन्तरशब्दात् ‘तद्धिताः’ इति बहुवचनज्ञापित इक्प्रत्ययः, ‘यस्येति च’ इति अकारलोपः, कित्त्वात् ‘किति च’ इति वृद्धिश्च इति व्याकुर्वन्तः स्वामिनः । तदर्थमाह– सेवेति ।। अनुभवाव्यवहितसमयभाविनी । उक्तार्थे तात्पर्यनिर्णयवचनं प्रमाणयति– प्रियमिति ।। सेवाऽव्यवहितकाल एव सौख्यप्रदम् अभ्यवहार्यवस्तु प्रियमित्युक्त्यैव ‘तत्सेवाऽ-व्यवहितकालभावि सुखं प्रीतिः’ इति विभावितमिति प्रकृतसिद्धिः । भाष्यपदं व्याकुर्वंस्तत्र शेषमाह– दर्शनेऽनुभवे सतीति ।। पश्चादपि न केवलं तत्काले इति अपिशब्दः । क्षणिकानाम् आशुविनाशिनाम् अभावात् स्थायित्वाभावात् । ‘भावात्’ इति पाठे ‘सत्त्वात्’ इत्यर्थः । त्वर्थः सन् तुशब्दार्थकः सन् प्रसिद्धं स्थायित्वाख्यम् । ‘पक्वाः निष्पन्नपाकाः’ इत्यत्र विवक्षितं पाकशब्दार्थमाह– निर्वृत्तेति ।। तदैव उपहितकाले न चेत् किं तर्हि इत्यतो भाष्य-भावमाह– चिरकालमिति ।। गुणाः पुष्ट्यादयः । भाष्ये आज्यादयः आज्यरसायनादयः ।।
गीताक्षरार्थस्तु स एव भेद उच्यते– आयुरित्यादिभिस्त्रिभिः । आयुः जीवनं सत्त्वं साधुभावः, भवति हि सोऽपि शुच्यन्नाद् बलं शक्तिः आरोग्यं रोगराहित्यं सकृदुपयुक्तेनापि विषयेण यत् सुखं भवति तदिह सुखशब्देन विवक्षितम् । विषयसेवाऽव्यवहितकाले भवं सुखं प्रीतिः तासां विवर्धनाः विशेषेण वृद्धिं कुर्वन्तः ते च रस्याः रसोपेताः बहुवारोपयोग एव सौख्यप्रदाः स्निग्धाः स्नेहयुक्ताः स्थिराः चिरकालं देहे गुणप्रदा आज्यादयः हृद्याः सेवानन्तरमपि ये ‘पुनर्भूयासुः’ इति मनोहरन्ति ते । एवंविधा आहाराः कर्मणि घञ् । अभ्यवहर्तव्याः । सात्त्विकानां प्रियाः इष्टाः ।। ८ ।।
भावदीपिका
।। ठन्प्रत्ययान्तमिति ।। अनन्तरमेव आनन्तरम् । तथा च आनन्तरशब्दात् भवार्थे ठन्प्रत्यये ‘ठस्येकः’ इति सूत्रेण तस्येकादेशे भस्य रकारस्थाकारस्य लोपे ‘आनन्तरिक’ इति जाते, ‘अजाद्यतष्टाप् इति टापि आकारमात्रं विहाय सर्वस्यापि लोपे अकः सवर्णे दीर्घेे, ‘आनन्तरिका’ इति रूपम् । न तु ‘ठक्प्रत्ययान्तम्’ इति पाठः । तथात्वे आनन्तरशब्दात् ठक्प्रत्यये ककारलोपे ठस्येकादेशे ‘आनन्तरिक’ इति जाते ‘टित्ढअण्-अञ्द्वयसच्दघ्नच्मात्रच्तयप्ठक्ठञ्कञ्क्वरप्ख्युनाम्’ इति सूत्रेण ङीपि ‘आनन्तरिकी’ इति भाष्ये पाठः स्यादिति ज्ञेयम् । तत्कालेति । सेवाऽयव्यवहितकाल एवेत्यर्थः । पश्चादिति ।। अव्यवहितकालं विना कालान्तरेऽपीत्यर्थः । प्रसिद्धेति ।। स्थायित्वापरपर्यायमित्यर्थः । अचिरकाले निर्वृतपाकाः प्राप्तकलाः । न तदैव पक्वा भवन्तीत्यस्य फलितमाह– चिरकालं देह इति ।। असम्भवेति ।। ‘तादृशाः पदार्था एव न सन्ति’ इत्यसम्भावनाशङ्कापरिहारायेत्यर्थः
।। ८ ।।
भावप्रकाशः
ननु ठगन्तत्वे टञन्तत्वे च ‘टिड्ढाण्’ इति ङीपि सति ‘आनन्तरिकी’ इति स्यात् । तेन ‘निर्वृत्तम्’ इत्यादेष्ठगाद्यर्थस्य प्रकृतेऽविवक्षितत्वाच्चेत्याशङ्क्या-नन्तरिकशब्दार्थं वक्तुं तत्स्वरूपं निर्धारयति– आनन्तरिकेति ठन्प्रत्ययान्तेति ।। अनन्तरस्य भावः आनन्तरम् । पौरुषमित्यादिवद्भावे णप्रत्ययः । ततस्तदस्य अस्तीत्यानन्तरिका । अत इनि ठनाविति ठन् । ‘ठस्येकः’ ‘यस्येति च’ इत्यकारलोपः ततः स्त्रीत्वात् टाप् । एवं सति आनन्तरिकेति रूपं भवतीत्यर्थः । अस्त्वेवम् । ततः किं प्रकृत इत्यत आह– सेवेति ।। अनुभवेत्यर्थः । ननु ‘पक्वाः’ इत्यत्र पच्यर्थस्य ‘तदेव’ इत्यनेन तत्कालत्वमुक्तम् । क्तप्रत्ययेन चातीतत्वमिति व्याघात इत्यत आह– निर्वृत्तपाका इति ।। न च सः ‘निर्वृत्त’ इति क्तेना-तीतत्वमुक्तमिति व्याघाततादवस्थ्यम् । अकर्मकत्वात् कर्तरि विहितस्यास्य भूताधिकार-विहितत्वाभावादित्यशयात् । ननु तदैव पक्वा न भवन्तीत्येतत् मांसादितामसाहारसाधारणम् । पललं च चतुर्दशेत्यादि वैद्यशास्त्रे चतुर्दशघटिकाद्यनन्तरं मांसादिपाकस्योक्तत्वादित्यत आह– चिरकालमिति ।। गुणप्रदाः पुष्ट्यादिहेतवः ।। ८ ।।