यं सन्न्यासमिति प्राहुर्योगं तं विद्धि पाण्डव । न ह्यसन्न्यस्तसङ्कल्पो योगी भवति कश्चन ।। २ ।।
यं सन्न्यासमिति प्राहुर्योगं तं विद्धि पाण्डव ।
न ह्यसन्न्यस्तसङ्कल्पो योगी भवति कश्चन ।। २ ।।
भाष्यम्
सन्न्यासोऽपि योगान्तर्भूत इत्याह– यं सन्न्यासमिति ।। कामसङ्कल्पाद्य-परित्यागे कथमुपायवान् स्यादित्याशयः ।। १ ।।
भावप्रदीपिका
यद्यपि योगसंन्यासौ द्वावप्यपेक्षितौ । तथाऽपि संन्यासो योगादवम इत्यभिप्रायेणोत्तरश्लोकमवतारयति– संन्यासोऽपीति । कथं सङ्कल्पमात्रत्यागः संन्यासश्च ? इत्याशङ्क्य, ‘न हि’ इत्यस्यार्थमाह–कामेति । कामोऽप्युपलक्ष्यते ‘सङ्कल्प’-पदेनेत्यर्थः ।। २ ।।
भावप्रकाशिका
अधुना योगस्य प्राधान्यं वक्तुमितरस्य तदन्तर्गतत्वमाह– संन्यासोऽपीति । ननु सङ्कल्पत्यागमात्रात् कथं संन्यासी ? इत्याशङ्कां परिहरन् ‘योगी’ इति पदं व्याचष्टे– कामेति । कामाद्युपलक्षणार्थः सङ्कल्पशब्द इति भावः ।। २ ।।
प्रमेयदीपिका
ननु सन्न्यासयोगौ भिन्नलक्षणौ । तत्कथं तयोरैक्यमुच्यते? इत्यत आह– सन्न्यासोऽपीति ।। ‘स सन्न्यासी च योगी च’ इत्युक्त्या प्राप्तात्यन्तभेद-शङ्कानिवृत्त्यर्थम्’ इति शेषः । ‘अमुख्ययोगापेक्षया पृथगुक्तोऽपि’ इत्यपेरर्थः । योगशब्देन मुख्योऽत्राभिहितः । अत एव वक्ष्यति उपायवान् इति । अन्तर्भूतत्वादैक्योक्तिः इत्यर्थः ।।
‘सन्न्यासस्य योगान्तर्भूतत्वमुपपाद्यते न हि इति’ । तदसत् । सङ्कल्पत्यागमात्रस्य असन्न्यासत्वात्, ईश्वराराधनार्थाय स्वकर्मकरणमात्रं योगः । तस्य सन्न्यासाभावेऽप्युपपत्तेः इत्यत आह– कामेति ।। सङ्कल्पशब्दस्य कामाद्युपलक्षणत्वात्, योगशब्दस्य च ज्ञानोपाय-रूपमुख्ययोगार्थत्वान्नानुपपत्तिरिति भावः ।। २ ।।
भावबोधः
।। अमुख्ययोगेति । ईश्वरार्पणबुद्ध्या कर्मकरणमात्ररूपयोगैकदेशा-पेक्षयेत्यर्थः । मुख्ययोगे इति । कामादिवर्जनपूर्वकेश्वरार्पणबुद्ध्या कर्मकरणलक्षण इत्यर्थः । तथा च पूर्वोक्तयोगैकदेशे सन्यासस्यान्तर्भावासम्भवेऽपि विवक्षितेऽस्मिन् विशिष्टयोगे विशेषणभूतसन्यास-स्यान्तर्भावः सम्भवतीति भावः । अत एवेति ।। यतः सन्यासान्तर्भावाधिकरणं योगो मुख्यः, अत एवान्तर्भावोपपादक ‘न हि’ इति गीतावाक्यगतयोगीतिपदमुपायवानिति व्याख्यास्येतीत्यर्थः । विशेष्यरूपयोगैकदेशस्य ज्ञानोपायत्वांसम्भवादिति भावः ।। ऐक्योक्तिरिति । ‘यं सन्यासम्’ इति गीतायामित्यर्थः ।। २ ।।
भावदीपः
।। अमुख्ययोगेति ।। प्रागुक्तदिशा एकदेशरूपेत्यर्थः ।। अत्रेति ।। योगं तं विद्धि इत्यत्रेत्यर्थः । ऐक्योक्तिरिति ।। गीतायामिति योज्यम् ।। २ ।।
भावरत्नकोशः
।। भिन्नलक्षणाविति । ‘कामादिवर्जनं संन्यासः’, ‘भगवदर्पण-बुद्ध्या स्वविहितकर्मानुष्ठानं योगः’ इति विरुद्धधर्माधिकरणभूतावित्यर्थः । अमुख्ययोगापेक्षयेति । कामादिवर्जनपूर्वकं भगवदर्पणबुद्ध्या कर्मानुष्ठानं मुख्ययोगः । ईश्वरार्पणबुद्ध्या कर्मानुष्ठानं त्वमुख्ययोगः । तदपेक्षया च ‘स संन्यासी च योगी च’ इति पृथगुक्त इत्यर्थः । तर्हि पृथगुक्त-योगान्तर्भावायोगात् ‘योगान्तर्भूतः’ इति कथं भाष्य इत्यत आह– योगशब्देनेति ।। कामा-दित्यागेन ईश्वरार्पणबुद्ध्या कर्मानुष्ठानरूपो योगो भाष्ये योगशब्देनात्राभिप्रेतः । विशिष्टे चैकदेश-स्यान्तर्भावो युक्त एवेति भावः । अत एव योगशब्दस्य मुख्ययोगाभिप्रायकत्वादेव । उपायवान् ज्ञानोपायवान् । ‘योगी भवति कश्चन’ इति गीतास्थयोगपदस्योपायत्वेन व्याख्यानात् । ज्ञानं प्रति च मुख्ययोगस्यैव साधनत्वात् अत्र स एव ग्राह्य इति भावः । विलक्षणयोरैक्योक्तिः कथमिति कृतचोद्यं परिहर्तुमाह– अन्तर्भूतत्वादिति ।। ऐक्योक्तिः ‘यं संन्यासमिति प्राहुर्योगं तं विद्धि’ इति गीतायाम् । गीतामवतारयति– संन्यासस्येति ।। भाष्ये आदिशब्दस्योपायशब्दस्य च तात्पर्यं वदन्, सङ्कल्पत्यागमात्रस्य संन्यासत्वाभावात्, योगस्य संन्यासाभावेऽप्युपपत्तेरिति कृतशङ्काद्वयं परिहरति– सङ्कल्पशब्दस्येति ।। योगशब्दस्य योगिशब्दे प्रकृतिभूतस्य ।। २ ।।
गीताश्लोकद्वयाक्षरार्थस्तु द्वितीयाध्याये ‘योगे त्विमां शृणु’ इति योगाभिधानं प्रतिज्ञातम् । योगो नाम द्वितीयषट्के वक्ष्यमाणं भगवज्ज्ञानं प्रत्युपायः । स च कर्मयोगः, समाधिलक्षण-ध्यानयोगश्चेति द्विविधः । तत्र कर्मयोगो ज्ञानं प्रति बहिरङ्गत्वात् ‘त्रैगुण्यविषया वेदाः’ इत्यादिना द्वितीये सङ्क्षेपेण, तृतीयादावतीतग्रन्थे विस्तरेण च निरूपितः । अथ तत्साध्यत्वात् ज्ञानान्त-रङ्गत्वाच्च समाधिलक्षणध्यानयोगप्रकारः ‘स्पर्शान् कृत्वा बहिर्बाह्यान्’ इति पञ्चमान्ते सङ्क्षेपेण निरूपितो विस्तरेणास्मिन्नध्याय उच्यते । आसनादीनामत्र वक्ष्यमाणत्वेऽपि, तेषां समाध्यर्थत्वात् प्राधान्येन समाधिः, तदधिकारितदङ्गादिकथनेन प्रपञ्च्यत इत्यध्यायार्थस्तावद्भाष्यादौ स्फुटः ।
‘उद्धरेदात्मनाऽऽत्मानम्’ इत्यादिना समाधियोगं विधातुं तत्र संन्यासयोगयुक्त एवाधिकारीति ज्ञापयिष्यन् साङ्ख्याद्यभिमतदधिकारिनिरासाय समाध्यधिकारिविशेषणं ‘ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति’ इति यः प्राग्विवक्षितः कामादिवर्जनलक्षणः संन्यासः, स ईश्वराराधनरूप-स्वकर्मानुष्ठानलक्षणयोगेन सहोच्यते– अनाश्रित इति । यः पुमान् कर्मफलं अनाश्रितः कर्मफला-काङ्क्षाहीनः कार्यं स्ववर्णाश्रमोचिततया कर्तव्यं कर्म करोति स एव संन्यासी योगी च इति स्वयं ध्यानाधिकारिणं निरूप्य, यत् ‘आहवनीयाद्यग्नित्यागेन, अग्निहोत्रादिसकलक्रियात्यागेन च निस्सङ्गतया वर्तमान एव ध्यानाधिकारी’ इति मतं निराक्रियते न निरग्निर्न चाक्रिय इति । निरग्निरक्रियश्च कर्तव्यं करोति स एव संन्यासी योगी चेति चतुर्थाश्रमी संन्यासी योगी च भवत्येव । ‘स ब्रह्मनिष्ठस्तु यतिर्महात्मा शारीरमग्निं च मुखे जुहोति’, ‘अग्निर्ब्रह्म च तत्पूजा क्रिया न्यासाश्रमे स्मृता’ इत्यादेः चतुर्थाश्रमिणोऽप्यग्न्यादिश्रवणात् । यत्याश्रमस्वीकारकाले पूर्वाश्रम-स्वीकृतानां आत्मनि समारोपणाच्च । अनग्नित्वादिप्रवादश्च बाह्याग्न्याद्यभावनिबन्धन इति भावः
।। १ ।।
‘संन्यासी च योगी च’ इत्युक्त्या प्राप्ता संन्यासयोगयोरत्यन्तभेदशङ्का निवार्यते । ‘यम्’ इति शब्दः ‘ज्ञेयस्स नित्यसंन्यासी’ इत्युक्तप्रकारार्थः । उक्तप्रकारेण यं कामादिवर्जनरूपं संन्यासं प्राहुः, तं योगं कामादिवर्जनविशिष्टनिवृत्तकर्मानुष्ठानलक्षणमुख्ययोगान्तर्भूतं विद्धि हे पाण्डव । संन्यासस्य योगान्तर्भाव उपपाद्यते न हीति । कश्चन कोऽपि असन्यस्तसङ्कल्पः सङ्कल्पशब्दः कामाद्युप-लक्षणार्थः, अन्यत्र सङ्कल्पकामादिः कामवर्जनादिहीनकर्मानुष्ठानमात्रवान् इति यावत् । योगी ज्ञानवान् उपायवान् न भवति । सामग्रयेकदेशेन कार्योत्पादो न दृष्ट इति ।। २ ।।
भावदीपिका
।। भिन्नलक्षणाविति ।। ‘कामादिवर्जनं संन्यासः’, ‘इश्वरार्पण-बुद्ध्या कर्मानुष्ठानं योगः’ इति भिन्नलक्षणवन्तावित्यर्थः । अमुख्येति ।। ईश्वरार्पणबुद्ध्या कर्म-करणमात्ररूपामुख्ययोगापेक्षया ‘संन्यासी च योगी च’ इति पृथगुक्तोऽपि संन्यास इत्यर्थः । ननु तर्ह्येतादृशामुख्ययोगे कथमन्तर्भावः संन्यासस्येत्यत आह– योगशब्दो मुख्य इति ।। ‘योगं तं विद्धि’ इत्यत्र योगशब्दः कामादिवर्जनपूर्वकेश्वरार्पणबुद्ध्या कर्मनुष्ठानरूपविशिष्टरूपमुख्यार्थ एव विवक्षितः, तत्र चान्तर्भावो विशेषणस्य संन्यासस्य युक्त इत्यर्थः । अत एवेति ।। यतः संन्यासान्तर्भावाधिकरणं योगो मुख्य एव विवक्षितः, अत एवान्तर्भावोपपादकं ‘न हि’ इति गीतावाक्यगतं ‘योगी’ इति पदं कामादिवर्जनसङ्ग्रहाय ‘उपायवान्’ इति सामान्यत एव व्याख्यास्यतीत्यर्थः । विशेष्यरूपयोगैकदेशमात्रस्य ज्ञानोपायत्वासम्भवादिति भावः । भिन्नलक्षण-वतोः कथमैक्योक्तिः ? इति शङ्कायाः किमुत्तरमित्यत आह– अन्तर्भूतत्वादिति ।। संन्यासस्य मुख्योगान्तर्भूतत्वादित्यर्थः ।। २ ।।
भावप्रकाशः
।। अमुख्ययोगेति ।। ईश्वरार्पणबुध्या कर्मानुष्ठानरूपयोगापेक्षये-त्यर्थः । विशिष्टस्यैव योगशब्दमुख्यार्थत्वेनैकदेशस्यामुख्यत्वमिति भावः । मुख्य इति ।। कामा-दित्यागेनेश्वरार्पणबुद्ध्या कर्मानुष्ठानरूप इत्यर्थः । तथा च पूर्वोक्तयोगैकदेशे सन्न्यासस्यान्तर्भावा-सम्भवेऽपि विशिष्टभूते योगे विशेषणीभूतसन्न्यासस्यान्तर्भावः सम्भवतीति भावः । अत एवेति ।। मुख्ययोगस्याभिप्रेतत्वादेवेत्यर्थः । अन्तर्भावोपपादकं – नहीति ।। गीतास्थयोगिपदस्योपायत्वार्थ-कत्वव्याख्यानात् मुख्ययोगोऽभिप्रेत इति गम्यते । एकदेशग्रहणे तु तस्य ज्ञानोपायत्वाभावादग्रि-मव्याख्यानासङ्गतिरिति भावः ।। ऐक्योक्तिरिति ।। यं सन्न्यासमिति गीतायामिति शेषः ।। २ ।।