कट्वाम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः । आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ।। ९ ।।

कट्वाम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः ।

आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ।। ९ ।।

भावरत्नकोशः

गीताक्षरार्थस्तु राजसप्रियाहारोक्तिः – कट्वाम्लेति ।। कटवः मरीचिकादयः, आम्लाः जम्बीरनीरादयः, लवणा अत्युष्णाश्च प्रसिद्धाः । तीक्ष्णाः सर्षपादयः, रूक्षाः स्वत एव नीरसाः कोद्रवादयः विदाहिन उदन्योत्पादकाः सन्तापजननशीला वा । एते आहारा दुःखशोकामयप्रदाः दुःखं तात्कालिकचित्ततोदः, शोकः पश्चाद्भावि दौर्मनस्यम्, आमयः रोगः, एतान् प्रददति प्रयच्छन्तीति तथोक्ताः, आहाराः राजसस्य इष्टाः प्रियाः, एते राजसा आहारा इत्यर्थः । अत्र सात्त्विकराजसाहारेषु ‘रस्याः’ ‘स्निग्धाः’ इति सात्त्विकत्वेनोक्तानां रस्यादीनां सात्त्विकत्वं न नियतम् । तथा कट्वादीनां राजसत्वमपि । तेषामेव कदाचित् सात्त्विकत्वं कदाचित् राजसत्वमपि भवतीत्ययमर्थः । कट्वादीनामपि आरोग्यरसाद्यर्थत्वेन सात्त्विकत्वमेव । रस्यादीनामपि राजसत्वमनारोग्यहेतुत्वे । ‘दुःखशोकामयप्रदाः’ इति दुःखादिप्रदाश्चेद्राजसाः’ इत्युक्तत्वाद् ‘अनारोग्यहेतुत्वे न सात्त्विकत्वनियमः’ इत्युत्तर-प्रस्थानतोऽवगन्तव्यः ।। ९ ।।